________________
-पृ०४३]
उपासकाभ्ययनटीका
संधिबन्धः उद्घाटिताररयगसंधिबन्धनः, स्वकीयया निजया सविच्या मात्रा सह विहितगाढावरुण्डनम् दतदृढालिङ्गनाम् आत्मकलत्रं निजां भायर्या जातनिद्रातन्त्रं समागतस्वापायत्ताम् अवलोक्य, उपपतिशङ्कया जारसंशयेन मुहरुखातखड्गो, पुन:पुनः कोषाबहिनिष्कासितासिः, भगवता श्रीधर्माचार्येण उपपादितं दत्तं व्रतं नियमम अनुसस्मार स्मरणमार्गम् आनोतवान् । शुश्राव च आकर्णयामास च देवात् तदैव "मनागतः परतः सर, ईषत् अतः स्थानात् परतः पुरतः सर । खरं तीक्ष्णं मे शरीरसंबाधः देहपीडा", इति गृहिणीगिरम् पत्नीवचनम् । ततश्च "यदीदं व्रतमहमद्य नाग्रहीषं नागृह्णाम् (अविचार्य पुनः किमपि कार्य मया क्रियेत) तर्हि इमां जननीम् इदं च प्रियकलत्रं प्रियां जायाम् असंदेहं विशस्य हत्वा इहलोके दुरपवादरजसा जननिन्दापांसूनाम् अमुत्र परलोके च दुरन्तैनसां नारकादिदुःखानां दातृणां पापानां च भागो भवेयम् ।" इति जातनिर्वेदः उद्भूतवैराग्यभावः, सर्वमपि ज्ञातिलोकं बान्धवजनं यथायथं यथोचितं मनोरथोत्सेकं तदोयेच्छापूरणात् सर्वम् अवस्याप्य “यत्रव देशे दुःखदनिन्दापीडितं चेतो मनस्तत्रैव देशे अवलम्ब्यमानं व्रत्तं दीक्षा वा न भवति निरपवादं निर्दोषं गरिहितं वा" इति प्रकाशितोपदेशस्य
टोकृतधर्मज्ञानस्य तस्य भगवतो निदेशात आदेशमन सत्य धरणीभूषणभूधरोपकण्ठे धरणीभूषणनामगिरिसमीपे तपस्यतो वरधर्माचार्यादीक्षामादाय इति विताभ्यो बभूव । कथंभूताद्वरधर्माचार्यात् कान्तारदेवताविहितसपर्यात् वनदेवताकृतपूजनात् । कोदृशों दोक्षाम् आदाय । सुरसुन्दरीकटाक्षविपक्षाम् अमरललनापाङ्गसपत्नदीक्षां निर्ग्रन्थलिङ्ग धृत्वा विदितवेदितव्यसंप्रदायः ज्ञातज्ञेयागमः सन्नम्बरे आकाशे स्तम्बाडम्बरितोपात्तपलाशिमालायां स्तम्बकान्तियुतधतपलाशिमालायां स्तम्बकान्तिधतसपर्णवक्षपक्तियुक्ते पर्वततटे आतापनयोगस्थितः ग्रीष्मकाले रविकरतप्तशिलातले ध्यानसंधारणम् आतापनयोगः, तेन स्थितः, अनवरतप्रवर्धमानाध्यात्मध्याना. वन्ध्यबोध्यनिरतः, सततं वर्धमानात्मविषयध्यानामोघज्ञेयनिरतः स धन्वन्तरिः "किमयं ककूरोत्कीर्णः, किंवा अस्मादेव पर्वतान्निरूढः" इति वितर्काभ्यो बभूव । किमयं धन्वन्तरिमनिः कर्करोत्कीर्णः पर्वतोत्कीर्णः किं वा अस्मादेव गिरेः निरूढः निश्चयेन रूढः अङ्कुरितः इति वितभ्यिर्णः इत्यूहसमीपवर्ती अभवत् ।
[पृष्ठ ४२ ] सूरिवरोऽधुना विश्वानुलोमस्य वृत्तं कथयति-कथंभूतः सः । संजातेतिसंजातः उत्पन्नः सुहृदि मित्रे समालोकनकामः दर्शनाभिलाषो यस्य सः विश्वानुलोमोऽपि तदिति-तस्य धन्वन्तरेः परिजनात ज्ञातिवर्गात परिज्ञातोऽवगतः एतदधन्वन्तरेः प्रव्रजनस्य जिनदोक्षाया व्यतिकरः उदन्तो मित्रेति-"मित्रमेव मित्रधेयं तस्य सख्यः धन्वन्तरेर्या गतिर्भाविनी स्थितिः सा ममापि" इति प्रतिज्ञाप्रवरः कृतप्रतिज्ञ इत्यर्थः तत्र धरणीधरगिरी आगत्य जैनेति-जिनो देवता यस्य स जैनः स चासो जनश्च जैनजनः तस्य समवस्थिति सदाचारम् अनवबुध्यमानो अजानन् "हहो मनोहरवयस्य चिरान्मिलितोऽसि बहुना कालेन दृष्टोऽसि । किमिति न मे गाढाम् अकपालों दृढमाश्लेयं ददासि । किमिति न कामं विपुलं भाषसे । किमिति आदरेण वार्ताम् उदन्तं न आपच्छसे" इत्यादि बहुसप्रश्रयं नम्रतया आभाष्य निजव्रताचरणतत्परचित्ते निरागसि निरपराधे निष्पापे वा धन्वन्तरिमुनीश्वरे प्ररुष्य क्रोधं कृत्वा सविधाशिवतातिः समीपासुखविस्तारः, प्रादुर्भवंदप्रीतिः प्रकटोभूतरोषः, रमणीयधरणीधरसंनिधनिर्मितपर्णशालस्य, सहस्रजटनामधेयस्य जटिनः परिव्राजकस्य निकटे शतजटनामधेयः परिव्राजकोऽभवत् । --
४३ ] धन्वन्तरिणा कृतोपदेशो विफलोऽभत-धन्वन्तरिरपि-आतापनयोगान्त तस्य संबोधनाय जिनधर्मोपदेशदानाय समन्ते निकटे समुपसद्य गत्वाऽवददेवम्-"मत्प्रणयपान्थविश्रामारामविश्वानुलोम मत्प्रणयः मदीयः-स्नेहः स एव पान्थ: पथिकस्तस्य विश्रामाय मार्गश्रमापनोदाय, आराम इव उद्यानमिव, जिनधर्मस्थिति जिनधर्माचारम अजानन किमित्यकाण्डे किमर्थमनवसरे चण्डभावम् अत्यन्तकोपम् आदाय धत्वा दुराचारप्रधानः पञ्चाग्नितप आदिके जीवहिंसाबहुले मिथ्याचारे तत्परः समभूरजायथाः । तदेहि ततः आगच्छ विहायमं दुःपथकथासनाथं कुमार्गाचारयुक्तं शमथावसथमनोरथं शम एव शमथः तस्य आवसथो गृहं तस्य मनोरथम् इमं विहाय त्यक्त्वा सहव युगपदेव तपस्यावः" इति बहुशः अनेकधा कृतप्रयत्नप्रकाशोऽपि स धन्वन्तरिमुनिः प्रतिबोधयितुं तं विश्वानुलोमं नाशक्नोत् । कथंभूतं विश्वानुलोमम् । दुःशिक्षावशात् दुःखदमिथ्योपदेशवशात् तम् ओतुपोतरुतभीतपतङ्गपाकमिव ओतुर्मार्जारस्तस्य पोतः शिशुस्तस्य रुतं शब्दस्तच्छवणाद् भीत