________________
- पृ० ४८ ]
उपासकाध्ययनटीका
३६१
कस्मिन्समये भाषितः । निशीथेति - निशीथो अर्धरात्रः तस्य पथवत मार्गवति वीक्षणं यत्र तस्मिन् क्षपाक्षणे निशासमये । अञ्जनचोरः कस्य सुतः । विव्रियते – मध्यदेशे प्रसिद्धविजयपुरस्वामिनः कथंभूतस्य । सुन्दरीमहादेव्या विलासी पति: तस्य, स्वकीयेति स्वकीयो निजः स चासो प्रतापो विक्रमः स एव बहुलवाहनोऽग्निः तस्मिन् आहुतीकृता प्रक्षिप्ता अरातीनां शत्रूणां समितिः समूहो येन तस्य, अरिमन्थमहीपतेः ललितो नाम सुतः पुत्रः, पुनः कथंभूतः । समस्तेति - सकलद्यूतादिव्यसन सप्तकलम्पटत्वात् दायादाः सपिण्डाः ते च ते क्रव्यादा राक्षसास्तैः संपादितः साम्राज्यपदे अपायो यस्य सः । परम् उपायं परां गतिम् अवीक्षमाणः । अदृश्येतिअदृश्यो येन अक्तेन नरो भवति तदञ्जनम् अदृश्याञ्जनमुच्यते तेन अदृश्याञ्जनेन आवर्जिता लब्धा ऊर्जिता बलवती उन्नति प्राप्ता प्रज्ञा मतिर्यस्य सः । प्रतीतेति - प्रसिद्धञ्जन चोरापरनामा किलैवम् अञ्जन सुन्दर्या भाषितः – कुशामपुरेति — कुशाग्रपुरं राजगृहं तस्य परमेश्वरस्य स्वामिनो या अग्रमहिषी प्रधानराज्ञी स्ताविषी नाम तस्याः सौभाग्यरत्नाकरं नाम कण्ठालङ्कारं ग्रीवाभूषणं यदि चेत् आनीय मह्यं प्रयच्छसि तदा त्वं मे कान्तः प्रियः, अन्यथा नो चेत् प्रणयान्तः प्रीतिविनाशः स्यादिति । सोऽपि कियद्गहनमेतत् । न किमपि कठिनम् इत्युदाहृत्य उक्त्वा प्रियतमाया वल्लभतमाया मनोरथम् अभिलाषम् अन्वर्थकं सफलं चिकीर्षुः कर्तुमिच्छुः । निजेतिनिजा चासो छाया प्रतिबिम्बं तस्या अदृश्यताकरणं शीलं यस्य तत्कज्जलं बहुलं यत्र तथावस्थितं लोचनयोर्नेत्रयोर्युगलं युगं विधाय कृत्वा, प्रयाय च गत्वा च तन्महीश्वरगृहम् तन्नुपतिप्रासादम् । गृहीतेति — मुषिततद्भूषणः । तत्प्रभेति — तत्कान्तिप्रसरणेन अवगतपदसंचारः शब्दः शस्त्रैश्च उत्तालं वाचालम् आननं कराश्च येषां तैः तलवरस्य कोट्टपालस्य अनुचरैः किङ्करैः अभियुक्तो अभिद्रुतः । निस्तरीतुं तान् वञ्चयित्वा गन्तुम् अक्षमः, परित्यज्य तद्रत्नाभरणम् इतस्ततो नगरबाह्ये प्रदेशे विहरन्, प्रदीपेति-- प्रदीपकान्तिवशात् अधःस्थापितास्त्ररचनाभोतेः पुनः पुनः उत्तरणावतरणे आवहतीति तादृशा देहेन खिन्नं धरसेनं वीक्ष्य, गत्वा च तं देशम् एवं निर्दिदेश अकथयत् । अहो प्रलयेति — कल्पान्तका लतमोव्याप्तायाम् अस्यां वेलायां समयेऽस्मिन् महासाहसिकवृषन् महासाहसं कुर्वत्सु