________________
३५२ पं० जिनदासविरचिता
[पृ० ३६पूतत्वं कुतः नारम्यते आगमे मुखशुद्धिरुदाहृता न तु गुदशुद्धिः तस्य सर्वदा अपवित्रत्वात् । मुखशुद्धिर्जलेन भवति । गुदशुद्धि स्तेनापि न भवति ॥१३०॥ विकारे इति-विकृती विदुषां मतिमतां द्वेषः । परम् अविकारानुवर्तने निर्विकारानुवर्तने रागद्वेषादिभावरहितस्य नग्नत्वस्य अनुवर्तने अनुसरणे द्वेषो न । मतिमन्तः रागद्वेषादिविषये विधौ कार्ये द्वेषं कुर्वन्ति । परम् अविकारकार्यकरणे तद्विषये वा द्वेषं न कुर्वन्ति । तस्मात्कारणानग्नत्वं मुनीनां निसर्गोत्थं स्वाभाविकम् । रागद्वेषविप्लतं कामविकारेण विकृतं वा नास्ति । अतस्तत्र को नाम द्वेषकल्मष: द्वषेण कल्मषः अशुभपरिणतिः का नाम कर्तव्या। विवेक कृत्वा नग्नत्वे द्वेषस्त्याज्यः ॥१३१॥ वस्त्रधारणे दोषाः-नैष्किंचन्यमिति-यदि ते संयमिनो मुनयो वल्कलाजिनवाससा तरुत्वनिर्मितवस्त्रं वल्कलमुच्यते । अजिनं हरिणव्याघ्रादीनां चर्म । कार्पासवस्त्रं वासः एतेषां संगाय ग्रहणाय यदि ईहन्ते स्पृहयन्ति तहि नैष्किंचन्यं निष्परिग्रहत्वम् अहिंसा च संयमिनां कुतो भवेत् । न कस्मादपि हेतोः । रागद्वेषाद्युत्पत्ति: संगाज्जायते यतः॥१३२॥ स्थितिभोजितां वर्णयति-नेति-स्थितेः उद्धीभूत्वा भूक्तिः भोजनं न स्वर्गाय । पुनः अस्थिते. भक्तिः उपविश्य भोजनं न श्वभ्राय नरकप्राप्तिहेतुन । किंतु अस्मिन्संयमिजने सा स्थितिभोजिता प्रतिज्ञार्थम इष्यते । उपविष्टः सन् भाजनेन अन्यहस्तेन वा न भुजेऽहमिति प्रतिज्ञार्थं च ॥१३३॥ पाणिपात्रमितियावत्कालम् एतत्पाणिपात्रं पाणी हस्तावेव पात्रं भाजनं मिलति तयोः पाण्योः संयोजनं भवति । यावत्कालं स्थितिभोजने शक्तिः सामर्थ्यम् अस्ति तावत्कालं भुजे भोजनं कुर्वे। अन्यथा यदा पाण्योः संयोजनं न भवेत, पादयोः शक्तिश्च उद्भाहारग्रहणे नश्येत् तदाहारं रहामि त्यजामि ॥१३४॥ केशलोचवर्णनम्-अदैन्येतिअदैन्यम् अयाचनम् । असंगः निर्ग्रन्थता । वैराग्यं संसारशरीरभोगेभ्यः विरक्तिः । परीषहो दुःखसहनम् एतदर्थ यतीशानां मुनीन्द्राणाम् । केशोत्पाटनसद्विधिः श्मश्रुमूर्धजानां केशानां हस्तेन उत्पाटनसद्विधिः अपनयनविधिः कृतः ॥१३५॥
इत्युपासकाध्ययन प्रागमपदार्थपरीक्षणो नाम तृतीयः कल्पः ।
४. मूढतोन्मथनो नाम चतुर्थः कल्पः। [पृष्ठ ३६] सूर्यार्घ इति-सूर्याय अर्घ्यदानम् । मिथ्यादृष्टयः खलु सूर्योऽयं नारायण इति मत्वाध्यं ददति । तबुध्या अर्घ ददतः सम्यक्त्वनाशः स्यात् । ग्रहणस्नानम्-ग्रहणं सूर्याचन्द्रमसोरुपरागः, संक्रान्ती द्रविणव्ययः सूर्यस्य राश्यन्तरसंक्रमणम, पुण्यार्थत्वेन मिथ्यादष्टिभिःसमथितायां संक्रान्ती द्रव्यदानम । सम्यग्दर्शनघातकम। संध्यासेवा संध्यासमये विष्ण्वादिदेवतानां तर्पणम् । अग्निसत्कारः अग्नौ देवतात्वं संकल्प्य तत्पजनं लोकमूढता गेहार्चनं गेहपूजनं देहार्चनं देहपूजनम् ॥१३६।। नदीति-नदीनदसमुद्रेषु धर्मचेतसा मज्जनम् अत्र स्नाने कृते पुण्यं लभ्यते परलोके च सुखी जीवो भवति इति कल्पनया स्नानम् । तरुस्तूपाग्रभक्तानां वन्दनं तरोरश्वत्थस्य वन्दनम्, स्तूपाग्रस्य सिकताश्मनाम् उच्चयाग्रस्य वन्दनम् । भक्तानाम् अन्नानां वन्दनम् । भृगुसंश्रयःपर्वतात्पतनस्थानं भगः तस्य संश्रयोऽवलम्बनम् । भृगोरधोदर्यादिषु पतित्वा मरणं पुण्यायेति मत्वा तथाकरणम ॥१३७॥ गोपृष्ठेति-गोपृष्ठान्तनमस्कारः गोः धेनोः पृष्ठस्य अन्तस्य योनेश्च नमस्कारो वन्दन तन्मूत्रस्य निषेवणं पानम् । रत्नवाहनभूयक्षशस्त्रशैलादिसेवनं रत्नानां वाहनानाम् अश्वादीनां भूमेः यक्षाणां शास्त्राणां पर्वतादीनां च सेवनम् ॥१३८॥ समयेति-जिनदर्शनं मुक्त्वा नैयायिकवशेषिकबौद्धादिदर्शनानि समयान्तराणि पाखण्डाः रक्तपटकापालिकादयः, वेद-ऋग्वेदादयः, लोक-पञ्चपाण्डवानामेका योषित्, कुन्ती पञ्चभत का विष्णुश्च सारथिः इत्यादिलोकसंश्रयमूढत्वम् । समयसंश्रितं मूढत्वम्, पाखण्डसंश्रितं मूढत्वम्, वेदसंश्रितमूढत्वम् । इत्याद्यनेकधा महत्वं ज्ञेयम । समयादिकेषु ये आचारा विवेकरहिताः प्रतिपादितास्तेषां समाचरणेन विमूढानाम् अविवेकिनाम ॥१३९॥ देवमढत्वं प्रतिपाद्यते-वरार्थमिति-पत्रसंपदादिप्राप्त्यर्थं याचना वरः तस्मै इति बरार्थ। लोकवार्तार्थ कृष्यादिषडाजीवनकर्माणि लोकवार्ता तस्य लोकवार्थम् । उपरोधार्थ मित्रसंबन्धिजनाग्रहार्थम, अमीषां कुदेवानाम् उपासनं सेवनं सम्यग्दर्शनहानये कारणं स्यात् ॥१४०॥ क्लेशायैवेति-अमीषु उपर्युक्तेषु