________________
श्री: पं० जिनदासविरचिता उपासकाध्ययनटीका
जितदोषं नतदेवं दातारं सकलभव्यजीवेभ्यः । मुक्तिसुखानां वन्दे वीरजिनं सकलसद्गुणोपेतम् ॥१॥ श्रीसोमदेवविरचितमुपासकाध्ययनमस्ति हितकथकम् । गृहिणामुपासकानां जिनदासेनास्य तन्यते टोका ॥२॥
[पृष्ठ १ ] धर्मादिति-किलेति निश्चये। हे भगवन् पूज्य, एष जन्तुः एष प्राणी । किल निश्चयेन । धर्मात्सुखी भवति । जगति लोके । स च धर्मः पनः किंरूपः किंलक्षणः । किंभेदः किंप्रकारः । किम्पायः के उपायैः उत्पद्येत । किंफलश्च जायेत-अस्य धर्मस्य आराधनात् इहलोकसुखं परलोकसुखं वा जायेत उत्पद्येत ॥१॥ यस्मादिति-यस्मात् सम्यक्त्वज्ञानचारित्रत्रयात् । पुंसां नराणाम् । निःश्रेयसफलाश्रयः। अतिशयेन प्रशस्य निःश्रेयसं मोक्षः तदेव फलं तस्य आश्रयः आधारः। अभ्युदयाधारो विना तस्मात् स न लभ्यते । इन्द्रपदतीर्थकरपदादि सांसारिकसूखं विशिष्टम अविशिष्टं च अभ्युदय उच्यते । विदिताम्नायाः. ज्ञातागमाः । धर्मसूरयः धर्माचार्याः । तं धर्म वदन्ति ॥२॥ स इति–स गहस्थेतरगोचरः गृहस्थयतिविषयो धर्मः । प्रवृत्तिनिवृत्त्यात्मा प्रवृत्तिश्च निवृत्तिश्च ते आत्मा स्वरूपं यस्य सः। स धर्मः प्रवृत्तिस्वरूपः निवृत्तिस्वरूपश्च अस्ति । मुक्तिहेतो मोक्षप्राप्तिकारणे रत्नत्रये तत्परता प्रवृत्तिः । भवकारणात संसारहेतोः मिथ्यात्वादेः निवृत्तिः त्यागः । इति धर्मस्य द्विविधस्यापि स्वरूपम् ॥३॥ सम्यक्त्वेति-सम्यग्दर्शनम, सम्यग्ज्ञानम्, सम्यक्चारित्रं च एतत्त्रयं मोक्षस्य सकलकर्मणाम् अत्यन्तक्षयस्य कारणं भवति । मिथ्यात्वम अविरतिः कषायाः योगाश्च मिथ्यात्वादिचतुष्टयम् उच्यते । एतच्चतुष्कं संसारस्य चतुर्गतिपरिवर्तनरूपस्य भवस्य हेतुरूपं मीमांस्यं विमर्शनीयं विचारणीयम् इति ॥४॥ सम्यक्त्वमिति-युक्तियुक्तेषु प्रत्यक्षादिप्रमाणसिद्धेषु, नयसिद्धेषु च । वस्तुष जीवादिनवपदार्थेषु भावना दृढं श्रद्धानं सम्यक्त्वं सम्यग्दर्शनम् आहुः । युक्तमेतत् लक्षणम् । 'तत्वार्थश्रद्धानं सम्यग्दर्शनम्' [ तत्त्वार्थसू० १११ ] इति उमास्वामिवचनात् । मोहसंदेहविभ्रान्तिजितं मोहः इदं किंचित् स्यात् इति पदार्यानवबोधः । इदं रजतं स्यादुत शुक्तिशकलम् इति चलन्ती प्रतीतिः संदेहः संशयः । विभ्रान्तिः विभ्रमः विपर्ययः शक्तिकाशकले रजतज्ञानम् । एतत् त्रयम् अज्ञानम् उच्यते सत्यपदार्थानवबोधनात् । एभिः त्रिभिः अज्ञानैः वजितं यत् ज्ञानं तत् सम्यग्ज्ञानम् उच्यते ॥५॥ कर्मादानेति-कर्मादाने ज्ञानावरणादिकर्मणाम् आदाने ग्रहणे । निमित्तायाः हेतुभूतायाः वाचः मनसः न क्रियायाः प्रवृत्तेः शम: निरोधः, उपशान्तिः नाशो वा । चारु उत्तमं चारित्रम् ऊचिरे बभाषिरे । के चारित्रोचितचातुर्याः चारित्रे चारित्रधारणे उचितं योग्य चातुर्य येषां ते गणधरदेवादयः । एतत् चारित्रं त्रियोगरहिते अयोगिकेवलिनि यथाख्यातसंज्ञक लभ्यते ॥६॥
[पृष्ठ २सम्यक्त्वेति-सम्यक्त्वे ज्ञाने चारित्रे च विपर्ययपरं विपरीतभावयुक्तं मनः । 'सर्ववेदिन: सर्वज्ञाः भाषन्ते ब्रुवते । त्रिषु सम्यक्त्वादिषु । अतत्त्वे तत्त्वम् इति भावना सम्यक्त्वे मिथ्यात्वम् । मोहसंदेहविभ्रान्तिः ज्ञाने मिथ्यात्वम् । अहिंसादे विपरीतम् आचरणं चारित्रे मिथ्यात्वम् । इति मिथ्यात्वं त्रिप्रकारम ॥७॥ अत्रेति-परवादिनां प्रवृत्तयः बहुवृत्तयः नानाविधाः सन्ति । कथंभूतानाम् । दुरागमेति-दुरागमो मिथ्याम्नायस्तस्य वासना संस्कार : सैव विलासिनी मोहयन्ती नारी तया वासितं विह्वलं चेतो मनो येषां तेषाम्। पुनः कथंभूतानाम् । प्रवर्तितेति-प्रवर्तितानि प्रचारितानि प्राकृतलोका अज्ञजना एव अनोकहा वृक्षास्तेषाम् उन्मूलने उत्पाटने
४३