________________
સમયસાર : આત્મખ્યાતિ
જીવના નથી સ્થિતિબંધ સ્થાનો, નથી સંક્લેશ સ્થાનો, નથી વિશુદ્ધિ સ્થાનો અને નથી સંયમલબ્ધિ
સ્થાનો. ૫૪
અને જીવના નથી જીવસ્થાનો અને નથી ગુણસ્થાનો, કારણકે આ સર્વેય પુદ્ગલ દ્રવ્યના પરિણામો
छे. पथ
आत्मख्याति टीका
जीवस्य नास्ति वर्णो नापि गंधो नापि रसो नापि च स्पर्शः । नापि रूपं न शरीरं नापि संस्थानं न संहननं ॥५०॥ जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ॥५१॥ जीवस्य नास्ति वर्गो न वर्गणा नैव स्पर्द्धकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥ ५२ ॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा । नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित् ॥५३॥ नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा । नैव विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा ॥ ५४ ॥ नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य । येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ॥ ५५ ॥
यः कृष्णो हरितः पीतो रक्तः श्वेतो वर्णः स सर्वोपि नास्ति जीवस्य ।
पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेन्नित्वात् ।
यः सुरभि दुरभि वो गंधः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यः कटुकः कषायः तिक्तोऽम्लो मधुरो वा रसः स सर्वोपि नास्ति जीवस्य ।
पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूतेत्वात् ।
यः स्निग्धो रूक्षः शीतः उष्णो गुरुर्लघुर्मृदुः कठिनो वा स्पर्शः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यत्स्पर्शादिसामान्यपरिणाममात्रं रूपं तन्नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यदौदारिकं वैकियिकमाहारकं तैजसं कार्मणं वा शरीरं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यत्समचतुरस्रं न्यग्रोधपरिमंडलं स्वाति कुब्जं वामनं हुंडं वा संस्थानं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यद्वज्रर्षभनाराचं वज्रनाराचं नाराचमर्द्धनाराचं कीलिका असंप्राप्तासृपाटिका वा संहननं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यः प्रीतिरूपो रागः स सर्वोपि नास्ति जीवस्य पुद्गलपरिणामयत्वे सत्यनुभूतिर्भिन्नत्वात् ।
३८