________________
-पृ०६४] उपासकाध्ययनटीका
३६६ कश्चिदुत्पद्यते विशेषः स विलासः तत्प्रसंगे विगलिता निलिम्पललनानां देवस्त्रीणां मेखलानां काग्रीनां मणयो रत्नानि यत्र तस्यां दक्षिणश्रेणी मेघकूटपट्टनाधिपत्योपान्तः मेघकूटनगरस्म आधिपत्यं स्वामित्वम् उपान्त्ये समीपे यस्य सः, सोमन्तिनी नामवेया कान्ता यस्य सः। संसारसुखेमः पराङ्मुखा प्रतिभा बुद्धिर्यस्य स चन्द्रप्रभः खगेशः चन्द्रशेखराय पुत्राय निजश्वयं वितीयं दत्वा पर्यवसितेति-र्यवसितेन निश्चयेनाधिगतक्षुल्लकवतिरूपः सकला चासो अम्बरचरविद्या आकाशगामिनी विद्या तस्याः परिग्रहः स्वीकृतिः समीपे यस्य, सप्रश्रयं सविनयं अभिवन्द्य प्रणम्य अनवद्येति-अनवद्या निर्दोषा मुक्तिदातृत्वात् या विद्या अध्यात्मज्ञानं तया महन श्रेष्ठ, भगवन् अहम् उत्तरमथुरायां जिनमन्दिराणि वन्दितुकानोऽस्मि । कथंभूतायाम् उत्तरमथुरायाम् । पौराङ्गनेतिनागरस्त्रीणां शृङ्गारयुक्ता उत्तरङ्गा तरङ्गवत् उन्नति प्राप्ता ये अपाङ्गाः नेत्रान्तास्तैः पुनरुक्ताः स्मरशराः मदनबाणा यत्र तस्याम् उत्तरमथुरायाम् । जिनेन्द्र मन्दिराणि वन्दते स्तौति अभिवादयते इति बन्दारु वन्दनशीलं तच्च तद्धदयं च तस्य दोहदः इच्छा वतते यस्य प अहं वर्ते । अतस्तन्न गरोगमनाय भगवतानुज्ञातोऽस्मि । किं च कस्य तस्यां पुरि कथयितव्यम् इति । अपृच्छत् ।
[पृष्ठ ६३ ] मुनिसतमः-प्रियतम यथा ते मनोरथस्तथा अभिमतपथः इष्टमार्गः समस्तु भवतु । संदेष्टव्यं पुतस्तत्रतावदेव कथितव्यं पुनस्तत्र इदमेव, यदुत तत्पुरोपुरन्दरस्य उत्तरमथुरापुर्याः इन्द्रस्य स्वामिन इत्यर्थः, वरुणधरणोश्वरस्य वरुणभूमिपतेः शचीदृशः इन्द्राणीतुल्यायाः सुदृशः सुदृष्टेः सम्यग्दर्शनधारिण्याः, जिनपतेः चरणयोः चित्तेन मनसा य उपवारः सेवा तस्य पदव्याः मार्गभूतायाः महादेव्याः रेवतोतिनामधेयायाः मदोया आशोः आशीर्वादो वाच्यः वक्तव्यः । तथा आवश्यकविशेषवशचितवत: आवश्यकानि सामायिकादीनि तेषां विशेषे वश्यं चित्तम् अस्ति यस्य तस्य सुव्रतभगवतः वन्दना च वाच्या। देशयतिवरः-किम् अपरस्तत्र भगवन जैनो जनो नास्ति । भगवान-देशवतिन, अलं विकल्पेन विचारणेन पर्याप्तम । तत्र गतस्य भविष्यति समस्ताप्याहतेतरशरोरिसपक्षासमक्षा स्थितिः। ये जिनानयायिनो ये चान्ये जनाः तेषां स्थिति: अस्तित्वं तत्रास्ति न वेति सर्वमेव तव