________________
८६८
षड्दर्शन समुच्चय, भाग - २, परिशिष्ट - २ लघुवृत्ति - जैमिनीयमत
चागमः, सर्वज्ञस्यासिद्धत्वेन तस्यापि विवादास्पदत्वात् । न चोपमानम् तदभावादेव । अर्थापत्तिरपि न; सर्वज्ञसाधकस्यान्यथानुपपन्नलिङ्गस्यादर्शनात् । यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम् । प्रयोगश्चात्र-नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशश्रृङ्गवदिति । अथ कथं यथावस्थिततत्त्वनिर्णय इत्याह -
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः ।
नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ।।६९।। तस्मात्प्रामाणिकपुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्टुर्जातुः सर्वज्ञादेः पुरुषस्याभावाद् नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथार्थत्वविनिर्णयो यथावस्थितपदार्थधर्मादिस्वरूपविवेचनं भवति' इत्याध्या-हारः । अपौरुषेयत्वं च वेदानाम् -
___ "अपाणिपादो ह्यमनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।।
स वेत्ति विश्वं न च तस्य वेत्ता तमाहुरग्न्यं पुरुषं महान्तम् ॥" [ ] इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीयमिति । अथ यथावस्थितार्थव्यवस्थापकं तत्त्वोपदेशमाह -
अत एव पुरा कार्यों वेदपाठः प्रयत्नतः ।
ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ।।७।। यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयः, अत एव पुरा पूर्व प्रयत्नतो यत्नाद्वेदपाठ: कार्य: 'ऋग्यजुः सामाथर्वाणो वेदास्तेषां पाठः कण्ठपीठलुठत्पाठप्रतिष्ठा, नानुश्रवणमात्रेण सम्यगवबोधस्थिरता, ततोऽनन्तरं साधनीयपुण्योपचयहेतुधर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्तव्या विधेया वेदोक्ताभिधेयविधाने यतितव्यमित्यर्थः । वेदोक्तधर्मोपदेशमेवाह -
नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति ।
प्रवर्तकं वचः, प्राहुः स्व:कामोऽग्निं यजेद्यथा ।।७१।। नोदनैव लक्षणं यस्य न नोदनालक्षणो धर्मः । तत्स्वरूपमेव सूत्रकृदाह । तु पुन नोंदनाक्रियां प्रति प्रवर्तकं वचः प्राहुः । वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदनामाहुरित्यर्थः । शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह - स्वःकामो-ऽग्निं यजेद्यथा । यथा येन प्रकारेण स्व:कामः स्वर्गाभिलाषी जनोऽग्निं यजेद् अग्निकार्यं कुर्यात् । यथाऽहुस्तत्सूत्रम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति । प्रमाणान्याह -
प्रत्यक्षमनुमानं च शब्दचोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ।।७२।।