________________
पं० जिनदासविरचिता
[पृ. ४३श्चासौ पतङ्गस्य पक्षिणः पाकः अर्भकस्तमिव, मुधामोनमूकतोत्तरङ्गितचित्तोत्सेकं मुधामोनं विफलमोनं तेन मूकता अभाषणं तेन उत्तरङ्गितनानासंकल्पयुक्तं चित्तं तेन उत्सेको गर्यो यस्य तम् । तितउपात्र इति-यथा तितउपात्रे इव चालिनीभाजने यथा तन्मनोऽमत्रे तस्य विश्वानुलोमस्य मनोऽमत्रे चित्तभाजने अप्राप्तसदुपदेशपयोऽवस्थानः यथा चालिन्यां पयोऽवस्थानं जलस्य स्थितिनं भवति ततस्तत्कृत्स्नम् निर्गलति तथा तस्य चित्तभाजने उपदेशपयसो अनवस्थितेः तम् उपदेष्टमक्षमो धन्वन्तरिः गुरुचरणमलम् अनुशील्य सेवित्वा कालेन समाधिमरणयोग्य वार्धक्यसमये, प्रवचनोचितं भगवत्याराधनाद्यागमयोग्यं चरमाचरणाधिकृतम अन्तिमाचरणं सल्लेखनाभिख्यं तेन अधिकृतं कायकषायो संलिख्य क्रियमाणं समाधिमरणविधि विधाय कृत्वा, विबुधेति-विबुधा देवास्तेषामङ्गनाजनस्तेन उच्चार्यमाणा पठ्यमाना चासो मङ्गलपरम्परा "स्वस्त्यस्तु जीव जय नन्देति" आशी. र्वचो घोषणं तया अनल्पे प्रचुरे अच्युतकल्पे तन्नामके षोडशस्वर्गे । समस्तेति-समस्ताः सकलाश्च ते सुरास्तेषां समाजः समूहस्तेन स्तूयमानं यन्महातपस्तस्मिन् परायणा तत्परा प्रतिभा मतिर्यस्य स्वपूर्वजन्मन्याचरितस्य तपसो विमर्श कुर्वती प्रतिभा यस्येति अमितप्रभो नाम देवोऽभवत् । विश्वानुलोमोऽपि पुरोपार्जितति-पूर्वजन्मनि बद्धस्य जीवितस्यायुषोऽवसाने चरमदशायां विपद्य मृत्वा, उत्पद्य च जनित्वा च व्यन्तरेषु द्वितोयनिकायदेवेषु गजानोकमध्ये हस्तिरूपधारिसैनिकमध्ये विजयनामधेयस्य देवस्य विद्युत्प्रभाभिधो वाहनदेवो बभूव । अमितप्रभविद्युत्प्रभयोरन्योन्यं संलाप:-पुनरेकदा पुरन्दरपुर:सरेण पुरन्दर इन्द्रः स अग्रसरः अग्रणीर्यस्य तेन दिविजवन्देन दिवि स्वर्गे जायन्त इति दिविजास्तेषां वन्दं समूहस्तेन देवसमूहेन सह नन्दीश्वरद्वीपात्तत्र चैत्यालयाश्रयां जिनबिम्बमन्दिराषिष्ठानाम् अष्टाह्नपर्वक्रियाम् अष्टदिनसंब. धिनीम् उत्सवं क्रियां जिनाभिषेकपूजादिक्रियां निर्वागच्छन्, प्रवर्तयित्वा पुनः स्वर्ग प्रत्यागच्छन् असो अमितप्रभो देवस्तं विद्युत्प्रभ देवं गजानोकम् अवेक्ष्य आह्लादमानमानसः प्रयुज्यावधिम् अवधिज्ञानेन ज्ञात्वेत्यर्थः । अवबुद्धः ज्ञातः पूर्ववृत्तान्तः पूर्वजन्मोदन्तः सः धन्वन्तरिचरः देवः इत्यभाषत-विद्युत्प्रभ, कि