________________
षड्दर्शन समुद्यय, भाग - २, परिशिष्ट - २ अवचूर्णि- बौद्धमत
८६९
जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति संबन्धः । यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाहानामेव षट्, तथाप्यत्र ग्रन्थकृत्सामान्यतः षट्संख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव । निरुक्तमाह -
तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः ।
आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ।।७३।। तत्र प्रमाणषट्के, अक्षाणामिन्द्रियाणां, संप्रयोगे पदाथैः सह संयोगे, सतामनुपहितेन्द्रियाणां या मतिर्बुद्धिरिदमित्यवबोधः, तत्प्रत्यक्षं प्रमाणं भवति' इत्यध्याहारः । यत्तदावनुक्ताप्यर्थसंबन्धात् ज्ञेयौ । सतामिति-विदुषामदुष्टेन्द्रियाणामित्यर्थः । एतावता मरुमरीचिकायां जलभ्रमः, शुक्तौ रजतभ्रमश्चेन्द्रियार्थसंप्रयोगजोऽपि द्रष्टुरविकलेन्द्रियत्वाभावान्न प्रत्यक्षं तत्प्रमाण-कोटिमधिशेते । अनुमानमाह - आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः । आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः । अनुमानलैङ्गिकयोः शाब्दभेदेऽप्यनुमीयत इत्यनुमानं लिङ्गाज्जातं लैङ्गिकमिति व्युत्पत्तिभेदाढ़ेदो ज्ञेय उभयशब्दकथनं तु बालावबोधार्थमेवेति ।
शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् ।
प्रसिद्धार्थस्य साधादप्रसिद्धस्य भाजनम् ।।७४ ।। शाब्दमागमप्रमाणं शाश्वतवेदोत्थं शाश्वतानित्याद्वेदाज्जातम् । आगमप्रमाणमित्यर्थः । शाश्वतत्वं च वेदानामपौरुषेय-त्वादेव । उपमानमाह - यत्प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधर्म्यात् साम्यादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाणं प्रकीर्तितं कथितम् । यथा प्रसिद्धगोगवयस्वरूपो वनेचरोऽप्रसिद्धगवयस्वरूपं नागरिकं प्राह - 'यथा गौस्तथा गवयः' इति । यथा भाः खुरककुदलालसास्नादिमन्तं पदार्थं गामिति जानासि, गवयोऽपि तथास्वरूपो ज्ञेय इत्युपमानम् । अत्र सूत्रानुक्तावपि यत्तदावर्थसंबन्धार्थमध्याहार्यो । अर्थापत्तिमाह -
दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना ।
क्रियते यदलेनासावपत्तिरुदाहता ।।७५।। असौ पुनरर्थापत्तिरुदाहता कथिता, अर्थापत्तिप्रमाणं प्रोक्तमित्यर्थः । यद्वलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते संघटना विधीयते, कया दृष्टार्थानुपपत्त्या दृष्टः परिचितः प्रत्यक्षलक्ष्यो योऽर्थो देवदत्ते पीनत्वादिः तस्यानुपपत्त्या अघटमानतया अन्यथानुपपत्त्या इत्यर्थः । यथा पीनो देवदत्तो दिवा न भुङ्क्ते, पीनत्वस्यान्यथानुपपत्त्या रात्राववश्यं भुत इत्यर्थ इत्यत्र, दृष्टं पीनत्वं विना भोजनं दुर्घट, दिवा च न भुते, अतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापत्तिः प्रमाणम् ।
अथाभावप्रमाणमाह -