________________
षड्दर्शन समुदय, भाग - २, परिशिष्ट - १
अक्षपादो गुरुस्तेषां, तेन ते ह्याक्षपादकाः । उत्तमां संयमावस्थां, प्राप्ता नग्ना भ्रमन्ति ते ।।१५।। प्रमाणानि च चत्वारि, प्रत्यक्षं लैङ्गिकं तथा । उपमानं च शाब्दं च, तत्फलानि पृथक् पृथक् ।।१६।। तत्त्वानि षोडशामुत्र, प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च, संशयश्च प्रयोजनम् ।।१७।। दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयो । वादो जल्पो वितण्डा च, हेत्वाभासाश्छलानि च ।।१८।। जातयो निग्रहस्थानान्येषां व्ययस्तु दुस्तरः । आत्यन्तिकस्तु दुःखानां, वियोगो मोक्ष उच्यते ।।१९।। जयन्ताचार्यरचितो, न्यायतर्कोऽतिदुस्तरः । अन्यस्तूदयनाचार्यो, ग्रन्थप्रासादसूत्र-भृत् ।।१००।। भासर्वज्ञो न्यायसारतर्कसूत्रविधायकः । न्यायसाराभिधे तर्के, टीका अष्टादश स्फुटाः ।।१०१।। न्यायभूषणनाम्नी तु, टीका तासु प्रसिद्धिभाक् । अयमेषां विशेषस्तु, यत्प्रजल्पन्ति पर्षदि ।।१०२।। शैवीं दीक्षां द्वादशाब्दी, सेवित्वा योऽपि मञ्चति । दासीदासोऽपि भवति, सोऽपि निर्वाणमृच्छति ।।१०३।। एतेषु निर्विकारा ये, मीमांसा दर्शयन्ति ते । तत्र पद्यमिदं चास्ति, मोक्षमार्गप्ररूपकम् ।।१०४।। न स्वधुनी न फणिनो न कपालदाम, नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रास्ति नान्यदपि किञ्चिदुपास्महे तद्, रूपं पुराणमुनिशीलितमीश्वरस्य ।।१०५।। स एव योगिनां सेव्यो, योऽर्वाचीनस्तु योगभाक् । स ध्यायमानो राज्यादिसुखलुब्धेनिषेव्यते ।।१०६ ।। उक्तं च तैः स्वयोगशास्त्रे - वीतरागं स्मरन् योगी, वीतरागत्वमश्नुते । सरागं ध्यायत: पुंसः, सरागत्वं तु निश्चितम् ।।१०७ ।।