________________
षड्दर्शन समुशय, भाग - २, परिशिष्ट - २ लघुवृत्ति - बौद्धमत
प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ।।९।। पृथक्पृथग्दर्शनापेक्षलक्षणसांकर्यभीरु कीदृक् प्रत्यक्षमत्र ग्राह्यमित्याशङ्कायामाह -
प्रत्यक्ष कल्पनापोढमभ्रान्तं तत्र बुध्यताम् ।
त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ।।१०।। तत्र प्रमाणोभय्यां प्रत्यक्षं बुद्ध्यतां ज्ञायतां शिष्येणेति । किंभूतं कल्पनापोढं शब्दसंसर्गवती प्रतीतिः कल्पना, तयापोढं रहितं निर्विकल्पकमित्यर्थः । अन्यञ्चाभ्रान्तं भ्रान्तिरहितं रगरगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्षं निर्विकल्पकम-भ्रान्तं च तद् घटपटादिबाह्यस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम् । तञ्च बाह्यस्थूलार्थानां तत्तन्मतानुमानोपपत्तिभि-निराकरिष्यमाणत्वात् । नीलाकारपरमाणुस्वरूपस्यैव तात्त्विकत्वात् ।
ननु यदि बाह्यार्था न सन्ति, किंविषयस्तयं घटपटशकटादि बाह्यस्थूलप्रतिभास इति चेत् निरालम्बन एवायमनादि-वितथवासनाप्रवर्तितो व्यवहाराभासो निर्विषयत्वादाकाशकेशवत्स्वप्रज्ञानवद्वेति । यदुक्तम् -
"नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ।" [ ] इति । "बाह्यो न विद्यते गर्थो यथा बालेर्विकल्प्यते ।। वासनालुठितं चित्तमर्थाभासे प्रवर्तते ।" [ ] इति ।
तदुक्तम् - निर्विकल्पमभ्रान्तं च प्रत्यक्षम् ।। ] इति । अनुमानलक्षणमाह - तु पुनः त्रिरूपात् पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपाल्लिङ्गतो धूमादेरुपल क्षणाद्यल्लिङ्गिनो वैश्वानरादेर्ज्ञानं तदनुमानसंज्ञितमनुमानप्रमाणमित्यर्थः । सूत्रे लक्षणं नान्वेषणीयमिति चरमपादस्य नवाक्षरत्वेऽपि न दोष इति ।।१०।। रूपत्रयमेवाह -
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता ।
विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यन्ताम् ।।११।। हेतोरनुमानस्य त्रीणि रूपाणि विभाव्यन्तामिति संबन्धः । तत्र पक्षधर्मत्वमिति । साध्यधर्मविशिष्टो धर्मी पक्षः । यथा 'पर्वतोऽयं वह्निमान् धूमवत्त्वात्' अत्र पर्वतः पक्षः, तत्र धर्मत्वम् । धूमवत्त्वं वह्रिमत्त्वेन व्याप्तं धूमोऽग्निं न व्यभिचरतीत्यर्थः । सपक्षे सत्त्वमिति यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः । अत्र धूमवत्त्वेन हेतुना सपक्षे महानसे (विद्यमानता) सत्त्वं वह्निमत्त्वमस्तीत्यर्थः । विपक्षे नास्तितेति यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये । जलाशये हि वह्निमत्त्वं व्यावर्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते इति एवं प्रकारेण हेतोः अनुमानस्य त्रीणि रूपाणि ज्ञायन्तामित्यर्थः ।।११।।
उपसंहरनाह -