________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट - १
तर्कग्रन्था एतदीया, माठरस्तत्त्व - कौमुदी । गौडपादाऽऽत्रेयतन्त्रे, साङ्ख्यसप्ततिसूत्रयुक् ।।५५ ।। काश्यां प्राचुर्यमेतेषां बहवो मासोपवासिकाः । धूम्रमार्गानुगा विप्रा, अर्चिर्मागानुगास्त्वमी । । ५६ ॥ वेदप्रियास्ततो विप्रा, यज्ञमार्गानुगामिनः । हिंसादिवेद - विरताः साङ्ख्या अध्यात्मवादिनः । । ५७ ।।
स्वकीयस्य मतस्यैते, महिमानं प्रचक्षते ।
यदि साङ्ख्यमते भक्तिस्तदा मुक्तिर्विना क्रियाम् ।। ५८ ।। उक्तं च मठारप्रान्ते -
हस पिब लल खाद मोद नित्यं, भुङ्क्ष्व च भोगान् यथाऽभि-लाषम् । यदि विदितं ते कपिलमतं तत्, प्राप्स्यसि मोक्षसौख्यमचिरेण ।। ५९ ।। इति साङ्ख्यमतम् ।।
[मीमांसकमत जैमिनीयमत ]
अथ मीमांसकं ब्रूमो, जैमिनीयापराभिधम् ।
जैमिनीया एकदण्डास्त्रिदण्डा अपि साङ्ख्यवत् ।। ६० ।।
मीमांसको द्विधा कर्म, ब्रह्ममीमांसकस्तथा ।
वेदान्ती मन्यते ब्रह्म, कर्म भट्टप्रभाकरौ । । ६१ ।। ते धातुरक्तवसना, मृगचर्मोप-वेशिकाः । कमण्डलुधरा मुण्डा, भट्टाः प्राभाकराश्च ते ।। ६२ ।।
वेदान्तध्यानमेवैकमाचारस्तैरुरीकृतः ।
तेषां मते नास्ति देवः सर्वज्ञादिविशेषणः ।। ६३ ।।
तस्मादतीन्द्रियार्थानां, साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिर्णयः । । ६४ । । अत एत पुरा कार्यो, वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी । । ६५ ।। नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्त्तकं वचः प्राहुः, स्व:कामोऽग्निं यथा यजेत् ॥ ६६ ॥ वेद एव गुरुस्तेषां वक्ता कश्चित्परो न हि ।
ततः स्वयं ते संन्यस्तं, संन्यस्तमिति भाषिणः ।। ६७ ।।
८१९