________________
-पृ०४८] उपासकाध्ययनटोका
३५६ कथंभूतः समाचरितेति-समाचरितः विहितः अमरानुवर्तनसमयः देवप्रतिपादितसंकेतो येन सः, पुनः कथंभूतः । तां विद्या प्रतिपद्य अङ्गीकृत्य, हृदयेति हृदये दर्शनस्य उत्सवाय समानीताः निखिलाः सकलाः अचलाः अकृत्रिमाः चैत्यालयाः येन स जिनदत्तः, तेषाम अवलोकनस्य प्रेक्षणस्य कौतुकं यस्य तस्मै धरसेनाय, परमेति-परमः उत्कृष्टः निर्दोषः स चासावाप्तश्च तस्य उपासने पटवे निपुणाय पुष्पबटवे तां प्रादात् ददो। (अमितप्रभः विद्युत्प्रभं वदति) विद्युत्प्रभ, अयं जिनदत्तः अतीव अर्हदभिमतवस्तुपरिणतचित्तः, अहंतो जिनेन्द्रभगवतः अभिमतानि मान्यानि यानि वस्तूनि तेषु परिणतचित्तः दृढम् अभिनिविष्टमनाः स्वभावादेव च स्थिरमतिः निश्चलबद्धि: अशेषोपसर्गसहनप्रकृतिश्च सकलचतुर्विधोपसर्गसहनस्वभावश्च । तत्तस्मात्कारणात अत्र जिनदत्ते महदपि अकृतम् अकृत्यं कुलिशे वजे घुणकोटचेष्टितमिव काष्ठकृमिव्यापार इव न भवति समर्थम् । अतोऽन्यमेव कंचन अभिनवजिनोपासनायतनचैतन्यम् अभिनवा नतना या जिनोपासना जिनभक्तिः तस्या आयतनं गहं चैतन्य यस्य एतादृशं कंचन जनं निकषावः आवां परीक्षावहे । अन्यं कंचन परीक्षावहे इति विमश्योच्चलिताभ्यां ताभ्यां पद्मरथो नाम राजा दृष्ट उपसृष्टश्चेति कविवर्णयति । कथंभूतः नपः । मगधमण्डलमण्डनसनाथः मगधदेशभषणः प्रभुत्वविशिष्टश्च मिथिलापुरोनाथः पद्मरथो नाम नरपतिः ( स च सुधर्माचार्यात् साणुव्रतं सम्यग्दर्शनं बभारेति. वर्णयति ) कथंभूतादाचार्यात् । निजेति-निजमिथिलानगरसमीपपर्वते वृत्तो निसर्गरचितो देहः शरीरं यस्याः तस्यां कालाभिषायां गुहायां निवासे प्रोतं चित्तं यस्य तस्मात् । पुनः कथंभूतात् । दीप्तं तपो यस्य दीप्ततपऋद्धिधारिणः, पुनः कथंभूतात् ? निःशेषेति-निःशेषाः सकलास्ते च ते अनिमिषा देवास्तेषां परिषत् सभा तया निपेव्यमाणम् आद्रियमाणम् आचरणवातुयं यस्य स तस्मात् सुधर्माचार्यात्, तदङ्गेति-तस्य सुधर्माचार्यस्य अङगानां हस्तपादमुखाद्यवयवानाम् अद्भुतप्रभायाः विस्मयकारिण्याः कान्तेः प्रभावस्य माहात्म्यस्य दर्शनेन उपशानाभिप्रायः संजातभक्तिपराशयः, अणुवताधारं सम्यग्दर्शनम् आदाय गृहीत्वा तस्मिन्नेव दिने सुधर्माचार्योपदेशात् निशितेति-निश्चित: अहसरमेश्वरशरोरस्य निरतिशयः तारतम्यरहित: प्रकाशमहिमा कान्तिमाहात्म्य येन सः, कृतनियमः धृतवतप्रतिशः वासुपूज्यभगवन्तं तन्नामकं