________________
३५८
पं० जिनदासविरचिता
[पृ.४६
निशाप्रतिमाशयवशं सकलायां रात्री प्रतिमावज्जिनबिम्बवत् आशयः शरीरममतात्यागाभिप्रायः तस्य वशम् अधीनं रात्रिप्रतिमायोगधारिणम् एकाकिनम् अद्वितीयं जिनदत्ताभिधम् उपासक श्रावकं विलोक्य साक्षेपं सनिन्दम् "अरे दुराचारस्य आचरणं तत्र मतिर्यस्य तत्संबोधनम्, निराकृते निर्गता आकृतिः शृङ्गारवेषो यस्मात्तस्य संबोधनम्, अज्ञातं परमात्मनः पदं येन तत्संबोधनम्, मनुष्यापसद मनुष्येषु अपसीदति निकृष्टं गच्छतीति मनुष्यापसदः तत्संबोधनं हे नराधम, शीघ्रमिमाम ऊर्ध्वशोषम ऊर्ध्व शष्यतीति ऊर्ध्वशोषो यथा स्यात्तथा शष्ककोलक सदशी प्रतिमां कायोत्सर्गेणावस्थानं त्यक्त्वा पलायस्व न श्रेयस्करं हितकरं तवात्र श्मशाने अवसरं क्षणं पश्यावः । यस्मादावां हि एतस्याः अस्याः परेतपुरस्य श्मशानस्य भूयस्याः प्रभूतायाः भूमेः पिशाचपरमेश्वरी स्वः । तस्मात्कारणात् अत्र श्मशाने कालसर्पावलोकनं कृत्वा प्रस्थानेन अवस्थानेन अलम् अस्मात् स्थानादन्यत्र गम्यताम् इति भावः । माहीति-अतुच्छा विपुलाश्च ताः स्वच्छन्दकेलयः यथा मनोभिलषितक्रीडास्तासां कुतूहलानि कौतुकानि तान्येव बहलानि अन्तःकरणे मनसि प्रसवानि पुष्पाणि ययोः तयोः आवयोः अन्तरायं मा कार्षीः मा कुरु । इत्युक्तमपि प्रकामप्रणिधानोद्युक्तमवेक्ष्य प्रकामम् अतिशयेन प्रणिधानं ध्यानैकाग्रता तस्मिन् उद्युक्तं तत्परम् अवेक्ष्य (तो देवो तस्योपसर्ग प्रत्यूहप्रबन्धैः चक्रतुः) न्यक्षतः सर्वासु दिक्षु । कीनाशेति-कोनाशो यमस्तस्य कासराः महिषास्तेषां निकायः समूहस्तस्य कायाः शरीराणि तद्वत् आकारो येषां ते घोरा भयानकाश्च ते घना मेघास्तेषां घस्मरो भक्षकः भयङ्कर इत्यर्थः । आडम्बरः एकत्रसंनिवेशः तस्य प्रथम प्रारम्भम् आवहन्ति इति तैः प्रारम्भावहैः । पुनः कथंभूतैः । प्रचण्डेति-तडितः दण्डा इवेति तडिदृण्डाः प्रचण्डाश्च ते तडिद्दण्डाः भीषणविद्युद्यष्टयः तेषां संघट्टः अन्योन्यसंघर्षणं तस्मात् उच्छलन्त उद्भवन्तश्च ते शब्दाश्च तेषां संदोहः समूहस्तस्माद् दुस्सहैः । निःसीमेति-निःसीमः मर्यादाम् अतिक्रामंश्चासो समीरश्च वातः तस्य असराला महान्तश्च ते सूत्कारशब्दास्तैः सहासारः मेघानां सततं धारापातस्तेन धवलैः शुभ्रंः । पुनः कथंभूतः । प्रत्यूहप्रबन्धः, करालेति-करालाः क्रूराश्च ते वेताला व्यन्तरदेवविशेषास्तेषां कुलं समूहस्तस्य काहलाः