________________
पं० जिनदासविरचिता
[पृ०२२ग्रहाणां रव्यादिनवग्रहवंशे गतोऽपि भूतोऽपि पूषा सूर्यः पूज्यः अर्चनीयो न चन्द्रमाः अत्र का युक्तिः । सूर्यो यदि जनानां पूज्यस्तहि चन्द्रः कथं न। अविचारिततत्वस्य अविमष्टवस्तुस्वरूपस्य जन्तोः वृत्तिः प्राणिनः प्रवत्तिः निरङकशा अविचारितरमणीया भवति ॥७५॥ द्वैताद्वैतेति-शंकरानकृतागमः शंकरेण अनकृतः अनुसृतः आगमः यस्य सः शंकरानुकृतागमः शाक्यः बद्धः । तस्य आगमो द्वैताद्वैताश्रयः । बौद्धमतं द्रुतमप्याश्रयते यतः तन्मते संयमः तपांसि इन्द्रियविनिग्रहश्च समुपदिष्टः । ततः आस्रवनिरोधः, वासनाक्षयश्च जायते इति कथनमस्ति तत्र । तथा विज्ञानाद्वैतप्रतिपादकोऽप्यस्ति तदागमः । तथा सर्वत्र प्रवृत्तिनिरङ्कुशत्वम् अद्वैतम् । तदपि शाक्ये संभवति यतः स तरसासवसक्तधीः तरसे मांसे, आसवे मदिरायाम् आसक्ता लुन्धा धीः बुद्धिः यस्य एवंभूतः कथं मनीषिभिः बुधः मान्यः ॥७६॥ अधुना जैनमतं प्रतिचिकीर्षवः एवं वदन्तिअथैवमिति-अथवं वयं प्रत्यवतिष्ठासवः भवन्मतस्य प्रतिविधानं कर्तुमिच्छामः । भवतां जनानां मते किल निश्चयेन मनुजः सन् न आप्तः न सर्वज्ञो भवति । तस्य च आप्तता अतीव दुर्घटा। युक्त्या नैव सिद्धिम् अञ्चति । संजात जनवटा आधुनिकमनुष्यो यथा सर्वज्ञो न भवति । तथा तस्य अभिलषिततत्त्वावबोधो न स्वतो भवति तथा दर्शनाभावात् । गुरुं विना तत्वज्ञानं न भवतीत्यर्थः । परश्चेत् कोऽसौ परः। तीर्थकरोऽन्यो वा। तीर्थकरश्चेत तत्राप्ययं पर्यनयोगः । अर्थात तीर्थकरस्यापि स्वतोऽभिलषिततत्त्वावबोधो न स्यात् परश्चेत कोऽसौ पर इति पुनः पुनः पर्यनयोगे अनवस्या। सोऽपि तीर्थकरो यदि मनुष्यः सोऽपि स्वतः सर्वज्ञो न भवति । तस्मात् तद्भावम् आप्तसद्धावं च वाञ्छद्धिः तद्भावम् अभिलषिततत्त्वावबोधं सर्वज्ञसद्भावं च इच्छद्धिः सदा. शिवः शिवापतिः शंकरो वा तस्य मनुष्यस्य तत्त्वोपदेशकः प्रतिश्रोतव्यः प्रतिज्ञातव्यः । तदाह पतञ्जलि: "स पूर्वेषामपि गुरुः कालेन अनवच्छेदात् ।" स सदाशिवः पूर्वेषाम् अपि चिरन्तनानाम् अपि महर्षीणां गुरुः कालेन अवच्छिन्नत्वाभावात् । अमुकस्मिन्काले सः अभवत्, ततः पूर्व स नासीत् इति कालेन मर्यादीकृतः तथा हिअदृष्टविग्रहादिति-अदृष्टविग्रहात न दृष्टो विग्रहः कायो यस्य स अदृष्टविग्रहः तस्मात् देहरहितादित्यर्थः । शान्तात् सकलकर्मरहितात् पापपुण्यरहितात् इत्यर्थः । परमकारणात् सकल जगतोऽसाधारणहेतुभूतात् शिवात् परमदुर्लभं नादरूपं ध्ननिरूपं शास्त्रं समुत्पन्नम् ॥