________________
षड्दर्शन समुच्चय, भाग - २, परिशिष्ट - १
एतावानेव लोकोऽयं यावनिन्द्रिय-गोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः । । १६० ।।
पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तत्र ते ।
न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ।।१६१ । ।
पृथ्वी जलं तथा तेजो, वायुर्भूतचतुष्टयम् । प्रमाणभूतिरेतेषां मानं त्वक्षजमेव हि ।। १६२ ।।
पृथ्व्यादिभूतसंहत्यां, तथा देहादिसङ्गतिः । मदशक्तिः सुराङ्गेभ्यो, यद्वत् तद्वचिदात्मता । । १६३ ।। तस्माद् दृष्टपरित्यागाद्, यददृष्टे प्रवर्त्तनम् । तद्धि लोकस्य मूढत्वं, चार्वाकाः प्रतिपेदिरे ।।१६४ ।।
क्रमेण खण्डनं तेषां जीवस्तावत्प्रपद्यताम् ।
अहं दुःखी सुखी चाहमिति प्रत्यययोगतः । । १६५ ।।
घटं वेदम्यहमित्यत्र त्रितयं प्रतिभासते ।
कर्म क्रिया च कर्त्ता च तत्कर्त्ता किं निषिध्यते ? ।।१६६ ।। शरीरमेव चेत्कर्तृ, न कर्तृ तदचेतनम् । भूतचैतन्ययोगा, चेतनं तदसङ्गतम् ।।१६७।।
या दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येककर्तृका भावा, भूतचिद्वादिनः कथम् ? ।। १६८ ।। स्वसंवेदनतः सिद्धे, स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते । । १६९ ।।
बुद्धिपूर्वा क्रिया दृष्टा, स्वदेहेऽन्यत्र तद्गतिः । प्रमाणबलतः सिद्धा, केन नाम निवार्यते ? ।।१७० ।।
तत्परलोकिनः सिद्धी, कर्मबन्धो न दुर्घटः । विचित्राध्यवसायस्यः, स हि बघ्नात्यनादितः । । १७१ । ।
पुण्यपापमयं कर्म, चीयते वाऽपचीयते ।
तद्वशात् सुखदुःखानि, न तु यादृच्छिकान्यहो ! ।। १७२ ।।
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः । । १७३ ।।
८२७