________________
८२८
षड्दर्शन समुझय, भाग-२, परिशिष्ट - १
स्तन्यपानाभिलाषो यत्, प्रथमं बालके भवेत् । पूर्वजन्माभ्यासतोऽसौ, तस्मिन् जन्मन्यशिक्षणात् ।।१७४ ।। तस्मात्रास्तिकवाक्येषु, रतिः कर्तुं न युज्यते । आत्मा ज्ञानी कर्ममुक्तः, परलोकी च बुध्यताम् ।।१७५।। स चाष्टाङ्गेन योगेन कर्मोन्मूल्य समन्ततः । आप्नोति मुक्तिं तत्रोबैरानंदं स्वादयत्यहोः ।।१७६।। सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः स केवलज्ञानदर्शनो मोदते मुक्तः ।।१७७।। सर्वथाऽप्यजिघांसूनां, गुरुदेवहितैषिणाम् । अदीर्घमत्सराणां च, मुक्तिरासनवर्तिनी ।।१७८।। कालस्वभावनियतिचेतनेतरकर्मणाम् । भवितव्यतया पाके, मुक्तिर्भवति नान्यथा ।।१७९।। बालावबोधनकृते मलधारिसूरिः, श्रीराजशेखर इति प्रथमानबुद्धिः । सम्यग्गुरोरधिगतोत्त-मतर्कशास्त्रः, षड्दर्शनीमिति मनाक् कथयांबभूव ।।१८०।।
।। इति श्रीराजशेखरसूरिकृतः षड्दर्शनसमुच्चयः ।।