७७॥ तथाप्तेनैकेनेति तथा आप्तेन एकेन भवितव्यम् । एक एव आप्तः सर्वज्ञो भवति । नहि आप्तानाम् इतरप्राणिवद्गणः समस्ति । संसारिप्राणिनां यथा गणः वृन्दं भवति तथा आप्तानां सर्वज्ञानां गणो न भवति । संभवे वा चतुर्विशतिरिति नियमः कोतस्कुतः कृतः कुतो भवः कौतस्कुतः। इति ईश्वरवादिनो ब्रवते । तत्खल वन्ध्यास्तनंधयधर्यव्यावर्णनम् । वन्ध्यासूतधीरतावर्णनमिव फल्ग विफलम् । उदोर्णमोहार्णवविलयनं च परेषाम । उत्थितमोहसागरे विलयनं विलीनीभवनम् एव परेषाम ईश्वरवादिनां ज्ञातव्यम् । यतः-वक्तति-विकरणः अनादित एव कर्मबन्धनरहितः अत एव सदाशिवः । विगतानि करणानि स्पर्शनादीनि इन्द्रियाणि यस्य सः अशरीरः सदाशिवो वक्ता नैव मुखाद्यवयवाभावात् । कथमेतादृक्षात्सदाशिवात् आगम उत्पद्येत । विकरणात्सदाशिवात्परः स शंभुः रागवान् रागद्वेषाद्युपहतस्तस्मिन् सदोषे शंभो सार्वज्ञं नास्ति । ततस्तस्मादागमोत्पत्तिदुर्घटा अन्यथा रथ्यापुरुषादपि सा स्यात् । सदाशिवात् शंभोः च अपरं तृतीयम् अभूत् । द्वाभ्यां मिलित्वा तृतीयं शास्त्र विरचितं चेत् तत् कस्य हेतोः अजायत । आगमरचनाकारणभूतया शक्त्या शिव आगमं रचयति चेत् सा शक्तिः ततः शिवात्परा भिन्ना तया स शिवः कथं तद्वान् भवेत् असंबन्धात् । तेन तस्याः संबन्धोऽपि न जाघटीति नैव घटते । अतो भवतां वैशेषिकाणां शास्त्रं निरालम्बनं निराश्रयम् । आप्तप्रणीतं न भवतीति भावः ।।७८॥
[पृष्ठ २२-२३ ] संबन्ध इति-संबन्धो हि सदाशिवस्य शक्त्या सह न भवति । संबन्धो भिन्नस्य द्रव्यस्य भवति । न शक्तिव्यम् । नवसु द्रव्येषु शक्ते: अनिर्देशाद् शक्तः अद्रव्यत्वात् । "द्रव्ययोरेव संयोगः" इति योगसिद्धान्तः । समवायलक्षणोऽपि न संबन्धः शक्तेः पृथक् सिद्धत्वात् । शक्तिर्गुणरूपापि नास्ति । गुणानां द्रव्येण संबन्धः अयुतसिद्धोऽभिमतः । तथा च वैशेषिकमतैतिह्यम्-"अयुतसिद्धानां गुणगुण्यादीनां समवायः संबन्धः" परं शक्त्या सह द्विधापि संबन्धो नास्ति इति सदाशिवो वक्ता न भवति । विकरणत्वाच्च तस्मिन् वक्तत्वं न विद्यते । रागवान पार्वतीपतिस्तु सर्वज्ञो नैव भवितुमर्हति रथ्यापुरुषवत् । जिनानां सर्वज्ञत्वं मनुष्यस्वे