________________
८२०
षड्दर्शन समुशय, भाग - २, परिशिष्ट - १
यज्ञोपवीतं प्रक्षाल्य, पिबन्ति तजलं शुचि । एते साङ्ख्यानुगा वेषात्, तत्त्वेऽतिमहती भिदा ।।६८।। षट्प्रमाणस्पृशो भाट्टास्तन्नामानि प्रचक्ष्महे । प्रत्यक्षमनुमानं च, शाब्दं चोपमया सह ।।६९।। अर्थापत्तिरभावश्च, भाट्टानां षट् प्रमाः स्मृताः । प्रभाकरमते पञ्च, ते ह्यभावं न मन्वते ।।७०।। एकमेवाद्वितीयं स्याद्, ब्रह्म तत्त्वं महाफलम् । प्रपञ्चः स्तम्भकुम्भादिस्तेषां शास्त्रे निरर्थकः ।।७१।। मीमांसको द्विजन्मैवेत्यतः शूद्रानवर्जकः । न पौरुषकृता वेदाः, पारम्पर्येण तद्ग्रहात् ।।७२।। मीमांसकानां चत्वारो, भेदास्तेषु कुटीचरः । बहूदकश्च हंसश्च, तथा परमहंसकः ।।७३।। कुटीचरो मठावासी, यजमानपरिग्रही । बहूदको नदीतीरे, स्नातो नैरस्यभेक्ष्यभुक् ।।७४।। हंसो भ्रमति देशेषु, तप:शोषितविग्रहः । यः स्यात्परमहंसस्तु, तस्याचारं वदाम्यहम् ।।७५।। स ईशानी दिशं गच्छन्, यत्र निष्ठितशक्तिकः । तत्रानशनमादत्ते, वेदान्तध्यानतत्परः ।।७६।। परः पर इहोत्कृष्टो, याज्यास्तेषां तु वाडवाः । सावयवत्प्रकृतेर्भेदाद्, मोक्षो जीवस्य तन्मते ।।७७।। गार्गीयस्मृति-मध्यगा: श्लोकाः "त्रिदण्डी सशिखो यस्तु, ब्रह्मसूत्री गृहच्युतः । सकृत् पुत्रगृहेऽनाति, यो याति स कुटीचरः ।।७।। कुटीचरस्य रूपेण, ब्रह्मभिक्षो जिताशनः । बहूदकः स विज्ञेयो, विष्णुजापपरायणः ।।७९।। ब्रह्मसूत्रशिखाहीनः, कषायाम्बरदण्डभृत् । एकरात्रिं वसेद्ग्रामे, नगरे च त्रिरात्रिकम् ।।८।। विप्राणामाव-सथेषु, विधूमेषु गताग्निषु । ब्रह्मभिक्षां चरेद्धंसः, कुटिकावासमाचरेत् ।।१।।