________________
-पृ०४८]
उपासकाध्ययनटीका अवलोक्य वोक्ष्य ( तो देवो पक्षिद्वयवेषेण जमदग्निकूर्चे निविष्टौ इति कथा ) पत्रेति-पत्ररथयोः पक्षिणोमिथुनं युगलं तस्य कथा वार्ता तस्या उचितः योग्यः आश्लेष: संबन्धः यत्र तं वेपं रूपं विरचय्य तदिति श्मश्रुणि कुलायकुटीरकोटरे नोडगृहरन्ध्र निविष्टौ प्रविष्टौ (अन्योन्यं संलापं कुरुतः) कान्ते, प्रिये, काश्चनेतिकाञ्चनाचलो मेरुः, तस्य चमूसदृशी या मेखला शैलनितम्बस्तस्याम्, अशेषेति-सकलपक्षिचक्रपतेः वैनतेयस्य गरुडस्य, वातराजसुतया मदनकन्दलीति नामधेयं बिभ्रत्या समं महान् विवाहोत्सवी वर्तते । तत्र मयाऽवश्यं गन्तव्यम्, त्वं तु सखि प्रिये समासन्नप्रसवसमया अद्य श्वो वा प्रसविष्यसि डिम्भान् अतः न शक्यसे नेतुम् । कालस्य वेलायाः क्षेपो व्ययः यथा न स्यात्तथा अविलम्बम् अहं पुनस्तद्विवाहोत्सवानन्तरम् अकालक्षेपं शीघ्रमेवागमिष्यामि, यथा चाहं तत्र चिरं दीर्घकालं नावस्थास्ये न वसामि तथा मातुः पितुश्चोपरि महान्तः शपथाः (मयोच्यन्ते इति भावः ) किं च बहुनोक्तेन, यद्यहमन्यथाऽसत्यं वदामि "तदास्य पापकर्मणस्तपस्विनो दुरितभागी पातकभाजनं स्याम्" इत्यालापं चक्रतुः । तं च जमदग्निः कर्णकटुमालापं भाषणम् आकर्ण्य श्रुत्वा प्रवृद्धक्रोधः इद्धकोपः कराभ्यां तत्कदर्थनार्थ तयोः पीडाय कूर्च श्मश्रु मलितवान् मदितवान् । अमरचरो भूतपूर्वसुरी तो विकिरौ अपि विहगावपि उड्डीय उत्पत्य तदनविटपिनि जमदग्निपुरतःस्थितवृक्षे संनिविश्य उपविश्य पुनरपि तं तापसं तपस्विनम अवलोहलालापो कृतनिन्दाभाषणो व्यक्तस्वरी वा निकामम् अत्यर्थम् उपजहसतुः उपहासं निन्यतुः । “तापसो जमदग्निः साध्वसं भयं विस्मयोऽद्भतं तौ प्रति उपसृतं गतं मानसं यस्य स एवं विमर्श चकार ।" नतो खल पक्षिणी भवतः, किंतु रूपान्तरी कृतवेषपरिवर्तनौ उमामहेश्वराविव पार्वतीपरमेश्वराविव कोचिद्देवविशेषौ तदुपगम्य तत्समीपं गत्वा प्रणम्य च पृच्छामि तावत् प्रथमं स्वस्य पापकर्महेतुम् । ( वक्ष्यमाणोऽनुयोगस्तेन कृतः ) अहो इति-मत्पूर्वपुण्येति मम पूर्व पुण्यं मत्पूर्वपुण्यं तेन संपादितं लम्भितम् अवलोकनं दर्शनं यस्य, द्विजेषु पक्षिषु उत्तमाः द्विजोत्तमाः दिव्याश्च ते द्विजोत्तमाः दिव्यद्विजोत्तमास्तेषाम् अन्वयो वंशः स एव संभवसदनम् उत्पत्तिगहं यस्य एतादृशं यत् पतङ्गयोः पक्षिणोमिथुनयुगलं तत्संबोधनम् "कथयतां भवन्तौ महानुभावो कथमहं पापकर्मा इति ।" पतत्रिणी पक्षिणो, आकर्णय-अपुत्रस्येति-यस्य पुत्रो नास्ति योऽविद्यमानपुत्रः पुरुषः तस्य गतिर्नास्ति पुनर्मनुष्यो न जायते । स्वर्गस्तु तस्य नैव । ततः पुत्रमुखं दृष्ट्वा पश्चाद्भिक्षुकश्चतुर्थाश्रमी भवति ॥१५२॥ अधीत्येति-यथाशास्त्रं वेदान् पठित्वा पुत्रांश्च युक्तितो ब्राह्मणेन ब्राह्मण्याम, क्षत्रियेण क्षत्रियायाम, वैश्येन वैश्यायां जनयित्वा धर्मपत्न्यां योग्यकाले समागमं कृत्वा यज्ञैः इष्टवा देवान पूजयित्वा ततः यथाकालं चतुर्थे वयसि नरः प्रव्रजितो भवेत् । गृहं त्यक्त्वा वने दीक्षां गृहीत्वा वसेत् ।।१५३॥ इति स्मतिकारकीर्तितं वृत्तम् अप्रमाणोकृत्य तद्विरुद्धाचरणेन त्वं तपस्यसि । कथं तहि मे शुभाः परलोकाः स्वर्गादयः। उत्तरमाह-परिणयनकरणादौरसपुत्रोत्पादनेन उद्वाह्य धर्मपत्न्याम् औरसपुत्रम् उत्पादयेत् । किमत्र दुष्करम् इत्यभिधाय मातुलस्येति मातुर्धाता तु मातुल: तस्य विजयामहादेव्याः भर्तुः इन्द्रनगरवैभवधारकस्य काशिराजस्य भूपालस्य भवनभाग्भूत्वा प्रासादं गत्वा, तदुहितरं तत्सुतां रेणुकां परिणीय विवाह्य, अविरलेति--अविरलाः सान्द्रा: कलापाः गुच्छा उलपाः प्रतानिन्यः ताभिः युक्तेन पुलिनेन असराले वक्रे मन्दाकिनीकूले गङ्गातटे, महान्तम् आश्रमस्थानं संपाद्य परशुरामपिताभवत् । भवति चात्र श्लोकः ।
[पृष्ठ ४६ ] अन्त इति-अन्तस्तत्त्वविहीनस्य अज्ञातात्मतत्त्वस्वरूपस्य अज्ञानिनः व्रतपालनपरिश्रमः वृथा विफलो भवति । केन हेतुना व्रतानां पालनं क्रियते तं हेतुमज्ञात्वा व्रताचरणं निष्फलं भवति । स्वभावभीरोः प्रकृत्यैव भयवतः नरस्य आयुधग्रहः शस्त्रग्रहणं वृथा विफलो भवति । स शौर्याय न स्यात् ॥१५४॥
इत्युपासकाध्ययने जमदग्नितपःप्रत्यवसादनो नाम पञ्चमः कल्पः ।
६. प्रतिज्ञानिर्वाहसाहसो नाम षष्ठः कल्पः। [पृष्ठ ४६-४८] पुनस्ताविति-पुनस्तौ त्रिदशौ देवी मगधदेशेषु कुशाग्रनगरोपान्तापातिनि, कुशाग्रनगरं राजगृहनगरं तस्य उपान्ते समीपे आपात: अस्तित्वं यस्य तस्मिन् पितवने श्मशाने कृष्णचतुर्दशीरात्री,