________________
- पृ० ५७ ]
उपासकाध्ययनटीका
३६३
उत्तरङ्गा उच्छलन्तः ये अपाङ्गाः कटाक्षाः तैः अपहसितं च तदमृतं तस्य सरणिर्मार्गस्तस्य विषयस्तस्मिन्, सदा पाञ्चालिका कृत्रिमपुत्रिका तया सह केलिः क्रीडा तस्यां किल रतं हृदयं तस्मिन् । तद्गृह्यतां तावत् सकलव्रतेषु ऐश्वर्येण प्रभावेण वयं । श्रेष्ठं ब्रह्मचर्यम् । अत्र अस्मिन् व्रते, भगवान् पूज्यः । अशेषेति -सकलागम प्रकाशनाभिप्रायभूरि : धर्मकीर्तिसूरिः । अनन्तमतिः - तात नितान्तं सर्वथा गृहीतवत्यस्मि एतद्ब्रह्मचर्यव्रतम् । न केवलमत्र विषये मे भगवानेव साक्षी, किंतु भवान् अम्बा च माता च । अन्यदा तु - उद्भिन्ने इति – स्तनकुड्मले कुचकोशे उद्भिन्ने सति उन्मीलिते सति, विलासालसे हास्ये स्फुटरसे विलासेन अलसे सुन्दरे हास्ये स्फुटर से प्रीत्युत्पादके सति वचः प्रक्रमे वचनस्य प्रक्रमे प्रारम्भे किंचित् ईषत् कम्पितं वेपितं तदेव कैतवं निमित्तं यत्र तदधरदलं प्रायो यत्र, नेत्राश्रिते विभ्रमे कटाक्षसंचारे, कन्दर्पस्य मदनस्य अभिभवकारकं यदस्त्रं तस्य वृत्तिः स्वभावस्तद्वच्चतुरे कुशले । मध्यस्य यौवनस्य गौरवगुणं महत्त्वगुणं प्रादायेव गृहीत्वेव नितम्बे श्रोण्यां वृद्धे सति पीवरायां जातायाम् ॥ १६३॥
"
यत्र
[ पृष्ठ ५५ ५७ ] कथंभूते वसन्तसमयावसरे समायाते । मुहुरिति — मुहुर्वारं वारं उत्पथे उन्मार्गे यत् प्रयाणं गमनं येन स चासौ मन्मथः स्मरस्तेन उन्मायो विभ्रमस्तेन मन्थरं चञ्चलं समस्तसत्त्वानां प्राणिनां स्वन्तं हृदयं यत्र । सद्यः प्रसूतेति - - सद्यः प्रसूताः नूतनोत्पन्ना ये सहकाराङ्कुराः आम्रमञ्जर्यः तेषां कवलनेन भक्षणेन कषायकण्ठा यासां ताः कोकिलकामिन्यस्तासां कुहारावाः कुहकुहेति ध्वनयः तैः असरालितः प्रसारितः मनसि जायते इति मनोज: मदनस्तस्य विजयो यत्र । मलयाचलेति - मलयाचलस्य मेखला तटः तत्र निलीनानि प्रविष्टानि यानि किन्नर मिथुनानि किन्नर देवदेवीयुगलानि तेषां मोहनं संभोगस्तस्मादुद्भूतः आमोदः अतिनिर्हारो गन्धस्तेन मेदुरः परिपूर्णः परि आसमन्ततः सरन् गच्छन् यः समीरस्तस्य समुदय उन्नतिर्यत्र । विकसदिति - विकसन्तः प्रस्फुटन्तः कोशाः कलिकाः येषां तानि कुरबकप्रसवानि अरुणानि पुष्पाणि तेषां परिमलस्य पाने लुब्धा या मधुकर्यः भ्रमर्यस्तासां निकरो वृन्दं तस्य झङ्कारो गुजारवस्तस्य सारप्रसर उत्तमं प्रसरणं तस्मिन् वसन्तसमयप्रसंगे प्राप्ते, ('आन्दोलनक्रीडायै