________________
षड्दर्शन समुआय, भाग-२, परिशिष्ट -१
८२३
येन येन हि भावेन, युज्यते यन्त्रवाहकः । तेन तन्मयतां याति, विश्वरूपो मणिर्यथा ।।१०८।। श्रुतानुसारतः प्रोक्तं, नैयायिकमतं मया । एतेषामेव शास्त्रेभ्यस्तांस्तान् भावान् विदुर्बुधाः ।।१०९।। एतेषां यजमानस्तु, सुताराहृदयेश्वरः । सत्यवादी हरिश्चन्द्रो, रामलक्ष्मणपूर्वजः ।।११०।। भरटानां व्रतादाने, वर्णव्यक्तिर्न काचन । यस्य पुनः शिवे भक्तिव्रती स भरटो भवेत् ।।१११।। अमीषां सर्वतीर्थेषु, भरटा एव पूजकाः । शेषा नमस्कारकराः, सोऽपि कार्यों न सन्मुखः ।।११२।।
इति शैवम् ।
[वैशेषिकमत] अथ वैशेषिकं ब्रूमः, पाशुपतान्यनामकम् । लिङ्गादि योगवत्तेषां, ते ते तीर्थकरा अपि ।।११३।। वैशेषिकाणां योगेभ्यो, मानतत्त्वगता भिदा । प्रत्यक्षमनुमानं च, मते तेषां प्रमाद्वयम् ।।११४ ।। अवशेषप्रमाणा-नामन्तर्भावोऽत्र तैर्मतः । तत्त्वानि तु षडेवात्र, द्रव्यप्रभृतिकान्यहो ! ।।११५ ।। द्रव्यं गुणास्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायो च, तत्त्वषट्कं हि तन्मते ।।११६।। तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरि-क्षाणि । कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा ।।११७ ।। स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभाग-संयोगो । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ।।११८ ।। बुद्धिः सुखदुःखमिच्छाधर्माधर्मप्रयत्नसंस्काराः । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगो गुणा एते ।।११९।। उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मतत् परापरे द्वे तु सामान्ये ।।१२०।।