________________
- पृ० ३५ ]
उपासकाध्ययनटीका
३५१
1
कषन्ति हिंसन्ति आत्मानं दुर्गति प्रापयन्ति इति कषायाः । ते क्रोधाद्याः क्रोधमानमायालोभाश्चत्वारः पुनस्तेषामपि एकैकस्य चातुर्वियमेवम् अनन्तानुबन्धिनः क्रोधमानमायालोभाः । अप्रत्याख्यानावरणाः क्रोधमानमायालोभाः । प्रत्याख्यानावरणाः क्रोधमानमायालोभाः । संज्वलनाश्च क्रोधमानमायालोभाः । एते प्राणिनां जीवानां संसारसिन्धुसंपातहेतवः–भवसागरप्रवेशे हेतवो मताः ॥ ११८ ॥ मनोवाक्कायेति — शुभाशुभविभेदतः मनोवाक्काय कर्माणि शुभं मनःकर्म शुभा मनोभावना, शुभं वाक्कर्म, शुभा वचनप्रवृत्तिः, शुभं कायकर्म शुभा शरीरचेष्टा, अशुभं मनः कर्म, अशुभा मनोभावना, अशुभा वचनप्रवृत्तिः, अशुभा शरोरचेष्टा एताः शुभाशुभमनोवाक्कायानां प्रवृत्तयः आत्मनि जीवे पुण्यपापानां क्रमशो बन्धहेतुत्वं प्रतिपद्यन्ते ॥ ११९ ॥ लोकस्वरूपं प्रोच्यते - निराधार इति - निराधारः शेषकच्छपाद्याधाररहितः । निरालम्ब: आकाशे सर्वतोऽनन्ते क्वापि न संलग्नः पवमानसमाश्रयः पवमानाः घनवाताम्बुवाततनु वातानाम् आधारेण तिष्ठन्, नभोमध्य स्थितः आकाशमध्ये स्थितः । सृष्टिसंहारवर्जितः उत्पत्तिव्ययरहितः ॥ १२० ॥ अथ मतम् - नैवेति- जगत् क्वापि न लग्नम् । जगत् लोकोऽयं क्वापि कस्मिन् अपि न लग्नम् न संश्लिष्टम् । कथंभूतम् । भूभूधाम्भोधिनिर्भरं भूः भूमिः, भूघ्राः पर्वताः, अम्भोधिः समुद्रः तैः । निर्भरं भृतम् । धातारश्च घारकाः, के । मत्स्यकूर्माहिपोत्रिणः मत्स्यो मत्स्यावतारधारी विष्णुः, कूर्मः कच्छपः, अहिः शेषः, पोत्री वराहः न युज्यन्ते अनवस्थापत्तेः ॥१२१॥ एवमिति - एवमालोच्य इत्थं विचार्य | लोकस्य जगतः । कथंभूतस्य निरालम्बस्य आश्रयविहीनस्य । धारणे जैनैः पवनः वायुविशेषः कल्प्यते समर्थ्यते । इत्येतन्महत्साहसम् ॥ १२२ ॥ यो हीति - हि यस्मात्कारणात्, यो वायुः अत्र अस्मिल्लोके प्रत्यक्षीभूते । लोष्टकाष्ठादिधारणे लोष्टं मृत्तिकाखण्डम्, काष्ठं दारु, आदिशब्देन घटपटादय: तेषां धारणे न शक्तो न समर्थः । स त्रैलोक्यस्य जगत्त्रयस्य कथं धारणावसरक्षमः धारणावसरे धारणकार्ये क्षमः समर्थः स्यात् ॥ १२३ ॥ तदसत् — उपर्युक्तमाक्षेपं प्रतिविदधाति — ये इति -ये मेघाः पानीयैर्जलैः । सचराचरं चरा: जङ्गमाः पदार्थाः । अचराः स्थिराः पदार्थाः धराधराधरादयः । तैः सहितं सचराचरं विष्टपं जगत् प्लावयन्ति पूरयन्ति । ते वातसामर्थ्यात् वायुशक्तेः । व्योम्न्याकाशे । किं न समासते किन तिष्ठन्ति । अपि तु तिष्ठन्त्येव ॥ १२४ ॥ आप्तागमपदार्थेषु अर्हति जिने, आगमे तदुक्तसिद्धान्ते, जीवादिनवपदार्थेषु च अपरं दोषम् अपश्यन्तोऽन्यमतीया अमज्जनेत्यादिदोषचतुष्टयं ब्रुवते - अमज्जनम् अस्नानम्, अनाचामः अदन्तधावनम्, नग्नत्वम्, स्थितिभोजिता उद्भीभूय भोजनं मुनेः एतद्दोषचतुष्टयं मिथ्यादृशो वदन्ति ॥ १२५ ॥ अत्र समाधिः एतद्दोषचतुष्टयस्य निरसनम् — यथा— ब्रह्मचर्येति — ब्रह्मचर्योपपन्नानां मैथुनम् अब्रह्म तत्यागो ब्रह्मचर्यम्, तदुपपन्नं स्वीकृतं यैस्ते ब्रह्मचर्योपपन्नास्तेषाम् । पुनः कथंभूतानाम् । अध्यात्माचारचेतसाम् आत्मानम् अधिकृत्य ये आचाराः जपध्यानतपांसि तेषु चेतो मनो येषां ते अध्यात्माचारचेतसः तेषाम् । मुनीनां स्नानम् अप्राप्तं स्नानस्यावश्यकता न । तु परंतु स्पर्शे अयोग्यजनस्पर्शे । अस्य स्नानस्य विधिर्मतः मान्यः ॥ १२६॥ संगे इति - कापालिकात्रेयीचाण्डालशबरादिभिः कपालेन नृकपालेन चरति अभ्यवहारादिकं भोजनपानादिकं करोतीति कापालिक : वर्णसंकरजातिविशेषः । आत्रेयी पुष्पवती स्त्री । चाण्डाल: ब्राह्मण्यां वृषलेन शूद्रेण जातः । शबरो म्लेच्छजातिः, "भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः" इति आदिशब्देन शुनकगर्दभनापितस्पर्शे । वमने, विष्टोपरि पादपतने, शरीसेपरि काकविण्मोचने इत्यादिस्नानोत्पत्ती सत्यां दण्डवदुपविश्यते श्रावकादिकछात्रादिको वा जलं नामयति । सर्वाङ्गप्रक्षालनं क्रियते, स्वयं हस्तमर्दनेनाङ्गमलं न दूरीक्रियते । स्नाने सति उपवास गृह्यते । पञ्चनमस्कारं शतमष्टोत्तरं वा कायोत्सर्गेण जप्यते एवं शुद्धिर्भवति ॥१२७॥ प्रतिस्त्रीणां कथं शुद्धिर्भवति । एकान्तरमिति - ऋती रजस्वलावस्थायाम् । व्रतगताः स्त्रियः आर्थिकाः क्षुल्लिकाः श्राविकादयश्च । एकान्तरम् एकदिवसम् उपोषितम्, त्रिरात्रं वा त्रिदिनोपवासं वा कृत्वा । चतुर्थके दिने स्नात्वा स्नानं कृत्वा । असंदेहं निरारेकं निश्वयेन । शुद्धयन्ति रजोदोषद्रा भवन्तीत्यर्थः ॥ १२८ ॥ यदेवेतियदेव आगमेन शुद्धं भवतीति निगदितं तदेव शोध्यम् । केन । अद्भिर्जलेन । हि यतः अङ्गुली करशाखायां सर्पदष्टायां न हि नासा नासिका निकृत्यते छिद्यते ॥ १२९ ॥ निष्पन्दादिविधौ - निष्पन्दादिविधो मुखाल्लालाकफ दिनिर्गमने सति मुखे यदि चेत् अपूतत्वम् अपवित्रत्वम् इष्यते मन्यते तर्हि वक्त्रापवित्रत्वे मुखस्य अशुचित्वे शौचं