________________
३४८
पं० जिनदासविरचिता
[पृ०२५
दक्षिणमार्गः शवमतं वाममार्गप्रधानम् । याज्ञिकागमोऽपि पश्वादियज्ञप्रवर्तकः । अतः कर्मगतः । वेदान्तिनामागमः ज्ञानगतः ब्रह्माद्वैतप्रतिपादकः । शाक्यागमोऽपि वाममार्गस्थः मन्त्रतन्त्रप्रधानत्वात् । सुगतः खलु तरसासवसक्तधीरासीत् । महायानसंप्रदायाद्वाममार्गो जातः ॥८॥ यच्चैतत्-श्रुतिमिति-इह शंभ्वादिदर्शनेषु वेदं श्रुतिम् आहुः । वेदः श्रुतिरिति नामद्वयं शंभ्वादीनामागमानाम्। स्मृतिस्तु धर्मशास्त्रमिति कथ्यते । श्रुतिस्मृती सर्वार्थषु यज्ञादिषु अमोमांस्य अविचारणोये । ताभ्यां श्रुतिस्मृतिभ्यां हि यस्मात् धर्मो निर्बभौ नितरां शुशुभे । श्रुती स्मृतौ च यत्प्रतिपादितं तत्सर्वं प्रमाणमेवेति मन्तव्यम् ।।८८।। ते विति-यः द्विजः हेतोः शास्त्रादागमात् ते श्रुतिस्मृती अवमन्येत तिरस्कुर्वीत, स साधुभिः बहिः कार्यो यतो बेदनिन्दको नास्तिको भवति ॥८९।। तदपि न साधु तदपि वचनं साधु सुन्दरं न । यतः यस्मात्कारणात् । समस्तेति-समस्तयुक्तिनिर्मुक्तः प्रत्यक्षादिप्रमाणरहितः केवलागमलोचनः केवलं श्रतिस्मतिनेत्र: यदि . केवलेनागमेनैव तत्त्वमिच्छन् स वादी इह कस्य जयावहो भवेत् । न कस्यापि । युक्ति हेतुवादं त्यजन् वादी केवलेन आगमेन तत्त्वसिद्धि न कर्तुं शक्नोति । युक्ति विना केवलम् आगमादेव तत्त्वसिद्धि इच्छन् वादो जयं न लभते प्रत्युत पराभवपदं याति ॥९०॥ सन्त इति-सन्तो विद्वांसो गणेषु तुष्यन्ति यन्मतं गुणवत्प्रमाणसिद्धं तत्रैव तुष्यन्ति, न अविचारेषु प्रमाणेन सिद्धिमनधिगतेषु वस्तुपु न तुष्यन्ति । यतो निर्गुणो ग्रावा अश्मा पादेन क्षिप्यते दूरमस्यते । परं रत्नं मणिः मौलो किरीटे निधोयते स्थाप्यते ॥ ९१।। श्रेष्ठ इति-गृहस्थः गुणैः अहिंसादिभिरणुव्रतैः श्रेष्ठः पूज्यः स्यात् । ततः गृहस्थादपि श्रेष्ठतरः पूज्यतरो यतिर्भवेत् महाव्रतधारकत्वात् । यतेः श्रेष्ठतरो देवः, यतेः मुनेरपि पूज्यतरः देवः जिनपतिः । रत्नत्रयस्य परमप्रकर्ष गतत्वात् । देवादधिकं परं श्रेष्ठं लोके किमपि न ॥९२।। गेहिनेति-हिना गृहस्थेन समवृत्तस्य समानाचरणस्य । यतेः तपस्विनोऽप्यधरस्थितः मुनेः सदृशं चरित्रं यस्य नैव भवति एवंविधस्य देवस्य यदि देवत्वं न देवो दुर्लभो भवेत् । यदि देवोऽपि गृहस्थसदृशः स्यात्तहि सर्वेऽपि जना देवा भवेयर्येन देवानां दुर्लभता न स्यात् ।।९३॥
