________________
उपासकाभ्ययनटोका
३३४ हंकारविरहादखिलेन्द्रियोपशमावहात्तदा द्रष्टुः स्वरूपेऽवस्थानं मुक्तिः' इति । बुढ्यादीनाम् इन्द्रियाणां च प्रशमे जाते द्रष्टु: आत्मनः स्वरूपे अवस्थानं स्थिति: मुक्तिः। तथा ब्रह्माद्वैतवादिनः यथा घटविघटने घटस्थ कुम्भस्य विघटने नाशे घटाकाशं घटरहितं भूत्वा निजस्वरूपे तिष्ठति, केवलम् आकाशमयम् एव जायते तथा देहोच्छेदात् देहस्य शरीरस्य आत्यन्तिकविनाशात् सर्वः प्राणी जीवः परे ब्रह्मणि परपुरुषे लोयते इति वदन्ति । अज्ञातेति-अज्ञात: परमार्थो यः तेषां यथार्थवस्तुस्वरूपानभिज्ञानां मिथ्यादृष्टीनां ये दुर्णया: उपरि प्रदर्शिताः तेभ्यो अन्येऽपि बहवः सन्ति ते सर्वे न गणयितं शक्यन्ते । यथा अज्ञातगजस्वरूपाणां जन्मना अन्धानां सर्वे गणयितुं न शक्या भवन्ति ॥१२॥ प्राय इति-यथा कृतघ्राणस्य नरस्य निर्मलदर्पणदर्शनं कोपाय भवति, तथा परमार्थपथप्रतिपादनं दुराग्रहं बिभ्रति नरे बहुशः कोपहेतुर्भवति ॥१३॥
[पृष्ठ ५ ] दृष्टान्तति-निदर्शनानि बहूनि भवन्ति । तै: बुद्धिर्जनानां वशीक्रियते धूर्तेः । ते इमां महीं पृथ्वी ( आधारे आधेयोपचारात् ) विवेकरहितां किं न कुर्वन्ति । अपि तु कुर्वन्त्येव ॥१४॥ दुराग्रहेतियथा तोयदः तोयं जलं ददाति इति तोयद: मेघः स श्यामाश्मशकलेषु मार्दवं मृदुत्वं नोत्पादयति तथा दुराग्रहग्रहप्रस्ते विपरीताग्रहपिशाचाविष्टे पुंसि नरे विद्वान् किं करोतु । तत्र पुरुषे परमार्थपदार्थप्रतिपादनं तेन विदुषा क्रियमाणं विफलं भवति ॥१५॥ ईर्ते इति-अत्र अस्मिन्विषये । यदेव वस्तु युक्तिम् ईर्ते गच्छति तदेव सत् परमार्थरूपम् । यतः भानुदीप्तिवत् सूर्यप्रकाश इव । तस्याः युक्तः क्वचित्पक्षपातो न भवति । सूर्यप्रकाशो होनानि उत्तमानि च वस्तूनि प्रकाशयति विना पक्षपातम् । तथा युक्त्या सदसत्त्वं वस्तुनः सिद्धयतीति ज्ञेयम् ॥१६।। श्रद्धेति-केवला श्रद्धा श्रेयोऽथिनां मुमुक्षूणां श्रेयःसंश्रयाय मोक्षदानाय हेतुर्न भवति । बुभुक्षितवशात् भोक्तुम् इच्छुकस्य नरस्य इच्छया उदुम्बरफले पाकः उत्पद्येत किम् । इच्छा यदि सफला स्यात् जगत् अदरिद्रं भवेत्
