________________
८४०
षड्दर्शन समुझय, भाग - २, परिशिष्ट - २ लघुवृत्ति - नैयायिकमत
वादगोचरो न भवति । इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः । तावञ्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः । उक्तं च -
"तावदेव चलत्यर्थो मन्तुर्गोचरमागतः ।
यावत्रोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ॥" एष दृष्टान्तो ज्ञेयः । सिद्धान्तः पुनश्चतुर्भेदो भवेत् । कथमित्याह - सर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेद: । आदिशब्दा-द्भेदत्रयमिदं ज्ञेयम् । यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । अमी चत्वारः सिद्धान्तभेदाः । नाममात्रकथनमिदम्, विस्तरग्रन्थेभ्यस्तु विशेषो ज्ञेयः ।।२६।। अवयवादितत्त्वत्रयस्वरूपमाह -
प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ।।२७।। यथा काकादिसंपापात् स्थाणुना भाव्यमत्र हि ।
ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ।।२८।। अवयवाः पञ्चेति संबन्धः । पूर्वार्द्धमाह - प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति पञ्चावयवाः । तत्र प्रतिज्ञा पक्षः, कृशानुमानयं सानुमानित्यादि । हेतुर्लिङ्गवचनम्, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणवचनम्, यो यो धूमवान् स स वह्रिमान् यथा महानसप्रदेश इत्यादि । उपनयो हेतोरुपसंहारकं वचनम्, धूमवांश्चायमित्यादि । निगमनं हेतूपदेशेन पुनः साध्यधर्मोप-संहरणं तस्माद्वह्निमानित्यादि । इति पञ्चावयवस्वरूपनिरूपणम्, इति अवयवतत्त्वं ज्ञेयमिति । तर्कः संशयोपरमो भवेत् । यथा काकेत्यादि । दूरादृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुर्वा पुरुषो वेति संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्त्वं स्यात् । कथमित्याह - यथेति । दूरादूर्ध्वस्थं पदार्थं विलोक्य स्थाणुपुरुषोः संदिहानोऽवहितीभूय विमृशति । काकादिसंपातादादिशब्दावल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः । वायसप्रभृतिसंबन्धादत्र स्थाणुना भाव्यं कीलकेन भवितव्यम् । पुरुषे हि शिर:कम्पनहस्तचालनादिभिः काकपातानुपपत्तेः । एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति । ऊर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यामूर्ध्वमुत्तरं यः प्रत्ययः, स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णय: निर्णयनामा तत्त्वविशेषो ज्ञेयः । यत्तदावर्थसंबन्धादनुक्तावपि ज्ञेयौ ।।२८।। वादतत्त्वमाह -
आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् ।
यः कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ।।२९।। असौ वाद उदाहृतः कथितस्तज्ज्ञैरित्यर्थः । यः कः । इत्याह - कथाभ्यासहेतुः । कथा प्रामाणिकी तस्या