इत्युपासकाध्ययने प्राप्त स्वरूपमीमांसनो नाम द्वितीयः कल्पः ।
___३. आगमपदार्थपरीक्षणो नाम तृतीयः कल्पः। [पृष्ठ २५-२६] देवमिति-आदी प्रथमं देवं परीक्षेत, क आप्तो भवितुमर्हति इति विचारः कार्यः । पश्चात्तद्वचनक्रम देवस्वरूपविचारानन्तरं तस्य वचनक्रमम् आगमस्य क्रमो विचारणीयः । ततस्तद्विचारेण आगमे निर्णोते तस्य अनुष्ठानम् एतदागमप्रोक्ताचरणं परीक्षेत । एतत्प्रोक्तम् आचरणं पापानुबन्धि पुण्यानुबन्धि वेति परीक्ष. णीयम् । तत्पश्चात् तत्र बुधः मतिं कुर्यात् । तत्स्वीकारपरां मति बुद्धि विदध्यात् ।।९४॥ येऽविचार्येति-ये नराः देवम् अविचार्य देवमपरीक्ष्य तद्वाचि रुचि कुर्वते तत्प्रोवते वेदाद्यागमे रुचि श्रद्धानं कुर्वते विदधति तेऽन्धा विचारशून्य मतयस्तत्स्कन्धविन्यस्तहस्तास्तत्स्कन्धे देवभुजे स्थापितहस्ताः कृतश्रद्धानाः सद्गति वाञ्छन्ति ततो मोक्षमभिलषन्ति । यथा अन्धस्कन्धे हस्तं स्थापयन्तोऽन्धाः सद्गति वाञ्छन्तो न तां लभन्ते तथा देवस्वरूपमविमृशन्तो नराः तदागमं श्रद्दधतः सद्गति सती शोभनां कर्मक्षयजा मुक्तिगति न प्राप्नुवन्ति ॥ ९५ ॥ पित्रोः शुद्धौ इति-जननीजनकयोः कुलशुद्धौ विद्यमानायां यथाऽपत्ये पुत्रे पुत्र्यां वा विशुद्धिरिह दृश्यते । तथाप्तस्य विशुद्धत्वे अष्टादशदोषराहित्ये, मुक्तिमार्गनेतृत्वे, कर्मभेदकत्वे एतद्रूपे विशुद्धत्वे सति तन्मुखनिर्गतागमस्यापि शुद्धता भवति ॥ ९६ ॥ वाग्विशद्धति-विशुद्धापि वाक जिन मुखोत्पन्नमपि श्रुतं पात्रदोषतः दर्शनमोहाक्रान्तपुरुषचित्तस्था यदि भवेत् तर्हि सा दुष्टा भवेत् अहितकरं भवेत् । किंवत् वृष्टिवत् मेघोद्गीर्णजलधारा यथा पात्रदोषतः विषवृक्षवनराजों प्राप्य दुष्टा प्राणिप्राणहरणपट्वो भवति । परं तीर्थसंश्रयं पवित्रजलाशयाश्रितं तदेव जलं वन्द्यं भवति तथा तदेव जिनवचनम् अदुष्टपुरुषचित्ताश्रितं वन्द्यं भवेत् ॥ ९७ ॥ दृष्टेऽर्थे इति- दृष्टे प्रत्यक्षप्रमाणग्रहणयोग्य अर्थे जीवादिवस्तुनि अध्यक्षतः प्रत्यक्षेण वचसः प्रमाणता प्रामाण्यं भवति । दृष्टार्थप्रतिपादकस्य वचसः प्रामाण्यम् अध्यक्षात्प्रमाणाज्जायत अनुमय अनुमानग्रहणयोग्य अर्थ वचसः प्रमाणत अनुमानत: साधनात साध्यविज्ञानेन प्रमाणता ज्ञातव्या । तथा परोक्षे अस्मदादिप्रत्यक्षलैङ्गिक