________________
षड्दर्शन समुझय, भाग - २, परिशिष्ट - २ लघुवृत्ति - नैयायिकमत
बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः ।
नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ।।१२।।
अयं संक्षेपो निवेदितः कथितः निष्ठां नीत इत्यर्थः । कस्य । बौद्धराद्धान्तवाच्यस्य बौद्धानां राद्धान्तः सिद्धान्तस्तत्र वाच्योऽभिघातव्योऽर्थस्तस्य । इतोऽनन्तरं नैयायिकमतस्य शैवशासनस्य कथ्यमानो निशम्यतां संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ।।१२।।
[ नैयायिकमत ]
तदेवाह
८३५
आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः । ।१३।।
आक्षपादा नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः । स कथंभूतः । सृष्टिसंहारकृत् सृष्टिः प्राणिनामुत्पत्तिः, संहारस्तद्विनाशः, सृष्टिश्च संहारश्चेति द्वन्द्वः तौ करोतीति क्विपितोऽन्तः । तथा हि । अस्य प्रत्यक्षोपलक्ष्य-माणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्य: पुरुष: स्रष्टा ज्ञेयः । केवलसृष्टौ च निरन्तरोत्पद्यमानापार - प्राणिगणस्य भुवनत्रयेऽप्यमातृत्वमिति संहारकर्तापि कश्चिदभ्युपगन्तव्यः । यत्प्रमाणम् सर्वं धरणिधरणीधरतरुपुर- प्राकारादिकं बुद्धिमत्पूर्वकम्, कार्यत्वात्, यद्यत् कार्यं तत्तद्बुद्धिमत्पूर्वकं यथा घटः, कार्यं चेदम्, तस्माद् बुद्धिमत्पूर्वकमिति प्रयोगः । स च भगवानीश्वर एवेत्यर्थः । व्यतिरेके गगनम् । न चायमसिद्धो हेतु:, भुभूधरादीनां स्वकारणकलापजन्यत्वेना-वयवितया वा कार्यत्वस्य जगत्प्रसिद्धत्वात् । नापि विरुद्धानैकान्तिकदोषौ; विपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययाप-दिष्टः, प्रत्यक्षानुमानोपमानागमाबाध्यमानधर्मधर्मित्वात् । नापि प्रकरणसमः, तत्परिपन्थिपदार्थस्वरूपसमर्थनः प्रथितप्रत्यनु-मानोदयाभावात् । अथ निर्वृतात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्तेश्वर इति प्रत्यनुमानोदयात् कथं प्रकरणसम - दूषणाभाव इति चेत्; उच्यते; अत्र साध्यमान ईश्वररूपो धर्मी प्रतीतः अप्रतीतो वानुमन्यते सुहृदा । अप्रतीतश्चेत्; भवत्परि-कल्पितहेतोरेवाश्रयासिद्धदोषप्रसङ्गः । प्रतीतश्चेत्; तर्हियेनैव प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाभ्युपगम्यत इति कथमशरीरत्वम् । अतो न दुष्टो हेतुरिति साधूक्तं सृष्टिसंहारकृच्छिवः ।
तथा विभुः सर्वव्यापकः । एकनियतस्थानवृत्तित्वे ह्यनियतप्रदेशनिष्ठितानां पदार्थानां प्रतिनियतयथावन्निर्माणानुपपत्तेः । न ह्येकस्थानस्थितः कुम्भकारोऽपि दूरदूरतरघटघटनायां व्याप्रियते 1 तस्माद्विभुर्भगवान् । तथा नित्यैकः । नित्यश्चासावेक-श्चेति । यतो नित्योऽत एव एकोऽप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम् । भगवतो ह्यनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षतया कृतकत्वप्राप्तिः । स्वोत्पत्तावपेक्षितपरव्यापारो हि भावः कृतक इष्यत इति । अथ चेत् कश्चिज्जगत्कर्तारमपरमभिदघातिः, स एवानुयुज्यते । सोऽपि नित्योऽनित्यो