________________
षड्दर्शन समुशय भाग - २, श्लोक - ८७, मीमांसकदर्शन
लोकायतमतेऽप्येवं सङ्क्षपोऽयं निवेदितः ।
अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ।।८७।। શ્લોકાર્થ આ પ્રમાણે લોકાયતમતનો પણ સંક્ષેપ જણાવ્યો. બુદ્ધિશાળી પુરુષો દ્વારા દરેક शनन। मभिधेयन। तत्पर्थिने वियारको होश. ॥८७॥ - - -
व्याख्या-एवं-अमुना प्रकारेण अपेः समुश्चयार्थत्वान्न केवलमन्यमतेषु सङ्केप उक्तो लोकायतमतेऽप्ययमनन्तरोक्तः सझेपो निवेदितः । ननु बौद्धादिमतेषु सर्वेष्वपि सक्षेप एवात्र यधुच्यत तर्हि विस्तरेण तत्परमार्थः कथमवभोत्स्यते ? इत्याशङ्क्याह-“अभिधेय" इत्यादि । अभिधेयस्य-सर्वदर्शनवाच्यस्यार्थस्य तात्पर्यार्थः-अशेषविशेषविशिष्टः परमार्थः परिसमन्तात्पौर्वापर्येणालोच्यः-स्वयं विमर्शनीयः । अथवा “लोचूड् दर्शने” इति धातुपाठादालोच्यस्तत्तत्तदीयशास्त्रेभ्योऽवलोकनीयः सुबुद्धिभिः-सुनिपुणमतिभिः सङ्क्षितरुचिसत्त्वानुग्रहार्थत्वादस्य सूत्रकरणस्येति । अथवा सर्वदर्शनसंमतानां सत्त्वानां परस्परं विरोधमाकर्ण्य । किं कर्तव्यता मूढानां प्राणिनां यत्कर्तव्योपदेशमाह “अभिधेय" इत्यादिअभिधेयं-सर्वदर्शनसंबन्धी प्रतिपाद्योऽर्थः तस्य यस्तात्पर्यार्थः-सत्यासत्यविभागेन व्यवस्थापितस्तत्त्वार्थः स पर्यालोच्यः। सम्यग्विचारणीयो न पुनर्यथोक्तमात्रो निर्विचार ग्राह्यः । कैः ? सुबुद्धिभिः-सुष्ठु शोभना मार्गानुसारिणी पक्षपातरहिता बुद्धिः-मतिर्येषां ते सुबुद्धयः, तैर्न पुनः कदाग्रहग्रहिलैः । यदुक्तम्-“आग्रही बत निनीषति युक्तिं यत्र तत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ।।१ ।।” अयमत्र भावार्थःसर्वदर्शनानां परस्परं मतविरोधमाकर्ण्य मूढस्य प्राणिनः सर्वदर्शनस्पृहयालुतायां निजदर्शनेकपक्षपातितायां वा दुर्लभं स्वर्गापवर्गसाधकत्वम्, अतो मध्यस्थवृत्तितया विमर्शनीयः सत्यासत्यार्थविभागेन तात्त्विकोऽर्थः, विमृश्य च श्रेयस्करः पन्थाभ्युपगन्तव्यो यतितव्यं च तत्र कुशलमतिभिः ।।८७।।
इति श्री तपागणगगनाङ्गणदिनमणिश्रीदेवसुन्दरसूरिपदपद्मोपजीविश्रीगुणरत्नसूरिविरचितायां तर्करहस्यदीपिकायां षड्दर्शनसमुञ्चयटीकायां जैमिनीयचार्वाकीयमतस्वरुपनिर्णयो नाम षष्ठोऽधिकारः ।। तत्समाप्तौ च समाप्तेयं तर्करहस्यदीपिकाम्नी षड्दर्शनसमुचयवृत्तिः ।।