________________
३४३
-पृ०१५]
उपासकाध्ययनटोका च, पृथ्वीजलाग्निवायुकायिकेषु वनस्पतिषु च न भवति जन्मकारणम् । (इदं सम्यक्त्वं) सावाध समर्यादं विदधाति करोति आजवंजवीभावं संसारभावम् । नियमेन संपादयति कंचित्कालं (जीवस्य संसारसुखम्) साधुत्वसंपादनसारः साधुगुणानां भावः साधुत्वं तस्य संपादनमेव सारो यस्मिन्स संस्कारः यथा जीवेषु जन्मान्तरेऽपि अन्यजन्मन्यपि आत्मनः स्वस्य अनुवृत्तिम् अनुयायित्वं न जहाति । तथा चारित्रे चाव: निर्दोषां अनुवृत्तिम् अनुगमनम् उपलभ्य लब्ध्वा जन्मान्तरेऽपि न जहोति न त्यजति सम्यक्त्वम् । सिद्धः मन्त्राराधनादिभिलब्धश्चिन्तामणिर्यथा सम्यक्त्वं असीमम् अतिमर्याद कामितानि स्वयाचितानि फलति ददाति । व्रतानि अहिंसादोनि पुनर्यथा ओषध्यः ब्रोह्यादयः फलपाकावसानानि फलपाकान्तानि फलं दत्त्वा नश्यन्ति, पाथेयवनियतवत्तोनि च पथि हितं पाथेयं तदिव पाथेयवत् संबलवत् मार्गे क्षुत्परिहारार्थ यदशितव्यमन्नं तद्वत् । नियतवृत्तोनि कंचित्कालं सुखजनकानि । यया सिद्धरसवेधसंबन्धात् सिद्धपारदव्यधसंपर्कात् । उषर्बुधसंनिधानमात्रजन्मनि अग्निसांनिध्येनैव जन्म उत्पत्तियस्य तस्मिन् जाम्बूनद इत्र सुवर्णे यथा परिश्रम आयासो न समाश्रयणीयो नावलम्बनोपः । तथा अत्र सम्यक्त्वे पदार्थयाथात्म्यसमवगमात् जीवादिनवपदार्थानां यत्स्वरूपम् आगमे प्रोक्तं तथा तस्यावगमाज्ज्ञानात । मनोमननमात्रतन्त्र मनसा मननं चिन्तनम् एव मनोमननमात्रं तस्य तन्त्रे आधीने केवलं मनःश्रद्धानाधोने सम्यग्दर्शने । न श्रुतश्रवणपरिश्रमः आगमाकर्णनायासः आश्रयणीयः अवलम्ब्यः । एतत्सम्यक्त्वप्राप्तये शरीरं नायासयितव्यं शरीरखेदं विनापि सम्यक्त्वमत्पद्यते इति भावः । न देशान्तरं गन्तव्यम् । देशान्तरे केनापि तत्सम्यक्त्वं वस्तु न हि स्थापितं यत् तत्र गत्वा तदानीयेत। न कालक्षेपकुक्षिः अपेक्षितव्यः न कालयापनापेक्षा कर्तव्या । तस्मात् प्रासादस्य राजगृहस्य अधिष्ठानमिव गर्तपूरणमिव । रूपसंपदः सौन्दर्यसंपत्तेः कारणं सुभगत्वं यथा । भोगायतनस्य शरीरस्य उपचारः स्थानगमनादिकं तस्य कारणं प्राणितं श्वासोच्छ्वासः । विजयप्राप्तेः कारणं यथो मूलबलं मुख्यं सैन्यम् । आभिजात्यस्य कुलीनत्वस्य विनीतत्वं विनयः शास्त्रसंस्कारो वा। नयानुष्ठानमिव राज्यस्थितेः राज्यस्थिरतायाः नयस्य सामाधुपायचतुष्टयस्य अनुष्ठानम् आचरणं यथा । अखिलस्यापि परलोकोदाहरणस्य सकलस्यापि परलोकप्राप्तेरुदाहरणं निदर्शनमिव गरीयांसः महापुरुषाः ननु निश्चयेन सम्यक्त्वमेव प्रथमं कारणं गृणन्ति कथयन्ति । तस्य चेदं लक्षणम् । आप्तेति-आप्तः सर्वज्ञः, आगमः सर्वज्ञस्याहतो मुखाग्निर्गतः दिव्यध्वनिराचारादिद्वादशाङ्गरूप उपदेशः । पदार्थाः जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षपापपुण्यात्मकाः । एतेषां कारणद्वयात् श्रद्धानं सम्यक्त्वम् । अन्तरङ्ग कारणं दर्शनमोहस्य उपशमः, क्षयः क्षयोपशमो वा । तस्मिन् प्राप्ते सति यद्बाह्योपदेशाद्विना प्रादुर्भवति तनैसर्गिकसम्यग्दर्शनम् । यच्च परोपदेशपूर्वकम् आप्तागमपदार्थश्रद्धानं जायते तदधिगमजम् । आसन्नभव्यता', कर्महानिः, संज्ञित्वम्, शुद्धिः-विशुद्धपरिणाम: एते सम्यग्दर्शनप्राप्तेरन्तरङ्गहेतवः । सम्यग्गुरूपदेशः, जातिस्मरणं, जिनप्रतिमादर्शनादिः एते बाह्यहेतवः । एतान इतनासाद्य जीवे सम्यक्त्वं जायते । तच्च मढाद्यपोढं देव-लोक-गुरुमढताभी रहितम, निःशखिताद्यष्टा गोपेतम्, प्रशमादिभाक् च । प्रशमसंवेगानुकम्पास्तिक्याघभिव्यक्तिलक्षणम् । प्रशमादीन भजतीति प्रशमादिभाक् । प्रशमादीनां लक्षणानि ग्रन्यकारोऽग्रे वक्ष्यति ॥४८॥ आप्तलक्षणम्
[१५] सर्वज्ञति-आप्तमतोचिताः अहन्मतप्रतिपादने उचिताः योग्या विद्वांस आप्तं सर्वज्ञं त्रिकालगोवरानन्तपर्यायपरिनिष्ठितं जगत् सर्वशब्देनोच्यते तत् जानातीति सर्वज्ञस्तम् । सर्वलोकेशं, सर्वे च ते लोकाश्च सर्वलोकाः ऊर्ध्वा-ऽधो-मध्यलोकास्तेषामोशस्तम् । सर्वदोषविवजितं सर्वे च ते क्षुत्पिपासादयोऽष्टादश दोषास्तविवर्जितः विशेषेण वजितो रहित: ते दोषाः कदाचनापि तं यथा न स्पृशन्ति तथा स ते रहितस्तम् । सर्वसत्त्व
१. भासचमण्यता भन्यो रत्नत्रयाविर्भावयोग्यो जीवः मासः- कतिपयमवप्राप्यनिर्वाणपदः । मासबासी मब्यश्र आसनमव्यस्तस्य भाव भासामन्यता। २. कर्महानिः मिथ्यात्वादीनां सम्यक प्रतिबन्धकर्मणां यथासंभवमुपशमः क्षयोपशमः भयो वा। ३. संज्ञित्वम्-संज्ञा-शिक्षाक्रियालापोपदेशप्राहित्वम् । संज्ञा अस्य भस्तीति संज्ञी संझिनो मावः संशित्वम् । सा० ध०, अ० १, श्लो० ६ ।