________________
३६२ पं० जिनदासविरचिता
[पृ०५२अक्षविक्षिप्तः इन्द्रियविषयलम्पटः, शिक्षितेति-अधीतादृश्यकज्जलविद्यः, क्षत्रपुत्रः राजपुत्रः निशङ्कः निर्भयः संदेहरहितदढ़सम्यग्दर्शनः अञ्जनचौरः अन्तरिक्षगति नभोगमनं प्राप ॥ १५७ ॥
इत्युपासकाध्ययने निःशक्तितस्वप्रकाशनो नाम सप्तमः कल्पः ॥७॥
८. निष्काक्षिततत्त्वावेक्षणो नामाऽष्टमः कल्पः। [पृष्ठ ५२-५४] ( निष्कांक्षिताङ्गलक्षणम् ) स्यामिति-यदि सम्यग्दर्शनस्य माहात्म्यं प्रभावो विद्येत तहि अहं देवः स्वां भवेयम् । यक्षः स्यां भवेयं वा वसुमत्याः पृथ्व्याः पतिनृपो भवेयम् इतीच्छां वर्जयेत् ॥१५८॥ उदश्विता तक्रेण माणिक्यं यथा भवजैः सांसारिकः सुखैः सम्यक्त्वस्य विक्रयं कुर्वाणः नरः केवलं स्वस्य वञ्चकः प्रतारकः भवेत् ॥१५९॥ यस्य चित्ते मनसि चिन्तामणिः, यस्य हस्ते सुरद्रुमः कल्पतरुः । यस्य धने कामधेनुस्तस्य कः याचनाक्रमः । सम्यक्त्वं खलु चिन्तामणिः, कल्पतरुकामधेनुसमं विद्यते अतः विनापि प्रार्थनां सर्व सम्यग्दृष्टिलभते इति ज्ञात्वा तेन इच्छा त्याज्येति तात्पर्यम् ॥१६०॥ उचिते स्थानके धर्मलक्षणे यस्य मनोवृत्तिः अनाकुला भवजसुखेषु च निःस्पृहा विद्यते तस्य सा स्थानके स्थितेति उच्यते अनाकुलं सम्यग्दष्टिजनं प्रति समुद्र नद्य इव श्रियः स्वयमायान्ति॥१६॥तदिति-मिथ्यादर्शनोदयान्मनस्युभृताम् । इह परलोके च समुद्भूतां त्रिविधाम् आकाङ्क्षां देवयक्षराजोद्भवाम् । सम्यग्दर्शननिर्मलतायै परित्यजेत् ॥१६२॥ श्रूयतामत्रोपाख्यानम्-अत्र निष्काक्षिताङ्गे उपाख्यानं सम्यग्दृष्टिकथा आकर्ण्यताम् । अङ्गमण्डलेषु अङ्गाख्यदेशेषु, चम्पायां पुरि नगयाँ कथंभूतायाम् । समस्तेति-समस्ताश्च ते सपत्नाः शत्रवस्तेषां समरो युद्धं तस्य समारम्भे प्रारम्भे जाते सति निष्प्रकम्पायां वेपथुरहितायाम् निर्भयायाम्, वस्विति-वसुवन इति उचितम् अन्वर्थ नाम यस्य तस्य वसुधापतेः वसु धनं रत्नादिनिधानं तद्दधातीति वसुधा तस्याः पतिर्वसुधापतिनुं पस्तस्य, पुनः कथंभूतस्य । लक्ष्मीति-लक्ष्मीमतिमहाराज्ञी नामधेया तस्याः दयितस्य वल्लभस्य, प्रियदत्तनामा श्रेष्ठी आसीत् । कथंभूतः । निरवशेषेति-निरवशेषाः सकलाः ते च वैदेहका वैश्याः तेषु वरिष्ठः श्रेष्ठः, (स अङ्गवतीनाम्ना पल्या सह जिनालयं यियासुः अनङ्गमतिमेवम् अपृच्छत् ।) अङ्गवतीनाम्ना पल्या सह कथंभूतया। गृहेति-गृहलक्ष्म्याः सपत्नी तया, पुनः कथंभूतया । सकलेति-समस्तस्त्रीगुणगृहभूतया, अह्नाय शीघ्रम् । प्राले पूर्वाह्ने । अष्टाहीति-अष्टानाम् मह्नां समाहारः अष्टाही तस्याम् क्रियाणां पूजाभिषेकधर्मोपदेशादिकानां करणाय। अभ्रेति-अभ्राणि कषन्ति इति अभ्रङ्कषाणि मेघस्पर्शीनि तानि च तानि कुटानि च शिखराणि तेषां कोटयोऽग्राणि तेषु घटिताः स्थापिता याः पताकाः क्षुद्रध्वजाः, तासां पटानां वस्त्राणां प्रतानाञ्चला विस्तृता अञ्चलाः वस्त्रान्तास्तेषां जालाः समूहाः तैः स्खलितं प्रतिहतं निलिम्पानां देवानां विमान. वलयं येन तत् सहस्रकूटचैत्यालयं यियासुः गन्तुमिच्छुकः । स्वकीयसुतावयस्यां निजपुत्रीसखीम् अनङ्गमतिम् एवम् अपृच्छत् अब्रवीत् । वत्सेति, अभिनवेति च बाले अभिनवानि नूतनानि विवाहभूषणानि तैः सुभगो सुन्दरी हस्तो यस्यास्तत्संबोधनम्, क्वास्ते कुत्र तिष्ठति । समुल्लिखितेति-समुल्लिखितं प्रोज्झितं लाञ्छनं यस्मात् स चासो इन्दुश्चन्द्रस्तद्वदिव सुन्दरं मुखं यस्याः सा प्रियसखी वल्लभाली तव अतीव केलिशीलप्रकृतिः क्रीडापरायणा प्रकृतिः स्वभावो यस्याः सा अनन्तमतिः। अनङ्गमतिः-तात, वणिगिति-वणिक्षु वैश्येषु वृन्दारको मुख्यस्तस्य दारिका कन्या तया उद्गीयमानम् उच्चरुच्यमानं मङ्गलं यदर्थे सा, कृत्रिमपुत्रकरूपो वरस्तस्य व्याजेन निमित्तेन । आत्मेति-आत्मनः स्वस्य परिणयस्य विवाहस्य आचरणं विधानं तस्य परिणामेनाभिप्रायेण पेशला सुन्दरा। पञ्जरेति-पञ्जरेषु आस्थिताः अध्युषिता ये शकास्सारिकाश्च तेषां बदनशब्दा एव वाद्यानि तैः सुन्दरे मनोहरे वासावासपरिसरे निवासगृहप्राङ्गणे समास्ते तिष्ठति । समाहूयतामितः, यथादिशति तातः । प्रियदत्तश्रेष्ठी-वृद्धभावात् परिहासो नर्म तद्विषयक: आलापः भाषणं तत्र परमेष्ठी चतुरः, समागतां सुतामवलोक्य पुत्रि, तव हृदये सम्प्रत्येव अधुनैव मन्मथपथाः काममार्गाः, परिणयनमनोरथाः विवाहा- . भिलाषाः । कथंभूते हृदये । निसर्गेति-निसर्गेण प्रकृत्या विलासः वल्लभावलोकनम्ः तस्य रसेन शृङ्गारेण