इच्छा मोक्षदाने न क्षमा ॥१७॥ मन्त्रोऽपि न मोक्षकारणम इति निगदति-पात्रेति-यथा पात्रे नरे नायर्या वा पिशावः प्रविशति तथा यदि मन्त्रात आत्मनो रागादिदोषनाशो दश्यत को नाम कृती विद्वान संयम: तपोग्रतादिभिः आत्मानं क्लिश्येत पीडयेत् ॥१८॥ दीक्षापि न मुक्तिकारणम्-दीक्षेति-यस्मिन्क्षणे दीक्षा गहोता तत्क्षणात्पूर्व ये भवसंभवा: संसारोद्भूताः दोषा: ते दीक्षायाः पश्चात् अपि दृश्यन्ते । अतः सा मोक्षहेतुर्न भवति ॥१९।। ज्ञानात् मोक्षः इत्यपि वचनम् अनुचितम्
[पृष्ठ ६] ज्ञानादिति-ज्ञानात् वस्तूनां बोधो भवति परं तेषां प्राप्तिः तस्मान्न भवति । वस्तुनः यत कार्य जायते तस्य प्राप्तिः ज्ञानान्न भवति । यदि ज्ञानादेव कार्यलाभोऽपि भवेत् तहि दृष्टमेव पयः जलं दर्शनसमकालं तर्षापकर्षयोगि तृष्णाविनाशकं स्यात् । अतः ज्ञानादेव मोक्षो न भवति इति ज्ञेयम् ॥२०।। ज्ञानेन विना क्रियापि न कार्यकारिणी । ज्ञानहीने इति-ज्ञानहीने बोधशून्ये । पुंसि पुरुषे । विद्यमाना क्रिया फलं न आरभते । सा निष्फला भवति । दृष्टान्तम् आह-नष्टदृष्टिभि: नष्टे दृष्टी लोचने येषां ते नष्टदृष्टयः अन्धाः तैः तरोः वृक्षस्य छायेव फलश्रीः लभ्या किम् । छायां तु अन्धाः प्राप्नुयुः परं वृक्षे फलशोभा तैः न द्रष्टुं शक्या ॥ २१ ॥ ज्ञानक्रियाश्रद्धाभ्य एव फलोत्पत्तिरिति प्रतिपादयति-ज्ञानमिति-पतो पादहीने नरि ज्ञानं पदार्थावगमः व्यर्थं विफलम् । अन्धे क्रिया गमनं विफला ज्ञानाभावात् । निःश्रद्धे श्रद्धाहीने । द्वयं ज्ञानं क्रिया च अर्थकृत् अर्थ प्रयोजनं करोति इति अर्थकृत् न भवति इत्यर्थः । ततः ज्ञानक्रियाश्रद्धात्रयं तत्पदकारणं मुक्तिपददानहेतुः भवति । नैकैकं न द्वे द्वे प्रत्युत त्रयं मिलित्वा एव अर्थकृद् भवति । उक्तं च-हतमितिक्रियाशून्यं ज्ञानं न फलप्रापकम् । अज्ञानिनो मूर्खस्य क्रिया च अर्थलाभहेतुः न भवति । कथम् । धावन् अपि पलायमानोऽपि अन्ध: नष्टः अग्निदग्धः अभवत् । पश्यन् अपि च पङ्गकः अग्निम् अवलोकमानोऽपि पादहीन: नरः तेन अग्निना दग्धः ॥२३|| भक्ष्याभक्ष्यादिषु निःशङ्का प्रवत्ति कुर्वाणस्य मोक्षः इति कौलवचनम् अपि दषयति-निःशङकेति-निःशकाम अकृतोभीति प्रवृत्ति कुणिस्य नरस्य । यदि मोक्षसमीक्षणं मोक्षस्य अवलोकनं मुक्तिप्राप्तिः स्यात् तहि पूर्व टसूनाकृतां टड्क: खड्गः तस्मात् सूनां हिंसां कुर्वन्ति इति टङ्कसूनाकृतः जीवघातकाः तेषाम् । पूर्व प्रथम मुक्तिः स्यात् । यतः तत्र निःशकात्मप्रवृत्तेः दर्शनात् । ठकसूना कृताम् इति पाठे तु ठकाः खारपटिकाः ते तु निःशक सधनगभिण्यादीनां वधं कुर्वन्ति अतः तेषां