________________
३६६ पं० जिनदासविरचिता
[पृ. ६०स च मूर्धस्फुटितस्फोटाश्च मस्तकोद्भवपिटकाश्च तत्र या स्फुटचेष्टा हस्तनखादिभिः खर्जनं तस्मिन् अनिष्टा आरोग्यविघातका या मक्षिकास्ताभिराक्षिप्तम् आवृतम् अशेषं शरीरं यस्य । पुनः कथंभूतम् । अभ्यन्तरेतिअभ्यन्तरं शरीरस्य अन्तः इति अभ्यन्तरम् अभ्यन्तरादेव उद्भूतः श्वयथुः शोथः तेन जातो यः कोथः दुर्गन्धभावस्ततश्च उत्तरङ्गाश्च वलीयुताश्च ताः त्वचश्चर्माणि तासाम अन्तराले प्रलीनानि अखिलानि यानि नखानि नासीरं नासिका च तम् । पुनः कथंभूतम् । अविच्छिन्नेति-अविच्छिन्ना संततं प्रवर्तमाना उन्मूर्च्छन्ती उद्भवन्ती अतुच्छा महती सर्वाङ्गव्यापिनी या कच्छूः कण्डूरोगः तया च्छन्ना ये सृक्का अवयवप्रान्तास्ता एव सारिण्यो निर्गमद्वाराणि ताभ्य: सरन्निर्गच्छन् सततं लालास्रावो दुरभिरसविशेषो यस्मात् तम् । पुनः कथंभूतम् । अनवरतेति-अनवरतं सततं यत् स्रोतः सृतम् अशुचिजलपरिणतविष्ठानिर्गमस्तस्माज्जातो योऽतीसारः प्रवाहिकारोगविशेषः तस्मात्संभूता या बीभत्सा भयानका भावना आकृतिर्यस्य तम् । पुनः कथंभूतम् । अनेकश इति-अनेकशो बहुवारं विशिखा रथ्या तस्या शिखा अग्रं तत्र उत्पातः पतनं तेन नियतः निश्चितः आश्रितः संचितः यो अशुचिराशिः पूतिगन्धिपदार्थोत्करः तद्वत् दुर्दशं जुगुप्साजनकत्वात् द्रष्टुम् अक्षमं वपुः शरीरं यस्य तम्। एतादृशम् ऋषिवेषं मुनिरूपम् आदाय गृहीत्वा अदनाय आहारार्थम् अवन्याः पृथ्व्याः पतिः य उद्दायननृपः तस्य भवनं गहम अभजत आश्रयत गतवान । भपतिरपि सप्तेति-सप्ततलानि भमयो आरब्धा निर्मिता यस्य स चासौ सौधः प्रासादस्तस्य मध्यम् अध्यासीनः तिष्ठन् आकण्ठम् आगलं भोजयामासेति संबन्धः। कथंभूतम् ऋषि भोजयामासेति निरूप्यते-तम असाध्या ये व्याधयो रागा: तैविधुरा पीडिता धिषणा बुद्धिस्तस्या अधीनम् । विष्वाणस्य आहारस्य अध्येषणा याचना तस्यै निजनिलयं निजगृहम् आलीयमानम् आगच्छन्तम् अवलोक्य
सौत्सुक्यं सादरम् आलोक्य दृष्ट्वा स्वीकृत्य च तम् ऋषिवेषं देवम् उदानीय बाहुना उत्थाप्य आनयत् । कथभूतं . तमानयत् स इति विवियते । कृत्रिमेति-कृत्रिमश्चासौ आतङ्कश्च रोगः स एव पावकोऽग्निः तेन परवशं पीडितम् आस्वनितं चित्तं यस्य तम् । मुहुर्मुहुः पुनः पुनः महोतले निपतन्तम् । कथंभूत उद्दायनः । अन्वितिअनुद्विग्नम अजगप्साभावं गतं मनः चरित्रं च यस्य स नपः । मुनिवेषं देवम् उदानीय भोजयामास । पन: कथंभूतम् । प्रकामेति-प्रकामम् अतिशयेन दुर्जयं च तत् खर्जनं कण्डूयनं तस्य अर्जनं पुनः पुनः कण्डूयनं तेन जर्जरितं गात्रं शरीरं यस्य तमृषिवेषम् । काश्मीरेति-काश्मीरस्य कुङ्कुमस्य पङ्कः लेपः तेन पिजरेण पोतेन भुजपञ्जरेण उदानीय उत्याप्य आनीय च अशनवेश्मोदरं रसवतीगृहमध्यं स्वयमेव समाचरितोपचारः कृतपूजन: उद्दायनः । तदिति-तस्य अभिलाषा इच्छा तस्या उन्मेषः प्रादुर्भावः तत्र सारभूतैः आहारैः उपशान्ता सौहित्यं प्राप्ता अशनायाया बुभुक्षायाः उत्कण्ठा यथा स्यात्तथा आकण्ठम् आगलं भोजयामास आहारं कारयामासेत्यर्थः ।
[पृष्ठ ६०] मायामुनिरिति-(मायामुनिर्भुक्तेरनन्तरं अवमीत्) पुनरपि तस्य उद्दायनस्य मनः जिज्ञासमानं मानसं यस्य सः प्रसभं वेगात् अति-अतिगम्भीरा चासो गलगुहा च सैव कुहरं विवरं तस्मात् उज्जिहानः बहिरागच्छन् यः घोरो भयङ्करः घोषः शब्द: तस्य अभिघातस्तेन धनम् अतिशयेन घूर्णितं कम्पितम् अपघनं शरीरं यथा स्यात्तथा अप्रतिघम् अप्रतिबद्धम् अवमोत् वान्ति चकार। भूमिपतिरपि-आः खेदोद्गारे कष्ट जातम । यद्यस्मात्कारणात मन्दभाग्यस्य मम गहे गहीताहारोपयोगस्य भुक्तभोजनस्य अस्य मनसः खेद एव पादपो वृक्षस्तस्य वितदिरिव वेदिकेव छदिः वमनं समभूत् । इति एवं प्रकारेण । उपक्रुष्टेति–उपक्रुष्टं निन्दितं अनिष्टम् अहितकृत् चेष्टितं चरितं तस्य वर्त्म मार्गस्वरूपम् आत्मानं विनिन्दन् गर्हमाणः । मायेति-मायामयाः विक्रिया सामर्थ्येन निर्मितास्ता मक्षिकास्तासां मण्डलितेन समूहेन कृता कपोले गण्डे रेखा यत्र तस्मात् तदितितस्य एतस्य मायामुनेर्मुखात् असराला विपुला या लाला तया क्लिन्नम् आर्द्रम् अन्नम् । इन्दिरेति-इन्दिरा लक्ष्मीस्तस्या अरविन्दं निवासकमलं तस्य उदरम् अन्तःप्रदेशस्तस्य यत्सौन्दयं तस्य निकटेन तत्सदृशेनेत्यर्थः । अञ्जलिपुटेन प्रसृतिपुटेन आदायादाय गृहीत्वा गृहीत्वा मेदिन्यां भूमौ उदसृजत् अमुञ्चत् । पुनश्चेतिउद्गीर्णः वान्तः उदीर्णः प्रकटीभूतः दुर्वर्ण: जुगुप्स्यकान्तियुक्तः कूराणाम् अन्नानां निकरः समूहः तस्मिन् । भर्मीति-भमिः माया तया युक्ता या भ्रमिः पित्तप्रकोपेन यः मस्तकभ्रमः तस्य निर्भरः आधिक्यम् अतिशयो