________________
षड्दर्शन समुझय, भाग - २, परिशिष्ट - २ लघुवृत्ति - नैयायिकमत
८४१
अभ्यासहेतुः कारणम् । कयोः आचार्यशिष्ययोः । आचार्यो गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति । कस्मात् । पक्षप्रतिपक्षपरि-ग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादि परिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञादिप्रतिपन्थिकोपन्यासप्रौढिः तयोः परिग्रहात्संग्रहादित्यर्थः । आचार्य: पूर्वपक्षमङ्गीकृत्याचष्टे । शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षं खण्डयति । एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्षतया अभ्यासनिमित्तम् । पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो ज्ञेयः ।।२९।। . अथ तद्विशेषमाह -
विजिगीषुकथायां तु च्छलजात्यादिदूषणम् ।
स जल्पः सा वितण्डा तु या प्रतिपक्षविवर्जिता ।।३०।। स जल्प इति संबन्धः । यत् तु विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठ्यां सत्यां छलजात्यादिदूषणम् । छलं त्रिप्रकारम् - वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति, जातयश्चतुविंशतिभेदाः, आदिशब्दा-निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तपक्षादेर्दूषणजालमुत्पाद्य निराकरणम् । अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याधुपन्यासैः परप्रयोगस्य दूषणोत्पादनम् । तथा चोक्तम् -
"दुःशिक्षितकुतांशलेशवाचालिताननाः । शक्या: किमन्यथा जेतुं वितण्डा दोषमण्डिताः ।। गतानुगतिको लोकः कुमार्ग तत्प्रतारितः ।
मा गादिति च्छलादीनि प्राह कारूणिको मुनिः ।।" इति । संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपक्षस्थापनमनुमतम् । परविजये हि धर्मध्वंसादिदोषसंभवस्तस्माद्वरं छलादि-भिरपि जयः । सा वितण्डा तु या प्रतिपक्षविवर्जिता । सा पुनर्वितण्डा, या । किम् । विजिगीषुकथेव प्रतिपक्षविवर्जिता । वादिप्रयुक्तपक्षप्रतिरोधकः प्रतिवाद्युपन्यासः प्रतिपक्षस्तेन विवर्जिता रहितेति प्रतिपक्षसाधनविहीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किञ्चिद्वादेन परोक्तमेव दूषयतीत्यर्थः ।।३०।।
हेत्वाभासा असिद्धाद्याच्छलं कूपो नवोदकः ।
जातयो दूषणाभासा: पक्षादिर्दूष्यते न यैः ।।३१।। हेत्वाभासा ज्ञेया इति । के ते । इत्याह - असिद्धाद्याः, असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः । विपक्षे सन् सपक्षे चासन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षानुमानागमविरुद्धपक्षप्रवृत्तिः कालात्ययापदिष्टः । विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः । उदाहरणानि स्वयमभ्यूह्यानि ।