स्मरसि जन्मान्तरोदन्तं कि ज्ञायते पूर्वभवभवा प्रवृत्तिः त्वया । अमितप्रभ, बाढं स्मरामि भृशम् अत्यर्थं स्मरामि। किंतु सकल प्रचरित्राधिष्ठानात् कलत्रेण पत्न्या सह चरित्रं तपस्तस्य अधिष्ठानात् अवलम्बनात् ममैवंविधः कर्मविपाकानुरोधः कर्मोदयाद्भवप्राप्तिः। तव तु ब्रह्मचर्यवशात्कायक्लेशादीदृशः । ब्रह्मचर्य माश्रित्य कृतात् कायक्लेशात् तपसः महती देवीसंपदिति भावः । ये च मदीये समये सिद्धान्ताचारे प्रवृत्ति कुर्वाणा जमदग्नि-मतग-पिङगल-कपिजलादयः महर्षयस्ते तपोविशेषादिहागत्य भवतोऽपि अभ्यधिका महान्तो भविष्यन्ति । ततो न विस्मतव्यम् न गर्वः करणीयः ।
[पृष्ठ ४४-४५] अमितप्रभ:-विद्युत्प्रभ, संप्रत्यपि अधुनापि न मुञ्चसि न त्यजसि दुराग्रहम् । तदेहि तागच्छ । तव मम च लोकस्य परीक्षावहे चित्तं मनःपरीक्षणं कहे। इति विहितविवादी कृतमिथः प्रतिज्ञो । तो द्वावपि देवो करहाटदेशस्य पश्चिम दिग्भागमाश्रित्य काश्यपीतलं भूमितलम् अवतरतुः नभसो भूतलम् अवतीर्णाविति भावः । तत्रेति-दण्डकावने । कथंभूते । वनेचरेति-वने चरन्तीति वनेचराः शबराः तेषां सैन्यस्य सौजन्यं युद्धं सुजन्यम् एव सौजन्यं तेन अशून्यं सहितं तस्मिन् । तन्निकटदण्डकावने तस्य करहाटदेशस्य निकटे समीपस्थिते दण्डकावने । बदरिकाश्रमे बदरिकाश्रमनामधेये मुनीनां वासस्थाने जमदग्निम् अवलोक्य । कथंभूतम् । बहुलकालेति-अनेकवर्षशतसमयं यावत् कृतं कृच्छू कठिनं तीव्रतपो येन तम् । पुनः कथंभूतम् । चन्द्रति-चन्द्रश्चन्द्रमाश्चण्डरुचिः सूर्यश्चण्डास्तीवाः रुचयः किरणा यस्येति सूर्याचन्द्रमसो तयोमरीचयः किरणास्तेषां पानं तत्किरणसेवनमित्यर्थः, तत्र परायणं मानसं मनो यस्य तम् । पुनः कथंभूतम् । ऊर्ध्वबाहुम् ऊर्वी. कृतकरम् । पुनः कथंभूतम्-एकेति-एकपादेन अवस्थानं स्थितिः तस्य आग्रहे राहुमिव, पुनः कथंभूतम्, अनल्पेति-अनल्पाश्च ते उल्लसन्तः सत्पल्लवाश्च किसलयानि तैर्युक्ताः अविरलाः घनाः याः वल्लयः गुल्माश्च अप्रकाण्डवृक्षाः, वल्मीकाः वामलूराः तैः अवरुद्धं व्याप्तं वपुः शरीरं यस्य, अतिप्रवृद्धेति-अतिप्रकर्षण प्रवदा या वृद्धता जरठभावः सैव सुधा प्रासादधवलोकरणचूर्ण तेन धवलितं शुभ्रितं च तत शिरो मस्तकम्, श्मश्रुकूर्चम्, जटाजालं जटासमूहश्च तेषां त्विषा कान्त्या युक्तम्, कश्यपस्य ऋषेः शिष्यं जमदग्निम्