________________
-पृ० २१ ]
उपासकाध्ययनटीका तिलोत्तमायाम् आसक्तः । श्रीपतिविष्णुः श्रीरतः लक्ष्म्यां लम्पटः । शंभुः अर्धनारीश्वरः अर्धाङ्गे या नारी तस्या ईश्वरः पतिः । स्मृतः तत्कृतादागमादेव । तथापि किलेत्यरुची आप्तता एषां प्रणिगद्यते ॥६ यस्य हरेविष्णोः पिता जनकः वसुदेवः । देवको सवित्री माता। स्वयं च राजधर्मस्थः नृपतिधर्मस्थितः । तथापि स देवः आप्तश्चित्रम् आश्चर्यम् ।।६३॥
यमिति-यस्य जठरे उदरे त्रैलोक्यं वर्तते। यश्च सर्वत्र व्याप्य विद्यते वर्तते। तथापि तस्य क्वचित मथुरायाम् उत्पत्तिः वने च विपत्तिमरणं स्तो भवतः इति चिन्त्यतां भवद्भिः । लोकत्रयम् अभिव्याप्य तिष्ठतस्तस्य जन्ममरणे युक्त्या नैव घटेते इत्यर्थः ॥६४॥ कपर्दी-एष कपर्दी कपर्दो जटाजूटः स यस्यास्तीति कपर्दो शंकरः दोषवान् । सदाशिवो निःशरीरः देहरहितः । दोषवत्त्वात्तत्र कपर्दिनि प्रामाण्यानुपपत्तेः । तत्र कथम् आगमागमः आगमस्य आगमः उत्पत्तिः। यो रागादिदोषवान् शिवः संसारी स तावत् अप्रमाणम् । तत्कृत आगमोऽपि न प्रमाणम् । यस्तु सदाशिवः स आगमं कर्तुमशक्तः जिह्वाकण्ठाधुपकरणाभावात् । यथा अहस्तः कुलालः कुम्भकरणे ॥६५॥ परस्परेति-ईश्वरः सदाशिवः पञ्चभिर्मुखैः परस्परविरुद्धार्थम् अन्योन्यविरुद्धाभिप्राय शास्त्रम् आगमं शास्ति उपदिशति भक्तान् । तत्र तेषु अभिप्रायेषु कतमार्थविनिश्चयः कतमस्य अभिप्रायस्य संवादित्वं ज्ञातव्यम् ॥६६॥ सदाशिवेति-यदि युगे युगे कृतत्रेताद्वापरयुगादिषु । सदाशिवकला ईश्वरस्यांशो यदि रुद्रे आयाति आगच्छति तत्र कथं स्वरूपभेदः स्यात् सुवर्णस्य या कला अंशः तस्याम् अशिनः सुवर्णात् भेदो न दृश्यते । तथैव अंशिनः सदाशिवात् अंशरूपे रुद्रे भेदो न भवेत् सदाशिववत् । तथा च रुद्रेणापि अशरीरेण भयेत । सदाशिवो विरागः रुद्रः सराग इति भेदो न भवेत् कारणसदृशं कार्य भवतीति ॥६७॥
. [पृष्ठ १८] भैक्षेति-भिक्षाणां समूहो भैक्षम्, नर्तनम्, नग्नत्वं, दैत्यानां नगरत्रयविनाशित्वम्, ब्रह्मणो मस्तककर्तनम, तथा हस्ते कपालधारणम् एताः क्रोडाः किल ईश्वरे विद्यन्ते इति । तथापि तत्राप्तत्वाभिमननमद्भतं प्रतिभाति ॥६८॥
[पृष्ठ १९] सिद्धान्तेति-शैवदर्शनं विचित्रं विस्मयावहम् । कथं विस्मयावहम् सिद्धान्ते आगमे तत्त्वं च आप्तस्वरूपम् अन्यत् भिन्न प्रतिपादितम् । प्रमाणे न्यायशास्त्रे च अन्यत् प्रतिपादितम् । काव्ये अन्यत् । ईहिते लौकिके च अन्यत् पृथक् प्रतिपादितम् । अतः परस्परविसंवादाद्विचित्रं तज्ज्ञातव्यम् ॥६९॥ एकान्त इतितत्त्वपरिग्रहे वस्तुस्वरूपपरामर्शसमये एकान्तः इदं तत्त्वं भेदरूपमेवाभेदरूपमेव वेत्यादिककल्पनम् एकान्तः । स च वस्तुनिर्णये वृथा भवति । शपथश्च विश्वासश्च वृथा। यया युक्त्या अनुमानादिप्रमाणेन तत्त्वसिद्धिनिर्दोषा स्यात्तथैव तेन च वस्तुस्वरूपं संवादि ज्ञातव्यम् । तत्र एकान्तः शपथश्च वृथा तत्त्वज्ञानप्रतिघातित्वात् । सन्तः विद्वांस आहेताः परप्रत्ययमात्रतः अनाहतोक्तयुक्त्या एव तत्त्वं न होच्छन्ति न मन्यन्ते तद्युक्त्या वस्तुनिर्णयाभावात् सर्वया एकान्तपरिग्रहात् ॥७०॥ दाहेति-दाहः अग्नौ सुवर्णस्य निक्षेपः, छेदः सुवर्णशलाकायां सुवर्णपट्टिकायां वा रन्ध्र जननं तथा तदंशकर्तनं वा। कषोपले तद्घर्षणं वा एभिरुपायैः सुवर्णस्य शुद्धी प्रतीतायां तस्मिन का शपथक्रिया विश्वासजननोपायस्य नावश्यकता । यद्येभिरुपायैः परीक्षिते सति हेम्नि अशुद्धाबुपलब्धायां विश्वासजननोपायो व्यर्थ एव ॥७१॥ यदृष्टमिति-यत्तत्त्वं दृष्ट प्रत्यक्ष भजेत् तस्मात् तस्य संवादो जायेत, यत् अनुमानं च भजेत् तेनापि तस्य निर्णयो भवेत् । यच्च लौकिकों प्रतीति च अवलम्बेत । लोकविश्वासेनापि अविरोधं भजेत् । विदः ज्ञातारः पण्डितास्तत्तत्त्वमाहुब्रुवन्ति स्म । तदेव रहोवजितं प्रच्छन्नतया रहितम् । सर्वेषां विदुषां पुरतो निःशङ्कतया प्रतिपादयितुमुचितमिति भावः । कुहकवजितं च कपटरहितं च ॥७२॥
[पृष्ठ २०-२१] निर्बीजतेवेति-यथा अग्नेः स्पर्शमासाद्य बीज निर्बीजं भवति। अङकुरोत्पादनशक्तिविकलं जायते तथा तन्त्रेण यदि प्राणिनो मुक्तिः भवेत् तहि मोक्षाभिलाषवति नरि अग्निस्पर्टी विधेयः ।
येन सोऽपि नरः बोजवत् विपत्त्युत्पत्तिभ्यां विमुक्तो भवेत् ॥७३॥ विषसामर्थ्येति-इह मन्त्रात् विषसामर्थ्यक्षयवकर्मणः क्षयश्चेत् तर्हि तन्मन्त्रमान्यस्य स मन्त्रो मान्यो यस्य स तन्मन्त्रमान्यस्तस्य नरस्य भवोद्भवाः सांसा. रिका रागादयो दोषा न स्युन भवेयुः । मन्त्राद्विषमयो भवति न कर्मक्षयः स तदुपायो नैव ।।७४॥ ग्रहगोत्रेति