SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ३६८ पं० जिनदासविरचिता [पृ० ६३मगर्हणीयम् । अत्र वैदिकशिवाम्नाये मखमोक्षाय विधिः यज्ञे मोक्षप्राप्ती च यो विधिः क्रियते तत्र उक्तानां मध्वादीनां प्रयोगो विद्यते इति ॥१७४।। भर्मिभस्मेति-ममिः मायापरवञ्चनम्, भस्मलेपनम् । जटाजूटधारणम् योगपट्टो वस्त्रविशेषधारणम् । कटासनं दर्भासनम् । मेखला दर्भकटिसूत्रम् । प्रोक्षणं भूमिशुद्ध जलदुग्धादिसिञ्चनम् । मुद्रा शङ्ख मुद्रामुक्ताशुक्तिमुद्रादिकं हस्ताङ्गुलोनाम् आकारविशेषः । बृसी कुशादिमयासनम् चट्टकः । दण्डः पालाशवणवादिकाष्ठविशेषः । आषाढो वतिना दण्डः । करण्डकः वंशादिरचितः समुद्गकः ॥१७५॥ शौचम् अङ्गावयवानां पवित्रोकरणम्, मज्जनं नद्यादिषु स्नानम्, आचामः आचमनम्, पितृणां पूजनं श्राद्धेन संतर्पणम्, अनलार्चनम् अग्निपूजनम्, इयं प्रक्रिया एतानि कर्माणि अन्तस्तत्त्वविहीनानाम् आत्मानात्मविचारशून्यानां विराजन्ते शोभन्ते ॥१७६॥ को देव इति–आप्तः को भवितुमर्हति, किमिदं ज्ञानम्, येन परमात्मबोधो भवति तज्ज्ञानम्, किं वा कुटुम्बपोषणोपयोगिबोधो ज्ञानम्, किं तत्त्वम् एकान्तवस्तुस्वरूपम् उतानेकान्तवस्तुस्वरूपं तत्त्वम् । को बन्धः कर्मात्मनोरन्योन्यं दृढाश्लेषो बन्धः उत रज्ज्वादिना बन्धनम, कश्च मोक्षः कारागारान्म कर्मजीवयोरत्यन्तविश्लेषो मक्तिः इत्यादि विचारस्तत्र न विद्यते । मिथ्यादष्टिमतानि एकान्तप्रतिपादकान्यतस्तत्र बन्धमुक्त्यादीनामसंभवः स च प्राक्प्रतिपादितः ॥१७७॥ आप्तेति-आप्तस्य आगमस्य च अविशद्धत्वे सदोषत्वे आप्तो यदि रागादिदूषितः स्यात्, आगमश्च यदि पूर्वापरविरोधादिदोषयुक्तो यज्ञादिविधानानां च प्रतिपादकः स्यात्तहिं तत्र विशुद्धत्वं न संभवेत् । तथा देहिषु प्राणिषु क्रिया शुद्धापि आचारविशुद्धिरपि अभिजातफलप्राप्त्यै उत्तमवीतरागसुखप्राप्त्यै न भवति । यथा विजातिषु व्यभिचारादिदोषदूषितेषु मानवेषु सद्गोत्रभूषितपुत्राविफलप्राप्तिर्न भवति ॥१७८॥ [पृष्ठ ६२] तत्संस्तवेति-तेषां कुदृष्टीनां संस्तवं मिथ्याज्ञानचारित्रगुणोद्भावनं वचसा न कुर्वीत । तत्प्रशंसां वा, भूताभूतगुणोद्धावनं मनसा न कुर्वीत । तथा विपश्चित् विबुधः तेषां ज्ञानविज्ञानयोः मन्त्रवादादिविषये ज्ञाने विज्ञाने च निर्बीजकरणादि शुक्रस्य नेत्रादौ निःकाशनम् । एकान्ततत्त्वज्ञाने कलादिज्ञाने च न विभ्रमेत् विभ्रमं विस्मयभ्रान्ति च न गच्छेत् ॥