________________
षड्दर्शन समुच्चय, भाग - २, परिशिष्ट - २ लघुवृत्ति नैयायिकमत
प्रसिद्ध वस्तुसाधर्म्यादिप्रसिद्धस्य साधनम् । उपमानं तदाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥
-
तदुच्यमानमुपमानमाख्यातं कथितम् । यत्तदोर्नित्यसंबन्धात् । यत्किंचित् अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापनं क्रियते । प्रसिद्धधर्मसाधर्म्यादिति, प्रसिद्धा (द्धः) आबालगोपालाङ्गनाविदितोऽसौ धर्मोऽसाधारणलक्षणं तस्य साधर्म्यं समानधर्मत्वं तस्मादित्युपमानमाख्यातम् । दृष्टान्तमाह यथा गौर्गवस्तथेति । यथा कश्चिदरण्यवासी नागरिकेण कीदृग्गवय इति पृष्टः, स च परिचितगोगवयलक्षणो नागरिकं प्राह यथा गौस्तथा गवयः, खुरककुदलाङ्गूलसास्त्रादिमान् यादृशो गौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इत्यर्थः । अत्र प्रसिद्धो गौस्तत्साधर्म्यादप्रसिद्धस्य गवयस्य साधनमिति ।। २३ ।।
उपमानं व्यावर्ण्य शब्दप्रमाणमाह
-
-
८३९
शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् ।
प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि च ।। २४ ।।
तु पुनराप्तोपदेशः शाब्दम् । अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्गया मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः । अथ प्रमेयलक्षणमाह - 'प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति' प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः । तच्च नैयायिकसूत्र आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्ति-दोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविध सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मेरात्मा प्रमीयते । एवं देहादयोऽपि प्रमेयता ज्ञेयाः 1 अत्र तु ग्रन्थविस्तारभयान्न प्रपञ्चिता इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाचेति ।। २४ ।।
1
तत्र
संशयादिस्वरूपमाह
किमेतदिति संदिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ।। २५ । ।
-
-
दूरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राह- किमेतदिति । एतत्किं स्थाणुर्वा पुरुषो वेति यः संदिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः संमतः तच्छासन इति । प्रयोजनमाह तत्तु तत्पुनः प्रयोजनं नाम तत्त्वं यत्किमित्याह - अर्थित्वात्प्राणी साध्यं कार्यं प्रति प्रवर्तते । प्रतीत्यध्याहार्यम् । न हि निष्फलकार्यारम्भ इत्यर्थित्वादुक्तम् । एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ।। २५ ।।
दृष्टान्तस्तु भवेदेष विवादविषयो न यः ।
सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ।। २६ ।।
व्याख्या - तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् । यत्किमिति । विवादविषयो नयः यस्मिन्नुपन्यस्ते वचने
I