________________
३६४
पं० जिनदासविरचिताः निजभार्या तस्या दर्शनात् । शङ्किताशयेन शङ्कितः भोतः अभिप्रायः यस्य तेन । तत्कायेति-तस्याः अनन्तमत्याः काये शरीरे संक्रमिता प्रवेशिता अवलोकिनी च पर्णलघुविद्या च तयोर्टयेन युगलेन शङ्खपुरस्य अभ्यणं समीपं भजतीति अभ्यर्णभाक् तस्मिन्, भीमवननामनि कानने वने मुक्ता त्यक्ता । तत्रच मृगयेति-मृगया आखेटं तस्य प्रशंसनमभिलषणं तदर्थं समागतेन भीमनाम्ना किरातराजेन अबलोकिता, कथंभूतेन । किरातेति-किरातानां भिल्लानां राजा किरातराजः तस्य लक्ष्मीस्तस्य सीम्ना मर्यादाभतेन अवलोकिता नीता च पल्लि शबरग्रामम । उपान्तति-उपान्ते समोपे प्रकीर्णानाम् इतस्ततः विकीर्णानाम् इङगुदीफलानां तापसतरुफलानां छल्लयस्त्वचो यत्र ताम् । एतदिति-एतस्या अनन्तमते रूपदर्शनेन दीप्तौ प्रज्वलितो मदमदनौ यस्य स तेन । स्वतः परतश्च तस्तैरुपायैः निजसंभोगसहायैः प्रायितापि याचितापि अनुत्पन्नकामा हठाद् बलात्कारेण कृतः कठोरः कामोपक्रमो येन । तदिति-तस्याः परिगृहीतानां स्वीकृतानां व्रतानां स्थैर्य स्थिरत्वं तस्मात् आश्चयिता विस्मिताश्चः ता: कान्तारदेवताः वनदेवतास्ताभिः कृतात्प्रातिहार्यात् माहात्म्यात् पर्याप्त: सकल: पक्वणः शबरालयस्तस्य प्लोषेण ज्वलनेन । मृत्युरिति-मृत्युमरणं हेतुर्यस्य मृत्युहेतुकः स चासो आतङ्कश्च रोगः स एव पावकोऽग्निस्तेन पच्यमानं विक्लिद्यमानं शरीरं देहो यस्य तेन किरातराजेन, 'मातः, क्षमस्व एकमिममपराधम् ।' इत्यभिधाय इत्युक्त्वा, वनेचरेति-वनेचराणां शबराणाम् उपचारः प्रेम तेनोपचीयमाना सहचरीचित्तानां सखीमनसाम् उत्कण्ठा यत्र तस्य शपुरस्य पर्यन्तः सोमारूपः पर्वतः तस्म उपकण्ठे समीपे परिहता त्यक्ता । तदितितस्य समीपे समावासितोऽध्युषितः स चासो सार्थो वणिक्समूहस्तस्य अनीकेन सैनिकेन वणिजां पतिर्वणिक्पतिवणिकस्वामी, तस्य पाकेन पुत्रेण पुष्पकनाम्ना अवलोकिता दृष्टा सती, तेन स्वीकृता च । तेन तेन चार्थेन धनादिना स्वस्य वशम् आनेतुम् असमर्थेन कोशलदेशस्य मध्ये वर्तमानायाम् अयोध्यायां पुरि व्यालिकाभिधानकामपल्लवकन्दल्याः शम्फल्याः समर्पिता । व्यालिका नाम मदनकिसलयानाम् अङ्कररूपायाः शम्फल्याः कट्रिन्याः दत्ता। तयापि मदनः कामः मदो दर्पस्तयोः संपादने आवसथाभिः गहवदाश्रयरूपाभिः कथाभिः क्षोभयितुमशक्याः तद्राजधानीविनिवेशस्य सा चासो राजधानी च तद्राजधानी सैव विनिवेशो