________________
-पृ० ३८] उपासकाध्ययनटोका
३५३ समयादिषु या क्रिया पूजादिका क्रिपते सा कलेशायैव संसारभ्रमणायव स्यात्-फलावाप्तिकारणं न स्यात् । सम्यक्त्वादिफलावाप्तिहेतुर्न भवेत् । केषां मुग्धबोधानां मूर्खाणाम् अज्ञानिनामित्यर्थः । कथम् । ऊषरे क्षारमृद्विशिष्टे क्षेत्रे कृषिकर्मवत् बीजवपनकार्यवत् निष्फलं स्यात् ॥१४१॥ जिनादिषु भक्तिः सफला भवति-वस्तुनीतिप्रकृतत्वात् जिनादिष्वेव भक्तिः। भाक्तिके भक्तिः पूज्ये गुणानुरागः सा प्रयोजनं यस्य स भाक्तिकस्तस्मिन् भाक्तिके शुभारम्भाय पुण्यप्राप्तये भवेत् । रत्नाय रत्नप्राप्तिहेतवे अरत्नेन रत्नस्वरूपरहितेन पाषाणेन रत्नाय रत्नमिदं भवति इति कृतो भावः भूतये वैभवाय नहि भवति । 'नारत्नेषु' इत्यपि पाठः रत्नस्वरूपरहितेषु पाषाणेषु रत्नानि इमानि इति कृतो भावः भूतये वैभवाय नहि भवति इति अभिप्रायो गृहीतव्यः ॥१४२॥
[पृष्ठ ३७] मिथ्यात्वं त्याज्यमिति कथयति-अदेवे इति-अदेवे आप्तत्वरहिते हरिहरादिषु देवताबुद्धि सर्वज्ञोऽयमिति भावम् । अव्रते व्रतभावनाम्, मिथ्यात्वयुक्त तप आदी प्रतभावनां व्रतपरिणामम । अतत्त्वे एकान्तनित्यादिषु तत्त्वविज्ञानं तत्त्वकल्पनं मिथ्यात्वं तत् उत्सृजेत् त्यजेत् ॥१४३॥ तथापि इति-तथापि यदि कोऽपि नरः सर्वथा मूढत्वम् अदेवादिषु देवतादिभावं न त्यजेत् तर्हि असो मिश्रत्वेन अहंदादिषु अदेवादिषु च भक्तिं कुर्वाणोऽसौ मित्रत्वेन अनुमान्यः अनुमत्यर्हः। यतः सर्वनाश: सुन्दरः न । कालान्तरेण स जैनो भवेत् इति मत्वा स आदरणीयः ॥१४४॥ न स्वत इति-जन्तवः स्वतः न प्रैर्याः आप्तादिश्रद्धाने न प्रवर्तितव्याः तथा प्रवर्तने कृते ते जिनागमे दुरोहाः स्युः दुर्भावनायुक्ता भवेयुः । स्वत एव आप्तादिश्रद्धाने प्रवृत्तानां तद्योग्यानुग्रहो मतः आप्तादिश्रद्धानादिषु अनुग्रहः उपकारः कर्तव्यः ॥१४५॥
इस्युपासकाध्ययने मूढतोन्मथनो नाम चतुर्थः कल्पः ।
५. जमदग्नितपःप्रत्यवसादनो नाम पञ्चमः कल्पः । [पृष्ठ ३७] शकेति-शङ्का जिनोक्तम् इदं धर्मादितत्त्वं स्यादन्यद्वा वैशेषिकाद्युक्तं धर्मादितत्त्वं स्यादिति चञ्चलं श्रद्धानं शङ्का । मदीयतपोमाहात्म्यान्ममेन्द्र पदं संसारसौख्यं वा भवतु इति इच्छा काक्षा। कोपादिवशात् रत्नत्रयसाधने शरीरादो जुगुप्सा विनिन्दा । अन्यश्लाघा-सर्वथा क्षणिकादितत्त्ववादिनो मिथ्यादष्टयोऽन्ये तेषां श्लाघा प्रशंसा अन्यश्लाघा एते दोषा मनसा गिरा वचसा भवन्ति तदा सम्यक्त्वविनाशकारणं भवन्ति ॥१४६॥
[पृष्ठ ३८] तत्र शङ्कादोषस्य विशदं स्वरूप प्ररूपयति-अहमिति-अहमेक: असहायः,, जगत्त्रये मे मम कश्चित् त्राता रक्षको नास्ति । इति एवंरूपां व्याधीनां रोगाणां व्रजः समुहः तेन उत्क्रान्ति: आक्रमणं तस्या जायमानां भीति भयं शकां प्रचक्षते ब्रवते-अथवा शङ्काया अपरं लक्षणम्-एतदिति-एतत्तत्त्वं जिनोक्तं धर्मादितत्त्वं वा इदं तत्त्वं वैशेषिकायुक्तं तत्त्वम्, एतव्रतं जिनोक्तं तपोग्रतादिकं वा इदं व्रतं मिथ्यादृष्टयुक्तं पञ्चाग्नितपोव्रतादिकंबा, एष जिनो देवः, हरिहरादिको बा देवः इति परां शङ्को विदुः ॥१४७-१४८।।
थं शहितचित्तस्य-इत्थं संशयितमनसः जनस्य दर्शनविशता न स्यात । दर्शनं निर्मल निर्दोषं न भवेत । चिते शहिको ईप्सितावाप्तिन स्यात् । अभिलषितप्राप्तिन भवेत् । यथा उभयवेतने पुरुषे अभिलषितलाभो न भवति । स्वामिद्वयेनापि त्वया आवयोः सेवा न सुष्ठु कृता इति दोषारोपणं क्रियते तस्मात उभयलाभादपि स वञ्चितो भवति सेवकः । अथवा पाठान्तरम् 'उभयवेदने' नपुंसकवेदे उभयाभिलाषा भवति परंतु उभययोरपि वाञ्छितयोः अथयोः प्राप्तिन भवति । स्त्रियं पुरुषं वा भोक्तुं न क्षभो भवति नपुंसकः। तथा शङ्कितचित्तस्य नुरपि सम्यग्दर्शननिर्मलता न जायते ॥१४२॥ निःशङ्कितधियो जनस्य स्वरूपमाह-एष एव भवेदेव:अर्हनेव देवो भवेत् । तदुक्तमेवानेकान्तरूपं जीवादिकं तत्त्वम्, एतत्तदेव व्रतम् अहिंसादिकं मुक्त्यै मोक्षाय भवेत् इति निश्चयं कुर्वाणो नरोऽशङ्कयोः नि:शङिकतबुद्धिः स्यात् ॥१५०॥ तत्वे इति-जीवादितत्त्वस्वरूपे शाते सति । रिपो अरौदष्टे सति । पात्रे वा मुन्यादिके आगते सति यस्य चितं बोलायते संशययुक्तं स्यात