१७९॥ (अमूढताङ्गे रेवतीराज्ञो-कथा) श्रूयतामत्रोपाख्यानम्(देशयतिश्चन्द्रप्रभः उत्तरमथुरां गन्तुकामः श्रीमुनिगुप्तमपृच्छत्) कथंभूतेषु पाण्डयमण्डलेषु । मुक्ताफलेतिमुक्ताफलानि मौक्तिकानि तेषां मजरी पङ्क्तिः तया विराजितानि शोभितानि विलासिनीनां कर्णकुण्डलानि येषु तेषु पाण्डयमण्डलेषु पाण्डयदेशेषु इत्यर्थः । दक्षिणमथुरायां कथंभूतायाम् । पौरेति-पुरे भवाः पोरा नागरिकाः तेषां पुण्याचाराः देवपूजादिषट्कर्माणि । तैः विदूरितानि विनाशितानि विधुराणि कष्टानि यया सा तस्याम् । (श्रीमुनिगुप्तनामव्याहारं भदन्तं चन्द्रप्रभो देशयतिरपृच्छत् ) कथंभूतम् भदन्तं भन्दते इति भदन्तः भदि कल्याणे पूजितः तम्, भगवन्तं महाज्ञानिनम्, तमेव विवृणोति-अशेषेति-अशेषं च तत् श्रुतं द्वादशाङ्गश्रुतज्ञानं तदेव पारावारः समुद्रः तं गच्छतीति तम्, अवधिबोधः अवधीति-अव दधातीति अवधिः स चासो बोधश्च अधस्ताद्बहतरविषयाणां ग्रहणादवधिरुच्यते, तृतीयमतीन्द्रियज्ञानं रूपिविषयकम् । स एव अम्बुधिः समुद्रः तस्य मध्ये साधितः सकलभुवनभागः येन तम् । अष्टाङ्गेतिअष्टौ अङ्गानि यस्य तत् अष्टाङ्गं कानि तानि चेदुच्यन्ते-अन्तरिक्ष-भौम-अङ्ग-स्वर- व्यञ्जन-लक्षणछिन्न-स्वप्ननामानि ) तच्च तन्महानिमितं शास्त्रं तस्य संपत्त्या समधिका प्रकर्ष प्राप्ता या धिषणा बुद्धिस्तस्या अधिकरणम् अधिष्ठानम् । अखिलेति-अखिलाः सकला: श्रमणा यतयः तेषां संघः स एव सिंहस्तेन उपास्यमानौ पूज्यमानी चरणो यस्य सः तम् , अत्याश्चर्येति-अत्याश्चर्येण युक्तं तत्तपश्चरणं तस्य गोचरो विषयोभूतः स चासौ आचारस्तस्य चातुरी नैपुण्यं तया चमत्कृतं विस्मयभावं नीतं चित्तं येषां ते च ते खेचरा विद्याधराः तेषाम् ईश्वराः स्वामिनः तैविरचिता कृता या चरणयोः अर्चना पूजा तस्या उपचारः सेवा यस्य तं चन्द्रप्रभो देशयतिरपृच्छत् । अधुना चन्द्रप्रभदेशयतेः संबन्धः प्रदर्श्यते-कथंभूतस्य विजयार्धमेदिनीध्रस्य । ति-गगने आकाशे गमनं येषां ते गगनगमनाः विद्याधरास्तेषाम् अङ्गनाः ललनाः तासाम् अपाङ्गाः नेत्रान्ताः कटाक्षाः तेषाम् अमृतसारणी सुधाकुल्या तस्याः संबन्धेन वीध्रस्य शुक्लतां प्राप्तस्य, विजयापर्वतस्य दक्षिणश्रेणी । रतिकेलीति-रतिकेलि: संभोगकोड़ा तत्समये यो विलासः रामानयनवदनभ्रप्रभतीनां यः
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy