________________
३५०
पं० जिनदासविरचिता
[ पृ० ३५
वदिति - - यथा मन्त्रः नियतोऽपि परिमिताक्षरोऽपि स्वभावतः अचिन्त्यशक्तिको भवति तथा अयम् आत्मा नियतः शरीरप्रमाणोऽपि स्वभावतः अचिन्त्यशक्तिको वेदितव्यः । अतः स्वशरीरात् अन्यत्र नानुभूयते न च वर्तते । शरीरप्रमाणत्वात् स व्यापको न भवति ॥ १०७॥ जीवद्वैविध्यं निगदन्त्याचार्या :- त्रसस्थावरेतिसस्थावरभेदेन केचित् जीवाः चतुर्गतिसमाश्रयाः नारकतिर्यङ्नरदेवगतीः अवलम्ब्य संसारे स्थिता दृश्यन्ते । तथा अन्ये च केचित् पञ्चमीं गतिं मोक्षगतिम् आश्रिताः मुक्ता भवन्ति कर्मक्षयं कृत्वा इति द्वैविध्यं जीवानाम् । संसारिणो जीवाः सस्थावरभेदेन द्विविधाः । परं मुक्ता जीवाः कर्मणः अभावेन भेदरहिता ज्ञेयाः ॥ १०८ ॥ धर्माधर्माविति - धर्मः, अधर्मः, नभः, कालः पुद्गलश्चेति पञ्च पदार्था अजीवशब्देन वर्ण्यन्ते । एते विविधपर्यायाः एते नानावस्थायुता भवन्ति ॥ १०९ ॥ गतिस्थितीति-धर्मद्रव्यं जीवपुद्गलयोर्गतिपरिणतिकारणम् । अधर्मद्रव्यं तयोरेव स्थितिपरिणतिकारणम् । नभ आकाशं द्रव्यम् अप्रतीघातकारणं जीवपुद्गलयोः प्रतीघातं प्रतिरोधं न करोति तत्तयोरवगाहं ददाति । काल: जीवपुद्गलयोः वर्तनाक्रियापरिणामपरत्वापरत्वपरिणतिनिबन्धनं भवति । एवं सर्ववस्तूनां लक्षणं प्रोक्तम् । रूपाद्यात्मा च पुद्गलः " स्पर्शरसगन्धवर्णवन्तः पुद्गलाः” इति पुद्गलस्य लक्षणम् ॥ ११० ॥ बन्धस्य लक्षणम् - अन्योन्येति – अन्योन्यानुप्रवेशेन जीवप्रदेशेषु कर्मप्रदेशाः प्रविशन्ति । कर्मप्रदेशेषु च जीवप्रदेशाः प्रविशन्ति, एवं कर्मात्मनोर्बन्धो भवति । स बन्धोऽनादिः सान्तश्च भवति कालिकास्वर्णयोरिव खनौ उत्पन्नं सुवर्ण कालिकासहितमेवास्ति तत्र आदी सुवर्णम्, कालिका तदनन्तरम् इति कालभेदो नास्ति परं ततः उपायैः सुवर्णात्कालिकापनयः क्रियते येन तयोः सावसानता भवति तथादौ शुद्ध आत्मा ततस्तस्य प्रदेशेषु कर्मप्रदेशानां संश्लेषो जात इति न, अनयोः संश्लेषस्यानादिता वर्तते । परं रत्नत्रयं प्रकृष्यते यदा तदा जीवकर्मणोरत्यन्तं विश्लेषो भवति येन जीवः शुद्धः संपद्यते ॥ १११ ॥ बन्धस्य चातुविध्यम् - प्रकृतीति — सर्वेषामेव देहिनां संसारिजोवानां प्रकृतिबन्धः, स्थितिबन्धः, अनुभागबन्धः, प्रदेशबन्धः इति भेदात् चतुर्धा बन्धो भिद्यते, चतुःप्रकाशे भवतीत्यर्थः । ज्ञानावरणादिकर्मणां ज्ञानादिप्रतिहननं स्वभाव : प्रकृतिबन्धः । तत्स्वभावादप्रच्युतिः स्थितिबन्धः । ज्ञानावगमनादिस्वभावादप्रच्युतिः स्थितिबन्धः । तद्रसविशेषोऽनुभवः, कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं प्रदेशबन्धः ॥ ११२ ॥ मोक्षलक्षणम् – आत्मेति — जीवस्य अन्तर्मलक्षयात् जीवस्य रागादिरूपपरिणतीनाम् अन्तर्मलरूपाणां क्षयाद्विश्लेषात् या निर्मलता अनन्तशुद्धस्वाभाविकचैतन्यसुखादिपरिणतेः प्रकर्षतमता तस्याः आत्मलाभं मोक्षं विदुः जानन्ति । जीवस्य अभावो मोक्षो न नापि अचैतन्यं चेतनारहितत्वं मोक्षः, न च चैतन्यम् अनर्थकम् अर्थों घटादि: तज्ज्ञानविरहितं चैतन्यं कदापि न तिष्ठति । मुक्तात्मनां ज्ञाने प्रतिसमयम् अनन्तपदार्थमालिका फलतीति ज्ञेयम् ॥ ११३॥ बन्धमोक्षयोः कारणानि - बन्धस्येति - मिथ्यात्वा संयमादिकं बन्धस्य कारणं प्रोक्तम् । आप्तागमपदार्थानाम् अश्रद्धानं मिथ्यात्वम् । इन्द्रियसंयमप्राणिसंयमयोरभावः असंयमः । आदिशब्देन कषायादिकं गृह्यते । एतत्कर्मबन्धस्य कारणं निदानं प्रोक्तम् । रत्नत्रयं तु मोक्षस्य मुक्तेः कारणं प्रोक्तं कथितम् ॥ ११४॥ मिथ्यात्वभेदाः प्रतिपाद्यन्ते – आप्तेति – आप्तागमपदार्थानाम् अर्हत्सिद्धान्तजीवादिनवपदार्थानाम् अश्रद्धानरूपम् एकं मिथ्यात्वम्, विपर्ययरूपं द्वितीयम्, संशयरूपं तृतीयम् । इति मलिनात्मनां गाढदर्शन मोहोदयवतां त्रिधा मिथ्यात्वं प्रोक्तम् । अथवा — एकान्तेति — एकान्तसंशयाज्ञानम् - एकान्त मिथ्यात्वम्, संशयमिथ्यात्वम् अज्ञान मिथ्यात्वं च तथा व्यत्यासविनयाश्रयं व्यत्यासो विपर्यय आश्रय आधारो यस्य विपर्ययाश्रयोत्पन्नं विपरीतमिथ्यात्वम् । विनयाश्रयं विनयाधारं विनयमिथ्यात्वमित्यर्थः । मिथ्यात्वमेतत् भवपक्षाविपक्षत्वात् संसारपक्षस्य अविपक्षत्वात् अनुकूलत्वात् पञ्चधा पञ्चप्रकारं स्मृतम् ।।११५ - ११६ ॥ असंयमं विशदयतिअतित्वमिति - हिंसादानि पापानि न सेवेऽहमित्यभिसंधिकृतो नियमो व्रतम् । तदस्यास्तोति व्रती तस्य भावो प्रतित्वम्, न व्रतित्वमतित्वम् । हिंसादिभ्योऽविरमणमतित्वमित्यर्थः । प्रमादित्वं पुण्यकर्मसु अनादरः प्रमादः सोऽस्ति यस्य स प्रमादो तस्य भावः प्रनादित्वम् । तच्च पञ्चसमितित्रिगुप्तिशुद्धयष्टोत्तमक्ष नादिविषयभेदात् अनेकविधम् । निर्दयत्त्रम् - प्राणिदुःखं दृष्ट्वा मनसोऽनार्द्रतारूपं क्रूरता इति भावः । अतृप्तता इष्टविषयेषु लब्धेवपि मनसोऽसंतोषो गृध्नुता । इन्द्रियेच्छानुवर्तित्वम् इन्द्रियाणां येषु येषु विषयेषु स्पृहा जायते तदानुकूल्येन वर्तनम् । सन्तः ज्ञानिनः असंयमं असंयमलक्षणं प्राहुः वदन्ति स्म ॥ ११७ ॥ कषायभेदान् ब्रुवन्ति-कषाया इति