________________
३४४ पं० जिनदासविरचिता
[पृ०१५हितम् दुष्कर्मविपाकवशान्नानायोनिषु सोदन्तोति सत्त्वा जोमस्तेभ्यो हितः मोक्षमार्गदर्शक इत्यर्थः ॥ चतुर्विशेषणनिर्दिष्ट आप्तो भवतीत्यर्थः ॥४९॥ आप्तेन सर्वज्ञेनव भवितव्यमिति कथयति । ज्ञानवानिति-अज्ञेन उपदेशस्य करणे विप्रलम्भनं वञ्चनं प्रतारणं स्यादिति शङ्कां कुर्वद्धिविद्वद्भिः कश्चित् नरोज्ञानवान् मृग्यते अन्विष्यते । ज्ञानं तू सर्वेषां जीवानां विद्यते, प्रशस्तं तु नास्ति अतो यस्य प्रशस्तं विरोधादिदोषरहितं विद्यते ज्ञानं सोऽत्र ज्ञोनवान् कथ्यते । तेन ज्ञानवता उक्तं तदुक्तं शास्त्रम आममः तस्य प्रतिपत्तये सर्वज्ञवचनाङ्गोकारार्थम् । अन्यथा मूर्खवचनप्रमाणकरणे विप्रलम्भ उपालम्भो भवति ॥५०॥ सर्वलोकेशत्वं विवृणोति-यः इतियः आप्तस्तत्त्वोपदेशनात् जोवादिसप्ततत्वोपदेशं कृत्वा । दुःखवार्धेः दुःखसमुद्रात् । जगत् लोकम् उद्धरति उत्तारयति । प्रह्वीभूतजगत्त्रयः नभ्रीभूतलोकत्रितयः । सः सर्वलोकेशः कथं न । स एव लोकाधिपः परमार्थतो भवति ॥५१॥ आप्तस्य दोषरहितत्वं त्रिभिः पद्यः निगद्यते। क्षुत्पिपासेतिक्षुत् क्षुषा, पिपासा जलं पातुम् इच्छा तृषा । भयं भोतिः । द्वेषो वैरम् । चिननं चिन्ता । मूढतागमः मूर्खत्वम् । रागः प्रीतिः । जरा वृद्धत्वम् । रुजा रोगः । मृत्युः मरणम् । क्रोधः कोपः । खेदः श्रमः । मदो गर्वः । रतिः आसक्तिः । विस्मयः आश्चर्यम । जननं जन्म । निद्रा स्वापः । विषादः विषण्णता। एते अष्टादश दोषाः ध्रुवाः नित्यं सन्ति । केषाम् । त्रिजगत्सर्वभूतानां त्रिलोके सकलजन्तूनां संसारिणाम् । इमे साधारणा दोषाः सर्वसंसारिषु संभूतत्वात् । परमेभिर्दोषैविनिर्म क्तः सर्वथा रहितः। सोऽयमाप्तो निरञ्जनः निर्गतानि अजनानि दूषणानि यस्मात्स निरजनोऽष्टादशदोषरहितः । स एव दोषरहितः । केवलज्ञानलोचनः केवलज्ञानं चराचरपदार्थनिवहं प्रत्यक्षं कुर्वत ज्ञानमेव लोचनं चक्षर्यस्य सः आप्तः सक्तीनां पर्वापरविरोधादिदोषरहितानां वाचा हेतरुत्पत्तिकारणमस्ति ॥५२-५४॥ किमनतभाषणकारणम । उच्यते-रागाद्वेति-रागाद्वा प्रीतिकारणात् वा, द्वेषाद्वा, मोहाद्वा अज्ञानाद्वा अनतम् असत्यं वाक्यमुच्यते । यस्य तु एते रागद्वेषमोहादयो दोषाः न सन्ति तस्यानृतकारणम् असत्यभाषणं कारणं नास्ति ॥५५।। जगत्पतित्वं व्यनक्ति
