________________
४५६
षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
ઉત્તરપક્ષ (જૈન): શ્વાસોશ્વાસ ચાલુ રહેવાના ચૈતન્યની સાથે કોઈ અન્વય-વ્યતિરેક મળતા નથી. તેથી શ્વાસોશ્વાસસ્વરૂપ વાયુની ચૈતન્ય પ્રતિ હેતતા નથી. અર્થાત્ શ્વાસોશ્વાસસ્વરૂપ વાયુ ચૈતન્યનું કારણ નથી, કારણ કે મરણાવસ્થામાં પ્રચુરતર દીર્ઘશ્વાસોશ્વાસનો સંભવ હોવા છતાં પણ ચૈતન્યનો અત્યંત પરિક્ષય જોવા મળે છે તથા ધ્યાનમાં એકાગ્ર-બંધ લોચનવાળા, મનવચન-કાયાના યોગને સંવૃત્ત કરનાર, નિસ્તરંગ મહાસમુદ્રસમાન શ્વાસોશ્વાસનો નિરોધ કરનારા કોઈ યોગીને પણ પરમપ્રકર્ષ ચેતનાનો વિકાસ હોય છે. આથી શ્વાસોશ્વાસ ચાલુ રહેવાના ચૈતન્યની સાથે કોઈ અન્વય-વ્યતિરેક મળતા નથી. તેથી ચૈતન્ય શરીરનું કાર્ય નથી.
अथ तेजसोऽभावान्न मृतावस्थायां चैतन्यमिति चेत् ? तर्हि तत्र तेजस्युपनीते सति कथं न चेतनोपलभ्यते ?। किंच मृतावस्थायां यदि वायुतेजसोरभावेन चैतन्याभावोऽभ्युपगम्यते, तर्हि मृतशरीरे कियढेलानन्तरं समुत्पन्नानां कृम्यादीनां कथं चैतन्यम् ? ततो यत्किंचिदेतत् । किंच न चैतन्यं भूतमात्रकारणम् । तथा सति चैतन्यस्य भूतमात्रजन्यस्वभावत्वात् तेषामपि तज्जननस्वभावत्वात् सर्वदा सर्वत्र घटादौ पुरुषादिष्विव व्यक्तचैतन्योत्पादो भवेत, निमित्ताविशेषात । एवं च घटादिपुरुषयोरविशेषः स्यात् । ननु कायाकारपरिणामप्राणापानपरिग्रहवद्भ्यो भूतेभ्यश्चैतन्यमुपलभ्यत इति वचनान्न पूर्वोक्तोऽतिप्रसङ्गदोषावकाश इति चेत् ? तन्न, त्वन्मते कायाकारपरिणामस्यैवानुपपद्यमानत्वात् । तथाहि-स कायाकारपरिणामः किं पृथिव्यादिभूत, मात्रनिबन्धनः १ ? उत वस्त्वन्तरनिमित्तः २ ? उताहेतुकः ३ ? इति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः - पृथिव्यादिसत्तायाः सर्वत्र सद्भावात् सर्वत्रापि कायाकारपरिणामप्रसङ्गः । तथाविधसाम्यादिभावसहकारिकारणवैकल्यान्न सर्वत्र तत्प्रसङ्ग इति चेत् ? तन्न, यतः सोऽपि साम्यादिभावो न वस्त्वन्तरनिमित्तः, तत्त्वान्तरापत्तिप्रसङ्गात्, किंतु पृथिव्यादिसत्तामात्रनिमित्तः, अतस्तस्यापि सर्वत्राप्यविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति । अथ वस्त्वंतरनिमित्तः इति पक्षस्तदप्ययुक्तं, तथाभ्युपगमे जीवसिद्धिप्रसङ्गात् । अथाहेतुकः, तर्हि सदाभावादिप्रसङ्गः, “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्” [प्र. वा. -३।३४] इति वचनात् । तन्न त्वन्मते कायाकारपरिणामः संगच्छते । तदभावे तु दूरोत्सारितमेव प्राणापानपरिग्रहवत्त्व-ममीषां भूतानामिति, चैतन्यं न भूतकार्यमित्यतो जीवगुण एव चेतनेत्यभ्युपगन्तव्यम् ।