________________
-पृ० ३५ ]
उपासकाध्ययनटोका
ग्रहणायोग्येऽर्थे अतीन्द्रियविषये वचसः पूर्वापराविरोधेन प्रमाणता प्रामाण्यं भवति ।। ९८ । आगमाभासस्याप्रमाणतां वदति – पूर्वापरेति - स आगमः किं प्रमाणं भवति । अपि तु न भवति । कीदृशः आगमः न प्रमाणम् उच्यते यः पूर्वापरविरोधेन दोषेण युक्तः स नागमः प्रमाणम् । यस्तु युक्त्या प्रत्यक्षादिप्रमाणेन बाध्यते सोऽप्रमाणमागमः । एवंविध आगमो मत्तोन्मत्तवचः प्रख्यः मत्तः सुराधत्तूरादिप्राशनात् । कामादिविकारादुन्मतस्तस्य वचसा प्रख्यस्तुल्यः स न प्रमाणं भवति ।। ९९ ।। आगमस्य निरुक्ति कथयन्ति सूरिपादा: - हेयोपादेयेति – चतुर्वर्गसमाश्रयात् धर्मार्थकाममोक्षाः चतुःपुरुषार्थ वर्गः तस्य समाश्रयणात् अवलम्बनात्। हेयोपादेयरूपेण जीवादिसप्तपदार्थेषु जीवः, संवरः, निर्जरा मोक्षश्चेति ग्राह्या उपादेयाः पदार्थाः मुक्तिकारणत्वात् । अजोवः, आस्रवो बन्धश्च हेयार्थाः संसारकारणत्वात् । एतान् भूतभाविभवत्कालगतान् हेयोपादेयार्थान् गमयज्ञापयनागमः स्मृतः प्रतिपादितो ज्ञातव्यः ॥ १०० ॥ आत्मानात्मेति — तत्ववेदिभिः तत्त्वं विदन्तीति तत्त्ववेदिनः विद्वांसस्तैः आगमस्य पदार्था एवं निगद्यन्ते भाष्यन्ते - आत्मानात्मस्थितिः आत्मा च अनात्मा च तयोः स्थितिः जीवाजीवयोः स्थितिर्यत्र स लोकः लोक्यन्ते जीवपुद्गलधर्माधर्माकाशकाला यत्र स लोकः, बन्धश्च मोक्षश्च बन्धमोक्ष सहेतुको कारणसहितौ बन्धस्य कारणानि मिथ्यात्वादीनि मोक्षस्य कारणानि सम्यग्दर्शनज्ञानचारित्राणि एते पदार्था निगद्यन्ते कथ्यन्ते ॥ १०१ ॥
३४६
[ पृष्ठ २७-३५ ] उत्पत्तिस्थितिरिति — उत्पत्तिरुत्पादो जननं स्थितिघ्रव्यम्, विनाशः संहारो एतैः सारा: बलवन्तः सर्वे पदार्थाः स्वभावत एव । यथा तोयधेः समुद्रस्य तरङ्गाः कल्लोलाः तटद्वयाश्रिताः भवन्ति तथैते पदार्था नयद्वयाश्रिताः द्रव्यार्थिकपर्यायार्थिकनयो आश्रित्य वर्तन्ते । तंत्र वस्तुनि धौभ्यं द्रव्यार्थिकनयाश्रितम्, उत्पत्तिव्ययो च पर्यायार्थिकनयाश्रितौ ॥ १०२ ॥ क्षयाक्षयैकपक्षत्वे इति — क्षयश्च अक्षयश्च क्षयाक्षयो । एकपक्षत्वशब्दः क्षयेण अक्षयेण च क्रमशो योज्यः । तेन क्षयैकपक्षत्वम्, अक्षयैकपक्षत्वम् इति भवति । क्षयैकपक्षत्वे अङ्गीक्रियमाणे वस्तु सर्वथा विनाशि एव स्यात् ततश्च बन्धक्षयस्य आगमः प्राप्तिः भवेत्, मोक्षक्षयस्य आगम: प्राप्तिर्भवेत् । ततो बन्धो मोक्षश्च नैव सिद्धयतः । वस्तु उत्पद्य पश्चात् अनन्तरसमय