उच्चावचेति-उदक उत्कृष्टा अवाक अपकृष्टा प्रसतिनि: उत्पत्तिर्येषां तेषां सत्त्वानां प्राणिनां सदृशाकृतिः समानभावं बिभ्राणः ये उत्कृष्टफलोद्भवाः ये चापकृष्टवंश्यास्तेषां प्राणिनां रागद्वेषरहितः, आदर्श इव दर्पणो यथा यो भाति दश्यते स एव जगतां पतिः स्वामी ज्ञेयः ॥५६।। सतामनुमतस्याप्तस्य स्वरूपं निर्दिशतियस्येति-यस्य आत्मनि शुद्धजीवतत्त्वे । श्रुते आगमे तत्त्वे जीवा जीवादिसप्ततत्त्वस्वरूपे । चरित्रे सामायिकादिपञ्चविधे चारित्रे । मुक्तिकारणे सम्यग्दर्शनज्ञानचारित्ररूपे । एकवाक्यतया एकादृशार्थप्रतिपादकत्वेन वृत्तिः प्रवृत्तिरस्ति । स सतां गणधरादीनां आप्त: अनुमतः प्रशस्यः। उपर्युक्तेषु भावेषु यस्य वचनपङ्क्तिः पूर्वापरविरोधदोषरहिता विद्यते स आप्तः ज्ञेयः । ५७।। अत्यक्षेऽपि इति-अक्षाणि इन्द्रियाणि अतिक्रान्तः अत्यक्षः तस्मिन अन्यक्षे अतीन्द्रियज्ञानगम्येऽपि सि पुरुषे सर्वज्ञे इत्यर्थः । आगमात आप्तवचनेन विशिष्टत्वं हरिहरादिम्यो विप्रतीयते ज्ञायते । हरिहरादीनां रागादिदोषयुक्तत्वमग्रे वक्ष्यते । यथा ध्वनेः शब्द श्रुत्वा पक्षिणाम् उचामध्यवृत्तीनां उपवनमध्ये वृत्तिः स्थितिर्येषां ते उद्यानमध्यवृत्तयस्तेषाम् । उपवने स्थितानां नगोकसां नगे ओकांसि येषां तेषां पक्षिणामित्यर्थः । 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्यमरः । विशिष्टत्वं प्रतीयते ज्ञायते । यथा अयं मयूररवोऽयं सारसरव इति तथा आगमात् हरिहरादेरपि जिनपतेविशिष्ट. त्वं प्रतीयते ॥ ५८ ॥ स्वगुणैरिति-जनो लोकः स्वगुणैः सत्यवक्तृत्वादिभिः श्लाघ्यतां स्तुतिभाजनतां याति गच्छति । तथा जनो लोकः स्वदोषनिन्द्यवचनादिदोषदुष्यतां दोषदुष्टत्वावस्थां याति गच्छति तत्र सुजने दुर्जने च कलधौतायसोरिव सुवर्णलोहधात्वोरिव रोषतोषौ द्वेपरागो वृथा ॥५९॥ द्रहिणेति-द्रुहिणो ब्रह्मा, अधोक्षजो विष्णुः, ईशानः महादेवः, शाक्यो बुद्धः, सूरपुरःसराः सूरः सूर्यः ते पुरःसराः येषां ते देवाः । यदि रागाद्यधिष्ठानं रागादिदोषाणां भाजनं सन्ति । कथं तत्र आप्तता भवेत् । सर्वज्ञत्वं, मोक्षमार्गप्रणेतृत्वं, कर्मपर्वतभेदकत्वं च कथं भवेत् । ॥६०॥ रागादीति-अमीषु हरिहरादिषु रागादिदोषोत्पत्तिस्तदागमात् तत्प्रणीतशास्त्रादेव तच्चरितपुराणादिकात् ज्ञातव्या । यतः अविद्यमानस्य परदोषस्य गृहीतो ग्रहणे पातकं महत् बृहत् भवंत । अवर्णवादेन दर्शनमोहनीयकर्मबन्धो जायते ॥६॥ अजेति-अजः न जायते इति अजः ब्रह्मा