________________
३४०
पं० जिनदासविरचिता प्रथमं मोक्षो भवेत् । पश्चात् तदनन्तरम् । असो मुक्तिः। कोलेषु कोलमतानुयायिषु भवेत् । हिंसादिना मोक्षो न लभ्यते इत्यर्थः ॥२४॥ सांख्यमतं दूषयति । अव्यक्तति-नित्यं नित्यव्यापिस्वभावयोः नित्यं सततम् । नित्ययोः व्यापिस्वभावयोः अव्यक्तनरयोः प्रकृतिपुरुषयोः। विवेकेन प्रकृतेः पुरुषो भिन्न: इति ज्ञानं विवेकः तेन । ख्याति मुक्तिम् । सांख्यमुख्याः कपिलादयः । कथं प्रचक्षते ब्रुवन्ति । 'भप्रच्युतानुत्पनस्थिरैकस्वभावं कूटस्थनित्यम्' इति नित्यस्य लक्षणम् । कुटस्थनित्ये अर्थक्रिया न भवति । क्रमयोगपद्येनापि परिणामो न जायते । अतः पूर्वस्वरूपत्यागोऽन्यस्वरूपप्राप्तिश्च तयोन भवति । अतः तयोर्मुक्तिकल्पना व्यर्था ॥ २५ ॥
[पृष्ठ ७ ] नरात्म्यादिभावनातो मुक्तिरिति मतं निराकुरुते । सर्वमिति-सर्व वस्तु जीवादिकम् । भावनया शुभाशुभया तत्स्वरूपस्य पुनः पुनश्चेतसि चिन्तनेन । स्फुटं व्यक्तम् । भासेत ज्ञायेत । तावन्मात्रेण स्पष्टावलोकनेनैव । यदि मुक्तत्वे मोक्षप्राप्तौ। विप्रलम्भिनां वञ्चकानाम्, विरहिणां वा मुक्तिः स्यात् ॥२६॥ उक्तं च-पिहिते इति-कारागारे बन्धनालये । पिहिते कपाटनिरुद्धे सति । सूचीमुखाग्रनिर्भेदे सूचीमुखाग्रेण व्यधनीवदनाग्रेण निर्भेदे निर्गतो भेदो यस्य एवंविधे तमसि विद्यमाने । मयि च निमीलितनयने मयि च चौरे जारे वा पिहितलोचने सति । तथापि कान्ताननं व्यक्तम् कान्ताया रमण्याः मुखं व्यक्तं विशदतयाहम् अवलोकयामीत्यर्थः।।२७॥ अङ्गाराजनवच्चित्तशुद्धिन भवतीति अयुक्तम्-स्वभावेति-यत्र यस्मिन् । स्वभावान्तरसंभूतिः अन्यः स्वभावः स्वभावान्तरम् । पूर्वस्वभावत्यागः उत्तरस्वभावप्राप्तियोग्यता। सा यत्र अस्ति तत्र मलक्षयो भवति कतुं शक्यः । केभ्यः स भवेत् । स्वहेतुभ्य: स्वकारणतः । मणिमुक्ताफलेष्विव रत्नमौक्तिकेषु यथा मलनिर्मुक्तिर्जायते । तदहर्ज इति पद्यं व्याख्यायते-तच्च अहः तदहः तदहनि तद्दिने जायते स्मेति तदहर्ज: तद्दिनजातबालकः तस्य स्तनेहा स्तनपानाभिलाषः तस्मात् हेतोः अयम् आत्मा सनातनः नित्यः वर्तते । यदि क्षणिक आत्मा स्यातहि जातबालको जननक्षणे एव विनष्टोऽपरस्तत्स्थाने स्थितस्तस्य स्तनाभिलाषो जातः, एवं यदि कल्पना क्रियते तदा कृतनाशाकृताभ्यागमदोषो भवेताम् । अतस्तहिनजबालकस्तनाभिलाषतो हेतोः अभिलाषसंस्कारो न सद्यस्तनः स प्राक्तन एवेति अभ्युह्यताम् । अस्माद्धेतोश्च आत्मनः सनातनत्वं सिद्धयति । रक्षोदृष्टेः रक्षसो दर्शनात्-मानवो मृत्वा रक्षो जातः तस्य दर्शनात् आत्मा नित्यो मन्तव्यः। भवस्मृतेः-पूर्वभवे अहं देव आसम्, अधुना अहं मानवो. जात इत्यादि पूर्व भवस्य स्मरणात् सनातनत्वमात्मनः । भूतानन्वयनात्-चैतन्याख्यो गुणो भूतेषु पृथिव्यादिषु नोपलभ्यते स जीव एव विद्यते । तस्य भूतेषु अनुगमनम् अन्वयः स न दृश्यते । भूताननुगमनात् जीव: प्रकृतिज्ञः प्रकृति स्वभावं घटपटादीनां जानातीति प्रकृतिज्ञः आत्मा स च सनातनः अनादिनिधनः ज्ञेयः ॥२९॥ एवं परलोकिनोऽभावात् परलोकाभावे कस्यासौ मोक्षः इति चार्वाकमतं प्रतिविहितम् ॥ वेदान्तिनाम् अभेदवादो निरस्यते
[पृष्ठ ८] भेदोऽयमिति-मानवतिभिः प्रत्यक्षानुमानादिप्रमाणसिद्धः । जन्ममृत्युसुखप्रायः पुनरुत्पत्तिर्जन्म। प्राणापानादिक्रियाविशेषव्युच्छेदो मृत्युः मरणम् । प्रीतिरूपपरिणामः सुखम् । इत्यादि परिवर्त: पर्यायः अवस्थाभिः । जगतः त्रिलोकस्य । वैचित्र्यं नानाविधत्वम् कुतः स्यात् । यदि अयं भेदः अविद्या गोयेत मायेति कथ्येत । अतो जगतो वैचित्र्याद्भेदः सत्य एव ॥३०॥ शून्यवादिनां मतनिरसनम् । शून्यमितिअहं वादी शून्यं तत्त्वं प्रमाणतः प्रत्यक्षादिभ्यः साधयामि इति आस्थायां प्रतिज्ञायां तेन ( वादिना ) कृतायां सर्वशून्यता विरुध्येत । वादिनः साध्यसाधनादीनां च विद्यमानत्वात् अशून्यवाद एव सिध्येत् । कथं वादी शून्यवादं साधयेत् । वस्तुनि निजस्वरूपे अन्यवस्तुनः अभावो यदि तहिं तदपेक्षया शून्यत्वं न केनापि अवमन्येत । सर्वे भावाः परस्वभावेन रहितत्वाच्छ्न्या इत्यभ्युपगमः निर्दोष एव ॥३१॥ नवानां गुणानां नाशान्मुक्तिरिति काणादमतमुच्छिनत्ति-बोधो वेति-मुक्ती मोक्षे । आत्मनः भवोद्भवः संसारे जायमानः बोधः ज्ञानम् । इन्द्रियज्ञानम् । संसारोद्भवो वा आनन्द: इन्द्रियविषयसुखं वा । यदि नास्ति तहि अस्माकमपि जनानाम् अपि सिद्धसाध्यतया न काचिद्धानिः । वयमपि जैनाः मुक्तौ इन्द्रि यज्ञानसुख न स्तः इति मन्यामहे । एतदभिमतो नास्माकं काचित् हानिः अवलोक्यते ॥३२॥