वृषन् प्रधान, दुष्कर्मकारिन्, कठिन कार्यकारिन्, को नाम भवान् । घरसेनः - कल्याणमित्र महाभाग्ययुक्तं वृत्तं चारित्रं यस्य तस्य जिनदत्तस्य विदितः पुष्पबटुरिति नियोगस्य संबन्धो यत्र, पूजासमये पुष्पा नियुक्तिसंबन्धो यस्य सोऽहम् एतदुपदेशात् आकाशविहारव्यवहारे निषद्या प्रवृत्तिर्यस्याः तां विद्यां साधयितुमिच्छन् अत्र अयासिषम् — अहम् आगतः । अञ्जनचौरः - कथमियं साध्यते । धरसेनः कथयामि । पूजोपचारनिषेक्ये शिक्ये पूजोपचारस्य गन्धाक्षतादेः निषेकस्य क्षेपणस्य योग्ये अस्मिन् शिक्ये निःशङ्कं निर्भयम् उपविश्य इमां विद्याम् अकुण्ठकण्ठम् अविरामं कण्ठेन पठन् एकैकं शरप्रवेकं सिक्यकदर्भग्रथितसूत्रं स्वच्छधीः निर्मलमति: छिन्द्यात् । अवसाने गगनगमनेन युज्यते । यद्येवम् अपसर अपसर एतत्कार्यात् विरम विरम । त्वं हि तलो - न्मुखेति – तले भूमितले उपरि अग्राणि कृत्वा विन्यस्ततीक्ष्णशस्त्रावलोकनजातभीतबुद्धि; न खलु विद्यां साधयितुं समर्थो भवसि । यतो यज्ञोपवीतदर्शनेन धनसंपादनकृतार्थः घनार्जनकार्ये त्वं समर्थः । तस्मात् कारणात् भाषस्व मे यथार्थोपायमनोरमां विद्याम् । साधयामि एनाम् । ततस्तेनेति - आत्महिताय अरोचमाणेन पुष्पबटुना सम्यग् उपायैः सह दत्तविद्यः सम्यग्ज्ञातज्ञातव्यः, संपत्त्या सम्यग्ज्ञानेन, निकटमुक्तिगृहः अञ्जनचौर : ( एवं निश्चितवान् ) स्वप्नेऽपि अन्य प्रतारणाचारपरावृत्तमना: जिनदत्तः, स खलु महताम् अपि महान्, आदरणीयानामपि आदरणीयः, स्वीकृतश्रावकव्रतपालनतत्परः, प्राणिमात्रस्यापि नान्यथा चिन्तयति, किं पुनः विहितप्रीतेः पुत्रसाधारणतया पालितस्य घरसेनस्य अस्य अन्यथा चिन्तयेत् । इति निश्चित्य उपविश्य च सोत्कण्ठं सिक्ये | निःशङ्केति — निःसंशयमतिः स्वकीयेति - निजसाहसोद्योगप्रमोदितसुरासुरसमूहः युगपदेव तद्दर्भसूत्रसमूहं छिनत्ति स्म, आससादेति - संप्राप च नभश्चरपदम् । पुनर्यत्र जिनदत्तस्तत्र मे गतिर्भूयादिति कृताभिलाषः, काञ्चनाचलेति - सुवर्णपर्वततटनिवासिनि सौमनसवनशालिनि जिनगृहे जिनदशस्य धर्मश्रवणकृतः गुरुदेवा - भिघस्य भगवतः पूज्यस्य सन्निधौ तपो गृहीत्वा अञ्जनचौरो मुक्तो बभूव । कथंभूतः सः । विज्ञातस कलाप्तोपदेशस्वरूपः ऐतिह्य ं नाम आप्तोपदेशः जिनागमः । हिमवदिति - हिमवत्पर्वतशिखरे प्रादुर्भूत केवल बोधः । कैलासेति—कैलासकेसरवनगतः मुक्तिरमासमागमासक्तभोगगृहं बभूव । भवति चात्र श्लोकः — क्षत्रपुत्रेति —
४६