________________
षड्दर्शन समुशय भाग - २, श्लोक - ४७, जैनदर्शन
४३९
व्याख्या-चेतनालक्षणो जीवः १, तद्विपरीतलक्षणस्त्वजीवः २ । धर्माधर्माकाशकालपुद्गलभेदेन त्वसौ पञ्चधा व्यवस्थितः । अनयोरेव द्वयोर्जगद्वर्तिनः सर्वेऽपि भावा अन्तर्भवन्ति । नहि ज्ञानादयो रूपरसादयश्च द्रव्यगुणा उत्क्षेपणादीनि च कर्माणि सामान्यविशेषसमवायाश्च जीवाजीवव्यतिरेकेणात्मस्थितिं लभन्ते, तद्भेदेनैकान्ततस्तेषामनुपलम्भात्, तेषां तदात्मकत्वेन प्रतिपत्तेः, अन्यथा तदसत्त्वप्रसङ्गात् । बौद्धादिपरिकल्पितदुःखादितत्त्वानि जीवाजीवाभ्यां पृथग्जात्यन्तरतया न वक्तव्यानि, जीवाजीवराशिद्वयेन सर्वस्य जगतो व्याप्तत्वात, तदव्याप्तस्य शशशृङ्गतुल्यत्वात् । तर्हि पुण्यपापास्रवादीनामपि ततः पृथगुपादानं न युक्तिप्रधानं स्यात्, राशिद्वयेन सर्वस्य व्याप्तत्वादिति चेत् ? न, पुण्यादीनां विप्रतिपत्तिनिरासार्थत्वात्, आस्रवादीनां सकारणसंसारमुक्तिप्रतिपादनपरत्वाद्वा पृथगुपादानस्यादुष्टता । यथा च संवरनिर्जरयोर्मोक्षहेतुता, आस्रवस्य बन्धननिबन्धनत्वं, पुण्यापुण्यद्विभेदबन्धस्य च संसारहेतुत्वं तथागमात्प्रतिपत्तव्यम् । तत्र पुण्यं शुभाः कर्मपुद्गलाः ३ । त एव त्वशुभाः पापं ४ । आस्रवति कर्म यतः स आस्रवः कायवाङ्मनो व्यापारः, पुण्यापुण्यहेतुतया चासौ द्विविधः ५ । आस्रवनिरोधः संवर; गुप्तिसमितिधर्मानुप्रेक्षादीनां चास्रवप्रतिबन्धकारित्वात्, स च द्विविधः सर्वदेशभेदात् ६ । योगनिमित्तः सकषायस्यात्मनः कर्मवर्णणापुद्गलैः संश्लेशविशेषो बन्धः, स च सामान्येनैकविधोऽपि प्रकृतिस्थित्यनुभागप्रदेशभेदेन चतुर्धा, पुनरेकैको ज्ञानावरणादिमूलप्रकृतिभेदादष्टधा, पुनरपि मत्यावरणादितदुत्तरप्रकृतिभेदादनेकविधः । अयं च कश्चित्तीर्थकरत्वादिफलनिवर्तकत्वात्प्रशस्तः, अपरश्च नारकादिफलनिर्वर्तकत्वादप्रशस्तः, प्रशस्ताप्रशस्तात्मपरिणामोद्भूतस्य कर्मणः सुखदुःखसंवेदनीयफलनिर्वर्तकत्वात् ७ । आत्मसंपृक्तकर्मनिर्जरणकारणं निर्जरा द्वादशविधतपोरूपा । सा चोत्कृष्टा शुक्लध्यानरूपा “तपसा निर्जरा च" [तत्त्वार्थाधिगम० ९, ३] इति वचनात्, ध्यानस्य चान्तरतपोरूपत्वात् ९ । विनिर्मुक्ताशेषबन्धनस्य प्राप्तनिजस्वरूपस्यात्मनो लोकान्तेऽवस्थानं मोक्षः, 'वन्धविप्रयोगो मोक्षः' इति वचनात् ९ । एतानि नवसंख्यानि तत्त्वानि तन्मते-जैनमते ज्ञातव्यानि । ટીકાનો ભાવાનુવાદ :
ચૈતન્ય (ચેતના) જીવનું લક્ષણ છે. અચૈતન્ય અજીવનું લક્ષણ છે. અજીવના પાંચ પ્રકાર છે. (१) मस्तिय, (२) अपमास्तिय, (3) 4051स्ति.51य, (४) 51., (५) पु स्ति .tu.
આ જીવ અને અજીવ, બે જ તત્ત્વોમાં જગવર્તી સઘળાયે ભાવો (પદાર્થો)નો અંતર્ભાવ થઈ જાય છે.