________________
३४२
पं० जिनदासविरचिता
[ पृ० ११
तेषु धियः सन्ति परं यदा जीवेन घरादिरूपं शरीरं त्यज्यते तदा ते धरादयः बुद्ध्या विश्लिष्यन्ते तदा बुद्धेः हानिः तारतम्येन भवन्ती अचेतनेषु धरादिषु तस्याः हानेः पराकाष्ठा भवति तदा सिद्धसाध्यता भवेत् । जैनैः अचेतनेषु धरादिषु बुद्धेः अभावः मन्यते ||४०|| तदावृतिहतौ इति - यथा तपनस्य सूर्यस्य दीषितिः प्रकाशः तदावृतिहती प्रकाशावरणस्य मेघादेः हतौ विनाशे सर्व वस्तु प्रकाशयति तथा शेमुषी बुद्धिः तदावृतिहतो तस्याः आवृतेः ज्ञानावरणकर्मणः विघाते सति सा बुद्धिः यत् वस्तु चराचरं कथं न सर्व प्रकाशयति । अपि तु निखिलं वस्तुजातं सा प्रकाशयति एव ॥ ४१ ॥ ब्रह्माद्वैतवादिनो मुक्तितत्त्वं निराकुर्वन्ति — ब्रह्मेति – यदि ब्रह्म परमपुरुषः एकम् अभेदरूपं विद्यते तर्हि तत् ब्रह्म कुतः कस्मात् कारणात् प्रमाणात् निस्तरङ्गं विवर्तरहितं न सिद्धयति । यदि विवर्तरहितं स्यात् एकं तत् सिद्धयेत् । यथा घटाकाशम् आकाशे लीयते तथा इदं जगत् तत्र परब्रह्मणि लीयताम् अपृथग्रूपेण वर्तताम् । परं तथा अपृथग्रूपं न दृश्यते ॥ ४२ ॥ अथ मतम् एक एवेतिदेहे देहे प्रतिशरीरम् एक एव हि भूतात्मा परमपुरुषः व्यवस्थितः विद्यते । परं जलचन्द्र इव एकधापि अनेकधा नानारूपेण दृश्यते ॥४३॥
[ पृष्ठ १२ ] तदयुक्तम् । एकः खे इति – जनैः खे आकाशे इन्दुः चन्द्रः एकः वेद्यते ज्ञायते । अन्यत्र जलादी अनेकधा वेद्यते तथा ब्रह्म भेदेभ्यो अन्यत् अभेदरूपं कुत्रापि न वेद्यते न ज्ञायते ॥ ४४॥ अलम् अतिविस्तरेण । आनन्द इति - आनन्दः अनन्तं सुखम् । ज्ञानं क्षायिकं केवलज्ञानम् । ऐश्वर्यम् सकलगुणानाम् आत्यन्तिको निर्मलता । वीर्यम् अनन्तशक्तिः । परमसूक्ष्मता अमूर्तत्वम् । एतत् आनन्दादिपञ्चकम् आत्यन्तिकम् अन्तम् अतिक्रान्तम् अविनाशि । यत्र विद्यते स मोक्षः परिकीर्तितः कथितः ॥ ४४ ॥ एतत् आनन्दादिपञ्चकम् आत्यन्तिकं अन्तमतिक्रान्तमविनाशि यत्र विद्यते स मोक्षः परिकीर्तितः कथितः || ४५ || ज्वालेति -- ज्वाला अग्निशिखा, उरुवूकबीजादेः एरण्डबीजादे: आदिशब्देन व्यपगतलेपालाब्वादीनां ग्रहणम् । एतेषां यथा स्वभावादूर्ध्वगतिः । नियता यथा निश्चिता तथा मुक्तस्यापि आत्मनः स्वभावादूर्ध्वगतिर्दृष्टा ॥ ४६ ॥ तथाप्यत्रेति — कर्मक्षये जातेऽप्यत्र तदावासे मुक्तजीवस्याश्रवावस्थाने निवासे अभिमते चेत् पुण्यपापात्मनां पुण्योपेतात्मनां पापोपेतात्मनां च स्वर्गश्वभ्रागमो न स्यात् स्वर्गे देवलोके श्वभ्रे नरके च आगमो गमनं मा भवतु अत्रैव तेषां वसतिर्भवतु । तथा च ते तवालोकान्तरेण अन्यो लोको लोकान्तरं स्वर्गादिकं तेन अलं स्यात् तद्वार्तया न किमपि प्रयोजनम् ||४७||
इत्युपासकाध्ययने समस्त समयसिद्धान्तावबोधनो नाम प्रथमः कल्पः ।
२. आप्तस्वरूपमीमांसनो द्वितीयः कल्पः ।
[ पृष्ठ १२-१३ ] अहो धर्माराधनैकमते वसुमतीपते धर्माराधने एका केवला मतिर्बुद्धिर्यस्य तत्संबोधनं हे धर्माराधनपरायणबुद्धे वसुमतीपते भूपते, हि निश्चयेन सम्यक्त्वं नाम नराणां पुरुषाणां संज्ञिपन्चेन्द्रियजीवानां महती अनन्यसाधारणा पुरुषदेवता सामर्थ्यदेवतास्ति । अस्याः पौरुषं व्यनक्ति यद्यस्मात्कारणात् सकृत् एकदा एकमेव असहायमेव । यथोक्तगुणमेव यथागमं तस्य गुणाः प्रोक्तास्तथैव प्रगुणतया तथैव गुणसहितत्वेन संजातं लब्धात्मलाभं, अशेषकल्मष कलुषधिषणतया सकलपापपरिणामैः मलिन बुद्धित्वात् । नरकतिर्यङ्मनुष्यगतिषु न भवति संभूतिहेतुः न जायते जनने कारणम् । पुष्यदायुषामपि मनुष्याणां पुष्टिं व्रजदायुर्येषां तेषामपि नराणां येषां नृसुरनारकतिर्यगायुर्बन्धो जातस्तेषामपि नराणामित्यर्थः । येषां नरकायुर्बन्धो जातस्ते सम्यग्दृष्टयः षट्सु तलपातालेषु प्रथमां नरकभूमिं विहाय अन्यासु षट्सु नारकभूमिषु न जायन्ते । तत्सम्यक्त्वं तत्र संभूतिहेतुर्जन्मकारणं न भवति । अष्टविधेषु व्यन्तरेषु किनर किंपुरुष महोरग गन्धर्वयक्षराक्षसभूतपिशाचेषु न संभूतिहेतुः । दशविधेषु भवनवासिषु असुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीप दिवकुमारेषु न संभूतिहेतुः । पञ्चविधेषु ज्योतिष्केषु 'सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णतारकाइचेति' सूत्रोवतेषु न संभूतिहेतुः । त्रिविधासु स्त्रीषु नृतिर्यग्देवस्त्रीपु, विकलकरणेषु द्वीन्द्रियत्रोन्द्रियचतुरिन्द्रियेषु विकलत्रयजीवेषु असंज्ञिपञ्चेन्द्रियेषु