उपवनं गतां तामनन्तमति कुण्डलमण्डितो नमश्चरपतिदृष्टवान्' इति वर्णयति कविः ) कथंभूता सानन्तमतिः । प्रसरति - प्रसरन् प्रादुर्भवन् स्मरविकारो यस्यां सा । पुनः कथंभूता । स्मरेति – स्मरेण मन्मथेन स्खलन्ती मतिर्गतिश्च यस्याः सा अनन्तमतिः सह सहचरीसमूहेन सह वयस्याजनेन मदनोत्सव दिवसे दोलेति — दोलया आन्दोलनं वारं वारं इतश्चेतश्चलनं तत्र लालसं सोत्कं मानसं यस्याः सा । पुनः कथंभूता सा । स्वकीयेति – स्वकीयं निजं च तत् रूपं तस्यातिशय: उत्कर्षः स एव संपत् तया तिरस्कृतः सकलानां भवनस्थितानाम् अङ्गनानां नारीणाम् अङ्गविलासो यया सा । कथंभूतेन कुण्डलमण्डितेन दृष्टा सा । सुकेशीति - सुकेश्यभिषया प्रियतमया भार्यया अनुगतेन, पुनः कथंभूतेन । कृतेति - कृतं विहितं कामचारप्रचारे यथेष्टसंचारे चेतो मनो येन तेन पुनः कथंभूतेन पूर्वापरेति पूर्वापरी पूर्वपश्चिमी च तो अकूपारौ च समुद्रो तत्र या पालिन्द्री सुन्दरी पालिन्द्री वेला एव सुन्दरी स्त्री तया सहितम् उत्सङ्गं तटं तया सनाथं धरतीति तस्य । विजयेति - विजयार्धश्चासौ अवनीं पृथ्वीं धरतीति विजयार्घावनीघरतस्य । विद्येति - विद्याः प्रज्ञप्त्यादिविद्याः घरन्तीति विद्याधराः नभश्च रास्तेषां विनोदरूपाः पादपा वृक्षास्तेषाम् उत्पादे उत्पत्ती क्षोणिः भूमिस्तस्यां दक्षिणश्रेण्यां दक्षिणपङ्क्तौ, किन्नरेति - किन्नर गोतनामनगरस्य पुरस्य इन्द्रेण स्वामिना कुण्डलमण्डितनाम्ना अम्बरचरेण अम्बरे आकाशे चरतोति अम्बरचरस्तेन विद्याधरेण नभोविहारिणा निचायिता दृष्टा । शृङ्गारेति - नूनं सत्यम्, आत्मभुवा विधिना इयं बाला जगत्त्रयवशीकरणाय लोकत्रयं स्ववशे विधातुं प्रयत्नात् सृष्टा निर्मितेति । कानादाय निर्मितेति व्याचष्टे - शृङ्गारेति — शृङ्गारस्य सारम्, अमृतद्रुति सुधाजलम्, इन्दुकान्ति चन्द्रप्रभाम्, इन्दीवरद्युति नीलकमलस्य कान्तिम्, सर्वान् अनङ्गशरान् मदनस्य कुसुमबाणान् आदाय गृहीत्वा ॥ १६४ ॥ इति विचिन्त्याभिलषिता च । ततस्ताम् अपजिहीर्षुधिषणेन अपहरणकरणेच्छामतिना, मुहुर्निवृत्य पुनः परावृत्य । निर्वर्तितेति - निर्वर्तितः कृतः निजे निलये गृहे सुकेश्या निजपल्याः निवेशः स्थितिर्येन, प्रत्यागत्य पुनरागम्य अपहृत्य ताम् अनन्तमति हृत्वा च पुनर्नभश्चरपुरं प्रत्यनुसरता प्रत्यनुगच्छता गगनमार्गात् आकाशपथात् । प्रतीति- प्रतिनिवृत्ता परावृत्य आगता कुपिता च सा सुकेशी