वाद्यविशेषास्तेषां कोलाहलाः शब्दास्तैरनुकूलास्तैः अन्यसामान्यः इतरसदृशैः अन्यैश्च प्रत्यूहप्रबन्ध : विघ्नपरम्पराभिः । कथंभूतः । परिग्रहीतेति-परिगहीतः अवलम्बितो गृहदाहः गृहस्य आसमन्तात् दाहः अग्निप्रज्वलनम, बान्धवानां धनानां च विध्वंसानुबन्धस्तैः विनाशप्रबन्धः विघ्नसमहै:. सबहमानैः प्रभत सहितः तेस्तर्वरप्रदानः मनोभिलषितवस्तुदानश्च । विहितविघ्नो अपि कृतान्तरायौ कियत्कालं विहितविघ्नौ। निःशेषामप्युषां रात्रेरन्तं यावत, अध्यात्मेति-आत्मानम् अधिकृत्य वर्तते इति अध्यात्म स चासो समाधिश्च अध्यात्मसमाधिः अध्यात्मस्वरूपैकाग्रता तस्य निरोधस्तस्मिन निघ्नो अधीनौ । कथंभूतं जिनदत्तश्रेष्ठिनं देवौ चालयितुं न शेकतुः। तमिति-एकाग्रभावस्य अभ्यासेन आत्मसात्कृतं निजाधीनं कृतम् अन्तःकरणस्य मनसः, बहिःकरणानां स्पर्शनादोनां च ईहितम् अभिप्रायो येन तम्, शर्मति-शर्म सुखं तदेव हम्यं प्रासादः तस्य निर्माणे रचनायों क्षमा ये कार्मणपरमाणवः तेषां प्रबन्धनात् धर्मध्यानात् प्रबन्धनं यस्माद् भवति तस्मात् धर्मध्यानात् । ( प्रभातसमये देवाभ्यां जिनदत्ताय विद्या दत्तेति वर्णयति ) संजाते च प्रभातसमये सूर्योदयसमये । कथंभूते । खरेति-खरास्तीक्ष्णाः किरणाः रश्मयो यस्य स खरकिरणः सूर्यस्तस्य विरोकाः करास्तेषां निकरः समूहस्तस्मानिराकृतः अन्धकारस्य उदयः येन तस्मिन्, समुपहृतोपसर्गवर्गों समुपहृतः अपाकृतः उपसर्गाणाम् उपद्रवाणां वर्ग: समूहः याभ्यां तो पुनः कथंभूनी, प्रकाशं प्रकटं प्रसन्नः सर्गः स्वभावो ययोस्तो। तस्तमहाभागोचितैः महाभाग्यवतां योग्य: प्रणयोदितः प्रेमभाषणः, तं जिनदत्तम् आश्लाघ्य प्रशस्य, तस्मै विहायोपविहाराय आकाशे विहरणाय, पञ्चत्रिंशद्वर्णां पञ्चत्रिंशदक्षरसहितां विद्यां वितेरतुर्ददतुः । इयं हि यस्मात्कारणात् तव अस्मदनुग्रहात् अस्मन्मनःप्रसादात् अम्बरविहाराय नभोगमनाय असंसाधितापि विधिपूर्वकं विनापि साधिता तव भविष्यति । परं परेषां तु अस्माद्विधेः एतस्मादुपायात् ( वक्ष्यमाणात् ) लभ्येत । ( जिनदत्तोऽपि तां विद्यां प्रतिपद्य धरसेनाय प्रादादिति दर्शयति ) कथंभूतो जिनदत्तः । कुलेति-कुलं जनपदः जनपदविभाजकाः शैलाः कुलशैला उच्यन्ते । तेषां कुलशैलानां शिखण्डानोव मयूरशिखा इव मण्डनभूतानि भूषणभूतानि जिनायतनानि तेषाम् अवलोकने कुतूहलितः कुतूहलं संजातमस्मिन् इति आश्चर्यभृतः आशयोऽभिप्रायो यस्य । पुनः