________________
८३८
षड्दर्शन समुशय, भाग - २, परिशिष्ट - २ लघुवृत्ति - नैयायिकमत
रोलम्बगवलव्यालतमालमलिनत्विषः ।
वृष्टिं व्यभिचरन्तीह नैवंप्राया: पयोमुचः ।।२०।। यथेति दृष्टान्तकथारम्भे । रोलम्बाः भ्रमराः, गवलं माहिषं श्रृङ्गम्, व्याला गजाः, सर्पा वा, तमाला वृक्षविशेषाः, सर्वेऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवंप्राया एवंविधाः पयोमुचो मेधा वृष्टिं न व्यभिचरन्तीति । एवंप्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादि - विशेषा ज्ञेयाः । यदुक्तम् -
"गम्भीरगर्जितारम्भनिर्भिनगिरिगहराः ।" तुगत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ।।" (न्याय म०)
इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ।।२०।। शेषवन्नामधेयं द्वितीयमनुमानभेदमाह -
कार्यात्कारणानुमानं यश तच्छेषवन्मतम् ।
तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ।।२१।। __ यत्कार्यात् फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवदनुमानं मतं कथितं नैयायिकशासने । यथा तथाविधनदीपूरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसंभारभरितो यो नदीपूरः, सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेषवत् । अत्र कार्य नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति । उक्तं च नैयायिकैः -
"आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाङ्कितः ।। वहद्बहुलशेवालफलाशाइवलसंकुलः ।
नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ।।" [ ] इति ।।२१।। तृतीयानुमानमाह -
यञ्च सामान्यतो दृष्टं तदेवं गतिपूर्विका ।
पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ।।२२।। चः पुनरर्थे । यत् सामान्यतो दृष्टमनुमानं तदेवममुना वक्ष्यमाणप्रकारेण । यथा पुंसि पुरुषे देवदत्तादौ देशान्तरप्राप्तिगति-पूर्विका । एकस्माद्देशान्तरगमनं गमनपूर्वकमित्यर्थः । यथोज्जयिन्याः प्रस्थितो देवदत्तो माहिष्मती पुरीं प्राप्तः । सूर्येऽपि सा तथेति, यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसारणाभावेन गतिर्नोप-लभ्यते, तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बनं गतिं सूचयति । एवं सामान्यतोदृष्टमनुमानं ज्ञेयमित्यर्थः ।।२२।। अथ क्रमायातमपि शाब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्ष्यादावुपमानलक्षणमाह -