एव विपद्येत तर्हि तस्य वस्तुनः न केनापि संयोगो भवेत् । सर्वथा विनाशशीलस्य आत्मनः कर्मबन्धो न भवेत् । सर्वथा वस्तु अक्षयि एव यदि तर्हि परिणामित्वाभावात् मोक्षक्षयागमः भवेत् । बद्ध आत्मा बन्धनपर्यायपरिणत एव सर्वदा भवेत् । तस्य मुक्तिः कदापि न स्यात् । अतः तात्त्विकैकत्वसद्भावो भवेत् यदि स्वभावान्तरहानिः स्यात् । सर्वथा एकरूपता वस्तुनः स्याद्यदि तत्र स्वभावान्तरप्रादुर्भावः कदापि न भवेत् । यः आत्मा क्रुद्धः स क्रोधे गते प्रसक्तिभाक् दृश्यते । अतः वस्तुनि तात्त्विकैकत्वसद्भावे अङ्गीक्रियमाणे स्वभावान्तरदर्शनं न स्यात् । कथंचित् जीवादिवस्तु पर्यायापेक्षया क्षयि । द्रव्यपेक्षया तत् अक्षय मन्यताम् । एवं वस्तुस्वरूपाभिमनने स्वभावान्तरहान्याख्यो दोषः न संसक्तो भवेत् ।। १०३ ।। आत्मनः स्वरूपं निगदति —– ज्ञातेति – पुमान् आत्मा ज्ञाता द्रष्टा च अत एव ज्ञानदर्शनलक्षण आत्मा गीयते । महान् आत्मा केवलसमुद्घातापेक्षया लोकव्यापको भवति अतः महान् । सूक्ष्मः स्पर्शादिगुणरहितत्वात् अमूर्तः सूक्ष्मः उच्यते । कृतिभुक्त्योः स्वयं प्रभुः "स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते ।" अतः स्वयं प्रभुत्वात् स कर्ता भोक्ता च भवति । ईश्वरप्रेरितो न गच्छति स्वर्गं श्वभ्रं वा । भोगायतनमात्रोऽयं शरीरं भोगायतनम् । शुभाशुभकर्मोदयप्राप्तयोः सुखदुःखयोः शरीरम् आयतनं गृहम् अस्ति । तत् तद्भोगे साधनं संपद्यते । आत्मा यच्छरीरं लभते तत्प्रमाणो भूत्वा आमृति तिष्ठति । यदा च स कर्मक्षयं करोति तदा स्वभावादेव स ऊर्ध्व ं गच्छति अतः स ऊर्ध्वगः पुमानिति कथ्यते ॥ १०४ ॥ ज्ञानदर्शनेति - ज्ञानदर्शनशून्यस्य आत्मनः अचेतनात् भेदोऽन्यता न स्यात् । तथा च अयं जीवः इमौ घटपटी इति भेदो न भवेत् । ज्ञानमात्रस्य जीवस्य न एकधी: । स एव अहम् इति प्रत्यभिज्ञानात् आत्मा ज्ञानी न ज्ञानमात्रं तस्य स्वरूपम् । ज्ञानमात्रस्य जीवत्वे मन्यमाने सा एकधीः नश्येत् । केवलं ज्ञानसामान्यं स्यात् । विशेषधर्माभावात् । इदं चित्रज्ञानम्, इदं पटज्ञानम्, इदं मित्रज्ञानम् इति नानात्वं ज्ञानानां न स्यात् । विशेषधर्मेणैव भेदा ज्ञानेषु भवन्ति ॥ १०५ ॥ जीवकर्मणोः अन्योन्यसंबन्धं निगदति—प्रेर्यते इति - नीनाविकसमानयोः एतयोः जीवकर्मणोः अन्यो न प्रेरकः । यथा नौ नाविकेन प्रेते स च तया प्रेर्यते तथा जीवन कर्म प्रेर्यते तेन च जीवः प्रेरितो भवति ॥ १०६ ॥ मन्त्र -