द्वादशं जिनं वसुपूज्यनृपतिसुतं भगवन्तं पूज्यं केवल. ज्ञानिनम्, कथंभूतम् ? सकलेति-सकलाश्च ते भुवनपतयः इन्द्रधरणेन्द्रचक्रवर्तिनः तैः स्तूयमानाः ईडयमानाश्च ते गुणगणाः क्षायिकसम्यग्दृष्टयादिनवकेवललब्धयस्तेषाम् उदन्तः प्रवृत्तिर्यस्य तम् उपासितुं यष्टुं पूजयितुं प्रतिष्ठमानःप्रयाणं कुर्वन, प्रमदेति-प्रमदो मोदस्तेन युक्तो नादः प्रमदनादः आनन्दजनकनादेन सून्दराणां दुन्दुभोनाम् आनकानां रवैः शब्दः आकारिता आहता निरवशेषाः निःशेषाः परिजनाः बन्धुभृत्यादयो येन सः, समासजत् इति समासजन्तो संबन्धम् आयान्ती समस्तविष्टपे निखिलभुवने इति समस्तविष्टपविशिष्टदृष्टचेष्टः विशिष्टा अनन्यजनसाधारणा दृष्टा चेष्टा प्रवृत्तिर्यस्य सः । स च दृष्ट: कदाचिदपि कस्मिश्चित्समये क्षद्रोपद्रवात् क्षुद्रवाधायाः विप्रलब्धः वञ्चितः, रहितः । (अतो देवाभ्यां महोपद्रवरुपद्रोतुं प्रारब्धः।) पुरेति-पुरप्लोषो अग्निना नगरदाहः, अन्तःपुरविध्वंसः अन्तःपुरे निशान्ते स्थितानां राजस्त्रीणां विध्वंसः मृत्यादिना नाशः, वरूथिन्या: सेनायाः मथनं वधबन्धनादिकम, प्रसभस्तीवः स चासो प्रभजनश्च वाय स्तेन जितः प्रबलचासो पर्जन्यः जलवष्टिः, परुषाः कठोराः वर्षोपला. करकाः आसारः जलधारासंपातः, आदीनां वसतिनिवासो यासू ताभिः, दुर्दमाः दुःखेन दमो वशोकरणं येषां ते च ते शार्दूला व्याघ्रास्तेषाम् उत्तराकृतयः ताभिः विकृतिभिः उत्तरविक्रियाभिरित्यर्थः । उपद्रोतुं पोडयितुं प्रारब्धो नृपः । तथापि अविचलितं निर्भयं चेतो मनो यस्य तम अवसाय ज्ञात्वा, सनरवरं सनपं कुञ्जरं करिणं मायामयप्रतिघे, मायामय: प्रतिषः क्रोधो विघ्नं वा यस्मिन, अस्ताघे अस्तं नष्टम् अधं गाधं यस्मात् तस्मिन्, व्याप्ता निरुताः अखिलाः दिशः आरामा उपवनानि, तेषां संगमो यस्मिन्, एतादृशे कर्दमे पके निमज्जयद्भयां निमज्जनं कारयद्भधां ताभ्यां देवाभ्याम् । नभ इतिसुरा देवाः असुरा भवनत्रिकवासिनो देवाश्च तैः कृताः ये उपसर्गा उपद्रवास्तेषां संगस्य संबन्धस्य सूदनं विनाशस्तस्य अभियानमात्र शब्दमात्रं स एव मन्त्रः तस्य माहात्म्यं प्रभावस्तस्य साम्राज्यं यस्य तस्मं "श्रीवासु. पूज्याय नमः" इति एवं तत्र कर्दमे निमज्जतः बुडतः भूभृतो भुवं बिभर्ति इति भूभृत् तस्य नृपस्य वचनम् आकर्ण्य । तदिति-तस्य नृपस्य धैर्योत्कर्षात् उन्मिषश्चासौ तोषश्च प्रादुर्भवदानन्दः मनीषा च बुद्धिस्तयोः