________________
८३६
षड्दर्शन समुश्चय, भाग- २, परिशिष्ट - २ लघुवृत्ति - नैयायिकमत
वा । नित्यश्चेत्; अधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत् तस्याप्यन्येनोत्पाद-कान्तरेण भाव्यमनित्यत्वादेव तस्याप्यन्येनेति नित्यानित्यवाद-विकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः । तस्मानित्य एव भगवान् । अन्यञ्च, एकोऽद्वितीयो बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृशमतिव्यापारतयैकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्ज-समापद्यतेति भगवानेक एवेति युक्तियुक्तं नित्यैकेति विशेषणम् ।
तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता । सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोगयोग्यजगत्प्रसमरविप्रकीर्ण-परमाणुकणप्रचयसम्यक्सामग्रीमीलनाक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा । सर्वज्ञश्च सन् सकलप्राणिनां संमीलितसमुचितकारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाण: स्वार्जितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं च ददानः केषां नाभिमतः । तथा चोक्तम् -
"ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा।।
अज्ञो जन्तुरनीशोऽयमात्मन: सुखदुःखयोः ।।"[ ] इति । भूयोऽपि विशेयन्नाह 'नित्यबुद्धिसमाश्रयः' इति शाश्वतबुद्धिस्थानम् । क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्यकर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति । ईदृग्गुणविशिष्टः शिवो नैयायिकमतेऽभ्युपगन्तव्यः ।।१३।। अथ तत्त्वानि प्ररूपयन्नाह -
तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ।।१४।। दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयो । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ।।१५।। जातयो निग्रहस्थानान्येषामेवं प्ररूपणा।
अर्थोपलब्धिहेतुः स्यात्प्रमाणं तञ्चतुर्विधम् ।।१६।। अमुत्रास्मिन् प्रस्तुते नैयायिकमते षोडश तत्त्वानि प्रमाणादीनि प्रमाणप्रभृतीनि । तद्यथेति । बालावबोधाय नामान्यप्याह -प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वादजल्प-वितण्डा-हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसिद्धिरिति षोडश । एषामेवं प्ररूपणेति । तत्त्वानामेवम् अमुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः ।।
अथैकैकस्वरूपमाह । तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह - अर्थोपलब्धिहेतुः प्रमाणं स्यात् । अर्थस्य पदार्थस्योपलब्धि-ज्ञानं तस्य हेतुः कारणं प्रमाणं स्याद् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहानस्य संख्यामुपदिशन्नाह-तञ्चतुर्विधमिति । तत्प्रमाणं चतुर्विधं ज्ञेयमिति ।।१४-१६।।