________________
षड्दर्शन समुझय, भाग - २, परिशिष्ट - २ लघुवृत्ति - जैमिनीयमत
८६७
समस्तलोकशाखकमत्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ।। उपपादयितुं तैस्तैर्मतैरशङ्कनीययोः ।।
अनिर्वक्तव्यतावादपादसेवागतिस्तयोः । इत्यादिप्रलयकालानिलक्षुभितचरमसलिलराशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधकहेतूपन्यासा: प्रोच्छलन्तश्चतुर-चमत्कारं जनयन्तः क्व पर्यवस्यन्ति तास्तु युक्तयः सूत्रकृतानुल्लिङ्गितत्वाद् ग्रन्थविस्तरभयाञ्च नेह प्रपञ्यन्ते, अभियुक्तैस्तु खण्डनमहातांदवसेयाः । पूर्वमीमांसावादिनश्च द्विधा प्राभाकरा भाटाश्च क्रमेण पञ्चषट्प्रमाणप्ररूपकाः । अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान् । ते पुनजैमिनीयाः, प्राहुः कथयन्ति, कथमित्याह - सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्य वचो वचनं मानं प्रमाणं भवेत् । सर्वज्ञादिविशेषेण इति । सर्वज्ञादिना गुणेन विशेष्य इति । आदिशब्दाद्विभुत्वनित्यत्वचिदात्मकत्वादिगुणविशिष्टः कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेत्, मानुषतनुत्वाविशेषेण विप्रलम्भकत्वाद् दुष्टपुरुषवत् । सर्वज्ञादिगुणविशिष्टपुरुषाद्यभाव इत्यर्थः । अथ किङ्करायमाणसुरासुरसेव्यमानताद्युपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभूत्यन्यथानुपपत्तेश्चास्ति कश्चित् पुरुषविशेषः सर्वज्ञ इति चेत्; त्वयूथ्योक्तवचनप्रपञ्चो-पन्यासैरेव निरस्तत्वात् । यथा -
"देवागमनभोयानचामरादिविभूतयः ।
मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।" [ ] __ अथ यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया शोध्यमानस्य निर्मलत्वमेवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात्(त्वं) किं न संभवेदिति मतिः, तदपि न ह्यभ्यासमात्रसाम्ये शुद्धरपि तदेव तादवस्थ्यम् । यदुक्तम् -
"गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससंभवे ।
समानेऽपि समानत्वं लङ्घनस्य न विद्यते ।।" [ ] न च सुतरां चरणशक्तिमानपि पङ्गुरखर्वपर्वतशिखरमधिरोढुं क्षमः । उक्तं च -
"दशहस्तान्तरं व्योनो यो नामोत्प्त्य गच्छति ।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि ।।" अथ मा भवतु मानुषस्य सर्वज्ञत्वं ब्रह्मविष्णुमहेश्वरादीनामस्तु । ते हि देवाः, संभवत्यपि तेष्वतिशायिसंपत् । यदाह कुमारिल: -
"अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः ।
कामं भवन्तु सर्वज्ञाः सार्वज्यं मानुषस्य किम् ॥" एतदपि न; रागद्वेषमूलनिग्रहानुग्रहग्रस्तानामसंभाव्यमिदमेषामिति । न च प्रत्यक्षं तत्साधकम्, 'संबद्धं वर्तमानं च गृह्यते चक्षुरादिना' [ ] इति वचनात् । न चानुमानम्, प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः । न