________________
३६०
पं० जिनदासविरचिता
[ -पृ० ४८
प्रसरः ययोः ताभ्यां देवाभ्याम् । पुनः कथंभूताभ्याम् ? लध्विति - लघु झटिति परिमुषितः विनाशितः अशेषाः सकलाः विघ्नाः तेषां व्यतिकरः प्रसंग ः याभ्याम् । पुनः कथंभूताभ्याम् । आचरितेति — कृतादराभ्याम् । ( देवाभ्यां वक्ष्यमाणं वचनम् उक्त्वा ततः प्रास्थायि ) अहो राजन् नूतनस्य सम्यग्दर्शनमणेः अच्छद्म निर्मलसदनमार्ग पद्मरथ, नैतदाश्चर्यम् अत्र यद्यस्मात्कारणात् संघाः प्रतिज्ञा सत्त्वं धैर्य ताभ्यां युक्तेषु असदृशेषु अनुरमेषु भवादृशेषु अखिलैरपि लोके : क्रियमाणाः न प्रभवन्ति क्षमा न भवन्ति प्रसभप्रसवाः तीव्रोत्पत्तयः क्षुद्रोपद्रवाः । यतः । एकापीति - इयम् एकापि जिनभक्तिः कृतिनः कृतं प्रशस्तं कर्म अस्यास्तीति कृती तस्य कृतिनः निपुणस्य पण्डितस्य दुर्गतिं निवारयितुं समर्था, पुण्यानि च पूरयितुं संचेतुं समर्था कुशला । मुक्तिश्रियं च दातुं समर्था दक्षा ।। १५५॥
[ पृष्ठ ४९ ] इति निगोर्य उक्त्वा जिनमताराधनात्रीने भवद्वंशे सर्वरोगापनोदं कुर्वन्नयं हारः, सकलशत्रुसंततिच्छेत्तु योग्यं चैतदातोद्यं वाद्यं च प्रेषणं सेवां करिष्यतीति कृतसंकथाभ्यां कृतसंभाषणाभ्यां ताभ्याम् अभीष्टस्थानं प्रास्थायि अगम्यत । त्रिदशेश्वरेति - त्रिदशानां तृतीया यौवनाख्या दशा येषां ते त्रिदशा देवाः तेषाम् ईश्वरः त्रिदशेश्वरः तस्य वदनान्मुखात् जृम्भमाणा वर्द्धमाना गुणानां संकथा स्तुतिर्यस्य
पद्मरथोऽपि तत्तीर्थकृतो वासुपूज्यस्य गणधरपदाधिकारी भूत्वा कृत्वा चात्मानम् अनूनं पूर्ण च तद्रत्नत्रयं सदृष्टिज्ञानवृत्तानि तत्तन्त्रं तदधीनं मोक्षामृतपात्रम् अजायत । भवति चात्र श्लोकः - उररीकृतेति - उररीकृते स्वीकारितेच ते निर्वाहसाहसे तयोर्विषये उचितं चेतः येषाम् ते उररीकृत निर्वाहसा हसोचितचेतसः तेषाम् । प्रारब्धस्यान्तगमनं निर्वाहः, धैर्येण यत् क्रियते कार्य तत्साहसमिति । निर्वाहसाहसगुणधारिणाम् इहपरलोकी कामदुघो इष्टदानदक्षी स्याताम् । कीर्तिश्च कामधुग् भवति । तेषां नराणां जगत्त्रयमेतत् अल्पं प्रतिभाति । "कीर्तेश्चाल्यं जगत्त्रयम्" इत्यपि पाठः । कीर्तेः एतत् जगत्त्रयं चाल्यं चालयितुं योग्यं भवति इति भावः ।
इयुपासकाध्ययने जिनदत्तस्य पद्मरथपृथ्वीनाथस्य च प्रतिज्ञानिर्वाहसाहसो नाम षष्ठः कल्पः ।
७. निःशङ्किततन्त्रप्रकाशनो नाम सप्तमः कल्पः ।
[ पृष्ठ ४९ ] इतश्च संगमितसकलोपकरणसेनः संगमिता एकत्रीकृता सकलानाम् उपकरणानां साधनानां सेना समूहो येन सः धस्सेनोऽपि, अतुच्छेति - अतुच्छा विपुला भूरुहच्छाया वृक्षानातपः तेन अवन्ध्ये सफले आनन्दप्रदे पर्वदिवसेति चतुर्दशीरात्रिमध्ये सर्वतः सर्वदिग्भ्यः । यातुधानेति – यातुधाना क्ष तेषां घावनं प्रवर्धते यासु तासु श्मशानभूमिषु । प्रवर्तितेति - प्रवर्तितं संपादितं तदाराधनोचितमण्डलं येन, न्यक्षासु सर्वासु दिक्षु दिशासु, निक्षिप्तरक्षाबलः स्थापितरक्षामण्डल: अवगणः एककः, कृतसकलीकरणः कृतदिग्बन्धनाङ्गशुद्धयादिकार्य: भागधेयीविधानसमये बल्यर्पणसमये वटविटपाग्रे वटवृक्षशाखाग्रे पतिंवरेतिपर्तिवरा कन्या तथा निजकरेण कर्तितानि यानि सूत्राणि तन्तवः तेषां सहस्रं तेन संपादितं रचितम्। पुनः कथंभूतं सिक्यम् । आत्मेति - आत्मासनं निजोपवेशनं तेन समानं संदृशं यत् अन्तरालं मध्ये स्थानं तत्र उचितं योग्यम् सिक्यं निबध्य, अन्तरिति- - अन्तः मनसि यो जल्पः पठनं तेन संकल्पितानि विमृशितानि मन्त्रवाक्यानि येन सः पुनः कथंभूतो धरसेनः । प्रबन्धनात् सिक्यादधस्तात् ऊर्ध्वेति – ऊर्ध्वमुखानि उपरि वदनानि कृत्वा विन्यस्तानि स्थापितनि निशितानि तीक्ष्णानि अशेषशस्त्राणि सकलप्रहरणानि येन सः । पुनः कथंभूतः । बहिरिति - बहिमंण्डलाबाह्ये निवेशिताः स्थापिता अष्टविधाः इष्टिसिद्धयः पूजासिद्धयो येन सः, अमुना प्रकारेण स धरसेनः यथाशास्त्रं मन्त्रशास्त्रमनुसृत्य तद्विद्याराधनसमृद्धिः सा चासो विद्या च तद्विद्या आकाशविहारविद्या तस्या आराधने समृद्धबुद्धिः परिपूर्ण मतिर्बभूव । सन्नद्धो जज्ञे इति भावः । अत्रान्तरे एतस्मिन् प्रस्तावे कथान्तरं वर्तते । तद्यथा
[पृष्ठ ५०-५२] अञ्जनसुन्दर्याञ्जन चोरः किलंवमुक्तः — निष्कारणेति निष्कारणं विना हेतु कलि करोतीति कलिकारिणी कलहं कुर्वन्ती या अञ्जनसुन्दरी नाम वेश्या तया स अञ्जनचोर एवं भाषितः ।