यस्य तस्य सिंहमहोशस्य उपायनी. कृता प्राभतीकृता। तेनाप्यलब्धतन्मनःप्रवेशेन तेन सिंहमहीशेन अपि अलब्धः अप्राप्तः तस्या मनसि प्रवेशो येन तेन । विलक्षितेति-विशेषेण लक्षित: आक्षिप्तः गृहीतः दुरभिसंधिः दुष्टोऽभिप्रायो येन, तत्कन्येतिसा चासौ कन्या च तत्कन्या तस्या: पुण्यप्रभावेण प्रेरिताः पुरदेवतास्ताभिः आपादितः अन्तःपुरस्य पुरीपरिजनस्य च अपकारविधिर्यस्य तेन, साधु संबोध्य उपदिश्य नियमेति-इदं हिंसादिकं पापम् अहं न सेविष्ये इति अभिप्रायो नियमः तस्मिन् समाहितम् एकाग्रभावं नीतं यद्धदयं तस्य चेष्टा यस्याः सा अनन्तमतिः तेन सिंहमहीशेन विसृष्टा त्यक्ता । (सा अनन्तमतिश्चैत्यालयं गत्वा तत्र न्यवसत् ।) सुदेवीनामधेयायाः जनकस्य स्वसुः पत्युश्च जिनेन्द्रदत्तस्य उदवसितसमीपतिनं गहस्य संनिधौ स्थितं विरतिचैत्यालयं विरतयः आयिकाः यत्र निवसन्ति तच्चैत्यालयं जिनमन्दिरम् अवाप्य, कथंभूतस्य जिनेन्द्रदत्तस्य । गृहीतेति-गृहीतं नाम, वृत्तं च चारित्रं येन तथाभूतस्य अर्हद्दत्तस्य पितुः । तत्र विरतिचैत्यालये निवसन्ती वासं कुर्वती। यमेति-हिंसादेर्यावज्जीवस्त्यागो यमः परिमितकालस्त्यागो नियमः उपवासश्च चतुविधाहारत्यागः ते पूर्व येभ्यस्तैविधिभिः करणीयराचरणः । क्षपितेति क्षपिता विनाशं प्रापिता इन्द्रियाणां मनसश्च वृत्तिः स्वभावो यया सा,भवन्ती मान्या सती विरतिरत्नत्रयमभजत् इति संबन्धः । तस्मादङ्गदेशनगराच्चम्पातः जिनेन्द्रदत्तं निजभगिनीपतिम् । कथंभूतम् । चिरेतिचिरं विरहः दीर्घकालवियोगस्तेन उत्ताल: उत्कण्ठितस्तं श्यालं विलोकितुमागतेन प्रियदत्तश्रेष्ठिना । वीक्ष्य, विषयेति-विषयाणां पञ्चेन्द्रियार्थानाम् अभिलाषः स्पृहा तस्य मोषः परिहारस्तस्मात् परुषाः रूक्षाः कचाः केशा यस्याः सा । विहितेति-विहिता कृता बह्वो शुक् येन तेन प्रियदत्तश्रेष्ठिना, पुनः प्रत्याय्य प्रतीति निश्चयं समुत्पाद्य, तस्मै जिनेन्द्रदत्तसुताय अर्हद्दत्ताय दातुम् उपक्रान्ता प्रारब्धा ( अनन्तमतिः पितरमेवम् उवाच आर्यिकादीक्षां चाभजत् ) 'तात, तं भदन्तं पूज्यं भगवन्तं ज्ञानिनं धर्मकीतिसूरि त्वां मातरं च प्रमाणीकृत्य साक्षीकृत्य कृतति-कृतः निरवधि आजन्म चतुर्थव्रतस्य ब्रह्मचर्यस्य परिग्रहो यया सा । ततः कथमहम् इदानीं संप्रति विवाहविधये परिकल्पनीया दातुं योग्या इति निगीर्य उक्त्वा, कमलश्रीसकाशे तन्नामधेयाया विरत्याः