गतस्य व्यक्तीभविष्यति । ये जैना जना ये च तत्सदशाः तेषां अस्तित्वं समक्षं प्रत्यक्षं भवति । खचरविद्याबीजमल्लकः क्षुल्लको यथादिशति दिव्यज्ञानसंगवान् भगवान् । नभश्चरविद्याबीजवपने मृत्पात्रसदशः क्षुल्लको देशयतिरब्रवीदेवं भगवान् खल दिव्यज्ञानस्य अतीन्द्रियज्ञानस्य संगेन युक्तः । अतः यदादिशति तत्र भवान् तत्सर्वं सत्यमेव । इति निगोर्य एवं भाषित्वा। गगनचर्यया आकाशगमनेन अवतीयं उत्तरमथुरायां परीक्षेय परोक्षां कुर्वीय तावत्प्रथमम् एकादशाङ्गनिधानम् आचाराधेकादशाङ्गानां निधीभूतस्य भव्यसेनमुनेः । तदनु भत्र्यसेनपरीक्षणात्पश्चात् सम्यक्त्वरलवती सम्यग्दर्शनमणिभूषितां रेवती परीक्षेय इति कृतकुतूहल: (क्षुल्लक: बटुवंषेण भव्यसेनस्य मुनेराश्रममगच्छत् ।) कथंभूतं कपटबटुवेषम् आश्लिष्य तदाश्रममगच्छत् । कलमेति-शालिविशेषशस्यमञ्जरीणाम् अग्रसदृशकेशमनोहरविपुलचूडम् । उत्तप्तेति-अग्नितप्तसुवर्णकान्तिमनोज्ञदेहगौरतामनुसृत्य कमलमधुरजोवत् कपिशलोचनम्, अतिस्पष्टेति-अतिविशदविस्तराक्षरवर्णनाय उदीर्णमुखं मुखं व्यादाय ब्रुवन्तमिति भावः । एकादशवर्षजातकुमारसदृशम् अत्याश्चर्यविषयभूतम्, कपटेन विद्यासामर्थ्येन कुमारवेषं गृहीत्वा भव्यसेनस्य उदवसितम् आश्रमम् अयासीत् प्राविशत् । वेषमुनिः वेषेण द्रव्यलिङ्गेन मुनिः भव्यसेनः तम ईक्षणकमनीयं नेत्रप्रियतामावहन्तं द्विजेति-विप्रतनयसमानं तम आलोक्य किलवं स्नेहाधिक्यं स्नेहातिशयेन अलोलपत अब्रवीत् । “हहो बटो हे कुमार निखिलेति-निखिलाः सकलाश्च ते द्विजाः विप्रास्तेषां वंशस्तस्मात् अव्यतिरिक्तम् अभिन्नं च तत् सुकृतं पुण्यं तेन कृतं यत्कल्याणं हितं तत्प्रकृतितया तत्स्वभावतया । समस्तेति-समस्ताश्च ते लोकाश्च सकलजनाश्च तेषां लोचनानि नेत्राणि तेषाम् आनन्दस्य प्रमोदस्य उत्पादने निर्मापणे पटश्चतुरः तत्संबोधनं हे बटो इति । कुतः खलु समागतोऽसि । वटुराह
[पृष्ठ ६४] अभिनवेति-अभिनवा नूतनाश्च ते जनाश्च तेषां मनसाम् आह्लादनानि तानि वचनानि तान्येवागदा औषधानि तेषां प्रयोगे चरकभट्रारक इव तत्संबोधनम् । सकलेति-सकलकलानां विलासगहरूपा ये विद्वज्जनास्तैः पवित्रात्पाटलिपुत्रात् तन्नामधेयात् नगरात् । किमर्थ समागतोऽसि । अध्ययनार्थम् । काधिजिगांसति-क्व कस्मिन्विषये अधिजिगांसा ज्ञातुमिच्छा तस्या अधिकरणम् आधारभूतं भवतः अन्तःकरणं