________________
८२६
षड्दर्शन समुचय, भाग - २, परिशिष्ट - १
ज्ञानपारमिताद्यास्तु, ग्रन्थाः स्युर्दश तन्मते । प्रासादा वर्तुलास्तेषां, बुद्धदण्ड इति स्मृताः ।।१४७।। मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराणे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ।।१४८।। इति बौद्धमतम् ।। उक्ता लिङ्गादयो भेदा, दर्शनानां शिवैषिणाम् । तद्विस्तरस्तु न प्रोक्तो, यथाज्ञानमुदीरितः ।।१४९।।
[अष्टाङ्गयोगस्वरुप अष्टाङ्गयोगसिद्ध्यर्थं, दध्युलिङ्गानि लिङ्गिनः । सर्वे प्राहुस्तमष्टाङ्गं, तत्स्वरूपं वदाम्यथ ।।१५०।। अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । नियमाः शौचसन्तोषौः, स्वाध्यायतपसी अपि ।।१५१।। देवताप्रणिधानं च, करणं पुनरासनम् । प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् ।।१५२।। प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्य: समाहृतिः । .. धारणा तु क्वचिद् ध्येये, चित्तस्य स्थिरबन्धनम् ।।१५३।। ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः । समाधिस्तु तदेवार्थमात्राभासनरूपकम् ।।१५४।। एवं योगो यमाद्यङ्गैरष्टभिः संमतोऽष्टधा । मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ।।१५५।। निर्वर्तको भवेद् धर्मो, दर्शनानां शिवैषिणाम् । राज्यादिभोगमिच्छूनां, गृहिणां तु प्रवर्तकः ।।१५६।।
[नास्तिकमत सर्वसा-वद्यविरतिर्धर्मः सिद्धये निवर्तकः । इष्टापूर्तादिको धर्मो, भवेद् भूत्यै प्रवर्तकः ।।१५७।। धर्माधर्मविधातारं, जीवं दर्शनिनो विदुः । नास्तिकास्तं न मन्यन्ते, पुण्यापुण्यबहिमुखाः ।।१५८ ।। तेऽधिपर्षद् वदन्त्येवं, नास्ति जीवो न कर्म च । धर्माधर्मा न विद्येते, ततः किं नु तयोः फलम् ? ।।१५९।।