________________
३६५
-पृ०५६]
उपासकाध्ययनटीका समीपे, विरतीति-विरतीनाम् आर्यिकाणां विशेषस्तस्य वशं तेन परिपाल्यमानं रत्नत्रयकोशं सदृष्टयादित्रयनिधिम् अभजत् सेवते स्म । भवति चात्र श्लोकः-हासादिति-पितुर्जनकस्य हासात् नर्मभाषणात् चतुर्थेऽस्मिन् व्रते स्थिता अनन्तमतिः, निष्काङ्क्षा विषयाभिलाषाया दूरं गता त्यक्तविषयेच्छा, तपः कृत्वा द्वादशं कल्पम् अच्युतं स्वर्गम् आविशत् प्रवेशं कृतवती ॥१६५।।
इत्युपासकाध्ययने निष्काक्षिततत्त्वावेक्षणो नामाष्टमः कल्पः ॥८॥
९. निर्विचिकित्सासमुत्साहनो नाम नवमः कल्पः। [पृष्ठ ५७] ( निविचिकित्साङ्गस्य वर्णनम् ) तप इति-जिनेन्द्राणाम् इदं तीग्रं तपः संवादमन्दिरं न सम्यक् वादः संवादः प्रशंसा तस्य मन्दिरं गृहम् न सत्यताया गृहं न समीचीनफलप्रदं न । अदः अपवादि च स्यात् अपवादो निन्दा तेन युक्तं स्यात् । इत्येवं चेतोऽभिप्रायः विचिकित्सना जुगुप्सालक्षणं भवति ॥१६६॥
[पृष्ठ ५८-५९] स्वस्येति-यो नरः श्रुताशयम् आगमस्याभिप्रायं निबोधितुं न शक्तः स स्वस्यैव आत्मन एव दोषः । शोलं सदाचारं व्रतपरिरक्षणात्मकम् आश्रयितुं ग्रहीतुं न शक्तः, तदर्थ शोलार्थम् आचरणप्रयोजनं ज्ञातुम् असमर्थो वा ॥१६७॥ स्वत इति-स्वत: प्रकृत्यैव शुद्धमपि निर्मलमपि व्योमाकाशं यन्नरो मलोमसं कृष्णं वीक्षते पश्यति नासो अस्य नभसो दोषः किंतु स दोषश्चक्षुराश्रयः नेत्राश्रित एव ज्ञेयः ॥१६८॥ दर्शनादिति-देहस्य रोगादिसंजातमालिन्यादिदोषाणां दर्शनात् यः तत्त्वाय आत्मनो रत्नत्रयस्वरूपाय जुगुप्सते निन्दति तत्र दोषानापादयति स नरः लोहे कालिकायाः कृष्णत्वस्य दर्शनात् नूनं सत्यम्, काञ्चनं सुवर्ण न मुञ्चति ॥१६९।। स्वस्येति-आत्मनः अन्यस्य च परजनस्य च अयं कायः शरीरं बहिश्छायामनोहरः बाह्यस्य चर्मणः कान्त्या मनो हरति । अन्तःशरीरस्य मध्ये स्थितानां पदार्थानां रक्तादीनां विचारे कृते औदुम्बरफलसदृशः उदुम्बरतरुफलसमानः स्यात् । उदुम्बरफलानि जन्तुसहितत्वात् जन्तुफलानि इति अन्वर्थनाम लभन्ते ॥१७०॥ ऐतिह्येति-तत्तस्मात् ऐतिह्ये आप्तोपदेशे श्रुते, देहे च याथात्म्यं यथार्यत्वं पश्यताम् अवलोकमानानां सतां चित्तवृत्तिः मनोऽभिप्रायः उद्वेगाय जुगुप्साय कथं नाम प्रवर्तताम् भवतु । यस्य स्वरूपं यादृग वर्तते तत्र कृतापि जुगुप्सा तत्स्वरूपपरिवृत्तये न क्षमा भवति अतो देहस्य जुगुप्सा न कार्येति भावः ॥ १७१ ॥ सौधर्मेन्द्रो निर्विचिकित्साङ्गस्य कथां कथयति श्रूयतामत्रोपाख्यानम् - मतिश्रुतेति-मतिश्रुतावधिज्ञानान्येव मार्गत्रयं तेन प्रवृत्तया मतिमन्दाकिन्या ज्ञानगङ्गया सान्द्रः निबिडः सौधर्मेन्द्रः किल । सकलेति-सर्वसुरैः सेव्यमानायां सभायाम् अवसरसमये प्रसंगमुद्दिश्योचिते काले गीर्वाणानां देवानाम् अनुग्रहाय तानुपकतुं सम्यक्त्वमणिगुणान् वर्णयन् इदानों इन्द्रकच्छदेशेषु मायापुरीत्यन्यनामावसरस्य । मायापुरीति-अन्याभिषां दधानस्य रोरुकपुरस्य प्रभोः स्वामिनः उद्दायनात् भूपतेः पुनः कथंभूतात् । प्रभावती महादेव्याः क्रीडायतनात्, अपरः कोऽपि सद्दर्शनमेव शरीरं देहः तस्य गदचिकित्सायां रोगपरीक्षायाम् अन्यः कोऽपि. क्षान्तिमतिप्रसरः क्षमाज्ञानयुक्तप्रसारः । मोक्षेति-मोक्ष एव लक्ष्मीः मुक्तिरमा तस्याः कटाक्षा नेत्रापाङ्गास्तेषामवेक्षा अव समन्तात् ईक्षा अवलोकनं तस्य अक्षणपत्रम अखण्डभाजनं तस्मिन, मर्त्य क्षेत्रे नरलोके नास्ति, इत्येतच्च व संज्ञायाः नाम्नः ईशः स्वामी त्रिदशः वासवनामा देवः पुरन्दरस्य इन्द्रस्य उदितं भाषणं तत् असहमाना सोढुमक्षमा प्रज्ञा मतिर्यस्य सः, तत्र नगरे मायापुरे । कथंभूते । महामुनिसमूहप्रचारेण प्रवरे श्रेष्ठ, अवतीर्य स्वर्गादागत्य (कुष्ठादिपीडितमुनिवेषम् आदाय नृपतिगृहमविशत्) कथंभूतं मुनिवेषम् आदाय प्राविशद्राजगृहमिति विप्रियतेऽधुना। सर्वाङ्गेति-सर्वाङ्गान्यधिकृत्य प्रतितिष्ठतीति प्रतिष्ठं तच्च तत्कुष्ठं च तस्य कोष्ठकं संग्रहागारम् । पुनः कथंभूतम् । निष्ठ्यतेति-निष्ठ्य तं खात्कृत्य बहिन्तिो यो द्रवः कफः तस्य उद्रेकः आधिक्यं तेन उपद्रुतः पीडितो देहो यस्य तम् । पुनः कथंभूतम् । अखिलेति- अखिलाश्च ते देहिनः प्राणिनस्तेषां संदोहः समूहस्तस्य उद्वेजनानि जुगुप्सोत्पादकानि यानि श्रवणेक्षणघ्राणगरणानि कर्णनेत्रनासिका. कण्ठास्तेभ्यो विनिर्गलन् स्रवन् अनर्गल: अप्रतिबद्धः सततं प्रवर्तमानः दुर्गन्धः पूतिः पूयप्रवाहः दूषितरुधिरस्रावः