________________
पं० जिनदासविरचिता
[पृ०२समया दुर्मतानि एव स्रोतांसि जलप्रवाहाः यस्तेषाम् । पुनः कथंभूतानाम्-सदाचारेति-सदाचाराः अहिंसानुवर्तिनः दानतपोव्रतादयः न तु अश्वमेधादिकाः । तेषाम् आचरणस्य या चातुरी निपुणता तस्याः विदूरवर्तिनः अतिदूरगामिनः तेषां मुक्तेः उपाये मोक्षाप्तिसाधने मोक्षस्वरूपे च बहुवृत्तयः अनेकरूपाः खलु प्रवृत्तयः । तथा हि-सकलेति-सकलः कलाभिः शरीरावयवैः सहितः आप्तः सकलाप्तः । सैद्धान्तवैशेषिकः कश्चनाप्तः ईश्वरः सशरीरः कैश्चन अशरीरश्च मन्यते । - ईदशात ईश्वरात प्राप्तानि यानि मन्त्रतन्त्राणि तैः उपेतायाः दीक्षायाः मोक्षो भवतीति । दीक्षालक्षणाच्छदानसरणात मोक्षप्राप्तिः इति सैद्धान्तवैशेषिका मन्यन्ते । द्रव्यमिति–साधयं सादृश्यम् । वैधम्यं विसदशता। सदृशविसदृशधर्मसहित-द्रव्यादिपदार्थावबोधकशास्त्रज्ञानमात्रात् ज्ञानात मोक्षो भवति । त्रिकालेति-प्रातः मध्याह्वे सायं च शरीरे भस्मलेपनम् । इज्या शिवलिङ्गपूजनम् । गडुकप्रदानं शिवलिङ्गस्य पुरतः जलपात्रस्थापनम् । शिवलिङ्ग परितः प्रदक्षिणीकरणम् । आत्मविडम्बनादिक्रिपाकाण्डमात्राधिष्ठानं पञ्चाग्नितपश्चरणादिक्रियासमूहाश्रयात् कार्यात् मोक्षः इति पाशुपतमतावलम्बिनो निगदन्ति । पय इति-पयः पेयं मदिरा न पेया इति विचारम् अकृत्वा उभयत्र निःशङ्का प्रवृत्तिः करणीया । मांसम् अभक्ष्यभ अन्नं भक्ष्यम् इति विमर्शम् अकृत्वा उभययो: असंशया प्रवृत्तिः। आदिशब्देन गम्यागम्यादिक ग्राह्यम् । एतेषु कृतेषु पापं भवेत्पुण्यं वेति अविमृश्य प्रवृत्ति कुर्वतो मुक्तिर्भवतीति कुलाचार्यका जल्पन्ति ॥ तथा च त्रिकमतोक्तिः-मदिरेति-मदिरायाः आमोदेन अत्यन्तसमाकर्षिणा गन्धेन वासितमुखः, तरसस्य मांसस्य भक्षणेन सरसहृदयः मुदितमनाः, वामपावस्थापितस्त्रीशक्तिः, शक्तिमुद्रायाः योनिमुद्रायाः आसनस्य च धारकः । स्वयमिति-स्वयं पार्वतीपरमेश्वर इव आचरन्, कृष्णया मदिरया शर्वाणीश्वरं पार्वत्या धवं महादेवम् आराधयेत् उपासीत । सांख्या एवं वदन्ति-अहं पुरुषः इदं शरीरादिकं प्रकृतेः उद्भूतम् । न तन्मे स्वरूपम् इति विवेकज्ञानात् पुरुषः प्रकृतेः पृथग्जायते । तदा तस्य मोक्षो भवति इति । नैरात्म्यादीति -रात्म्यस्य भावनायाः रागद्वेषो विनश्यतः ततश्च मोक्षो भवतीति सौगतानां मतम् ।
[पृष्ठ ३] अङ्गाराञ्जनादिवदिति-प्रङ्गारवत् अथवा अजनवत् स्वभावादेव कालुष्यस्य कोपादिमालिन्यस्य उत्कर्षात् प्रवृत्तस्य चित्तस्य न कुतश्चिद्विशुद्धिः कुतश्चित्तपोध्यानादेः चित्तनमल्यं न जायते इति जैमिनीया वदन्ति । सति धर्मिणोति-सति विद्यमाने धमिणि चैतन्यवदात्मनि धर्माः ज्ञानसुखादयः चिन्त्यन्ते विमृश्यन्ते । ततः परलोकिनः जीवस्य अभावात् परलोकस्य स्वर्गनरकादेः तत्कारणस्य पुण्यपापादेः अभावे कस्यासो मोक्षः । इति समवाप्तं लब्धं समस्तानां नास्तिकानाम् अधिकम् आधिपत्यं स्वामित्वं यस्ते बार्हस्पत्याः बृहस्पतेः शिष्याश्चार्वाकाः एवं वदति। परमब्रह्मेति-परमब्रह्मणो दर्शने अनुभवे जाते सति अशेषभेददर्शिन्या अविद्याया विनाशो जायते ततश्च मोक्षो लभ्यते इति वेदान्तवादिनो वदन्ति । शाक्यविशेषाः पश्यतोहराः दृश्यमानं विश्वम् अपलपन्तः प्रकाशितशून्यकान्ततिमिराः प्रकटोकृतशून्यकान्ततमसः शाक्यविशेषा बौद्धविशेषाः एवं वदन्ति नैवेति-अन्तस्तत्त्वम् आत्माख्यं नास्त्येव । बहिस्तत्त्वं घटादिकम् अञ्जसा परमार्थतः नवास्ति न विद्यते एव। उभावपि चेतनाचेतनौ पदार्थों विचारविषयो न भवतः यतः ततः शून्यता सर्व शून्यं शून्यम् इति वादः श्रेयान् ।
___ काणादाः योगा एवं वदन्ति 'ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवसंख्यावसराणां नवसंख्यायुक्तानाम् आत्मगुणानां जीवगुणानाम् अत्यन्तविनाशः मुक्तिः' इति । पुनस्तैरेव उक्तम्-बहिरिति-देहान बहिः जीवस्य यद्पं ज्ञायते तदेव कणभोजिना मुनिना वैशेषिकदर्शनस्य प्रणेत्रा मुक्तस्य नवगुणरहितस्य जीवस्य अचेतनघटादितुल्यस्य उक्तमिति ॥९।।
[पृष्ठ ४] ताथागता बौदाः एवं मुक्तेः स्वरूपम् आचक्षते । 'निरास्रवचित्तोत्पत्तिलक्षणो मोक्षः' रागद्वेषरहितता निरास्रवता तया अन्वितस्य चित्तस्य उत्पादो मोक्षः । तदुक्तम्-दिशमिति-यथा प्रदीपः तैलक्षयात् केवलं शान्तिम् अभावम् एव याति । स कांचन दिशं, विदिशं, पृथ्वों, नभो वा नैव याति तथा जीवः क्लेशक्षयात् मुक्तः शान्तिम् अभावं प्रतिपद्यते ॥ १०-११ ॥ कापिला एवं वर्णयन्ति मुक्तिम्-'बुद्धिमनो